६. चीवरसिब्बापनसिक्खापदवण्णना

१७५. छट्ठे सचे सा भिक्खुनी तं चीवरं आदितोव पारुपेय्य, अञ्ञा भिक्खुनियो दिस्वा उज्झापेय्युं, ततो महाजनो पस्सितुं न लभतीति मञ्ञमानो ‘‘यथासंहटं हरित्वा निक्खिपित्वा’’तिआदिमाह.

१७६. नीहरतीति सकिं नीहरति. येपि तेसं निस्सितकाति सम्बन्धो. कथिनवत्तन्ति ‘‘सब्रह्मचारीनं कातुं वट्टती’’ति इतिकत्तब्बतावसेन सूचिकम्मकरणं. आचरियुपज्झायानं दुक्कटन्ति अकप्पियसमादानवसेन दुक्कटं. वञ्चेत्वाति ‘‘तव ञातिकाया’’ति अवत्वा ‘‘एकिस्सा भिक्खुनिया’’ति एत्तकमेव वत्वा. ‘‘एकिस्सा भिक्खुनिया’’ति सुत्वा ते अञ्ञातिकसञ्ञिनो भवेय्युन्ति आह ‘‘अकप्पिये नियोजितत्ता’’ति. ‘‘इदं ते मातु चीवर’’न्तिआदीनि अवत्वापि ‘‘इदं चीवरं सिब्बेही’’ति सुद्धचित्तेन सिब्बापेन्तस्सपि अनापत्ति.

१७९. उपाहनत्थविकादिन्ति आदि-सद्देन यं चीवरं निवासेतुं वा पारुपितुं वा न सक्का होति, तम्पि सङ्गण्हाति. सेसमेत्थ उत्तानमेव. अञ्ञातिकाय भिक्खुनिया सन्तकता, निवासनपारुपनूपगता, वुत्तनयेन सिब्बनं वा सिब्बापनं वाति इमानि पनेत्थ तीणि अङ्गानि.

चीवरसिब्बापनसिक्खापदवण्णना निट्ठिता.