३. परम्परभोजनसिक्खापदवण्णना
२२१. ततिये कुलपटिपाटिया अब्बोच्छिन्नं कत्वा निरन्तरं दिय्यमानत्ता ‘‘भत्तपटिपाटि अट्ठिता होती’’ति पाळियं वुत्तं, अन्तरा अट्ठत्वा निरन्तरं पवत्ताति वुत्तं होति. उपचारवसेनाति वोहारवसेन. न हि सो बदरमत्तमेव देति, उपचारवसेन पन एवं वदति. बदरचुण्णसक्खरादीहि पयोजितं ‘‘बदरसाळव’’न्ति वुच्चति.
२२६. विकप्पनावसेनेव तं भत्तं असन्तं नाम होतीति अनुपञ्ञत्तिवसेन विकप्पनं अट्ठपेत्वा यथापञ्ञत्तं सिक्खापदमेव ठपितं. परिवारे पन विकप्पनाय अनुजाननम्पि अनुपञ्ञत्तिसमानन्ति कत्वा ‘‘चतस्सो अनुपञ्ञत्तियो’’ति वुत्तं. महापच्चरिआदीसु वुत्तनयं पच्छा वदन्तो पाळिया संसन्दनतो परम्मुखाविकप्पनमेव पतिट्ठापेसि. केचि पन ‘‘तदा अत्तनो सन्तिके ठपेत्वा भगवन्तं अञ्ञस्स अभावतो थेरो सम्मुखाविकप्पनं नाकासि, भगवता च विसुं सम्मुखाविकप्पना न वुत्ता, तथापि सम्मुखाविकप्पनापि वट्टती’’ति वदन्ति. तेनेव मातिकाअट्ठकथायम्पि (कङ्खा. अट्ठ. परम्परभोजनसिक्खापदवण्णना) ‘‘यो भिक्खु पञ्चसु सहधम्मिकेसु अञ्ञतरस्स ‘मय्हं भत्तपच्चासं तुय्हं दम्मी’ति वा ‘विकप्पेमी’ति वा एवं सम्मुखा वा ‘इत्थन्नामस्स दम्मी’ति वा ‘विकप्पेमी’ति वा एवं परम्मुखा वा पठमनिमन्तनं अविकप्पेत्वा पच्छा निमन्तितकुले लद्धभिक्खतो एकसित्थम्पि अज्झोहरति, पाचित्तिय’’न्ति वुत्तं.
२२९. पञ्चहि भोजनेहि निमन्तितस्स येन येन पठमं निमन्तितो, तस्स तस्स भोजनतो उप्पटिपाटिया अविकप्पेत्वा वा परस्स परस्स भोजनं परम्परभोजनन्ति आह ‘‘सचे पन मूलनिमन्तनं हेट्ठा होति, पच्छिमं पच्छिमं उपरि, तं उपरितो पट्ठाय भुञ्जन्तस्स आपत्ती’’ति. हत्थं अन्तो पवेसेत्वा सब्बहेट्ठिमं गण्हन्तस्स मज्झे ठितम्पि अन्तोहत्थगतं होतीति आह ‘‘हत्थं पन…पे… यथा तथा वा भुञ्जन्तस्स अनापत्ती’’ति. खीरस्स रसस्स च भत्तेन अमिस्सं हुत्वा उपरि ठितत्ता ‘‘खीरं वा रसं वा पिवतो अनापत्ती’’ति वुत्तं.
महाउपासकोति गेहसामिको. ‘‘महाअट्ठकथायं ‘आपत्ती’ति वचनेन कुरुन्दियं ‘वट्टती’ति वचनं विरुद्धं विय दिस्सति, द्विन्नम्पि अधिप्पायो महापच्चरियं विभावितो’’ति महागण्ठिपदेसु वुत्तं. सब्बे निमन्तेन्तीति अकप्पियनिमन्तनेन निमन्तेन्ति. ‘‘परम्परभोजनं नाम पञ्चन्नं भोजनानं अञ्ञतरेन भोजनेन निमन्तितो, तं ठपेत्वा अञ्ञं पञ्चन्नं भोजनानं अञ्ञतरं भोजनं भुञ्जति, एतं परम्परभोजनं नामा’’ति वुत्तत्ता सतिपि भिक्खाचरियाय पठमं लद्धभावे ‘‘पिण्डाय चरित्वा लद्धभत्तं भुञ्जति, आपत्ती’’ति वुत्तं. अविकप्पवसेन ‘‘वचीकम्म’’न्ति वुत्तं. सेसमेत्थ उत्तानमेव. परम्परभोजनता, समयाभावो, अज्झोहरणन्ति इमानि पनेत्थ तीणि अङ्गानि.
परम्परभोजनसिक्खापदवण्णना निट्ठिता.