३. ओवादवग्गो
१. ओवादसिक्खापदवण्णना
१४४. भिक्खुनिवग्गस्स पठमसिक्खापदे कथानुसारेनाति ‘‘सो थेरो किंसीलो किंसमाचारो कतरकुला पब्बजितो’’तिआदिना पुच्छन्तानं पुच्छाकथानुसारेन. कथेतुं वट्टन्तीति निरामिसेनेव चित्तेन कथेतुं वट्टन्ति. अनिय्यानिकत्ता सग्गमोक्खमग्गानं तिरच्छानभूता कथा तिरच्छानकथाति आह ‘‘सग्गमग्गगमनेपी’’तिआदि. अपि-सद्देन पगेव मोक्खमग्गगमनेति दीपेति. तिरच्छानभूतन्ति तिरोकरणभूतं, बाधिकन्ति वुत्तं होति. लद्धासेवना हि तिरच्छानकथा सग्गमोक्खानं बाधिकाव होति. समिद्धोति परिपुण्णो. सहितत्थोति युत्तत्थो. अत्थगम्भीरतादियोगतो गम्भीरो. बहुरसोति अत्थरसादिबहुरसो. लक्खणपटिवेधसंयुत्तोति अनिच्चादिलक्खणपटिवेधरसआवहनतो लक्खणपटिवेधसंयुत्तो.
१४५-१४७. परतोति परत्थ, उत्तरिन्ति अत्थो. करोन्तोवाति परिबाहिरे करोन्तोयेव. पातिमोक्खोति चारित्तवारित्तप्पभेदं सिक्खापदसीलं. तञ्हि यो नं पाति रक्खति, तं मोक्खेति मोचेति आपायिकादीहि दुक्खेहि, तस्मा ‘‘पातिमोक्ख’’न्ति वुच्चति. संवरणं संवरो, कायवचीद्वारानं पिदहनं. येन हि ते संवुता पिहिता होन्ति, सो संवरो, कायिकवाचसिकस्स अवीतिक्कमस्सेतं नामं. पातिमोक्खसंवरेन संवुतोति पातिमोक्खसंवरेन पिहितकायवचीद्वारो. तथाभूतो च यस्मा तेन समङ्गी नाम होति, तस्मा वुत्तं ‘‘समन्नागतो’’ति. वत्ततीति अत्तभावं पवत्तेति. विहरतीति इमिना पातिमोक्खसंवरसीले ठितस्स भिक्खुनो इरियापथविहारो दस्सितो.
सङ्खेपतो वुत्तमत्थं वित्थारतो पाळिया विभावेतुं ‘‘वुत्तञ्हेत’’न्तिआदि आरद्धं. तत्थ विभङ्गेति झानविभङ्गे. सीलं पतिट्ठातिआदीनि पातिमोक्खस्सेव वेवचनानि. तत्थ (विभ. अट्ठ. ५११) सीलन्ति कामञ्चेतं सह कम्मवाचापरियोसानेन इज्झनकस्स पातिमोक्खस्सेव वेवचनं, एवं सन्तेपि धम्मतो एतं सीलं नाम पाणातिपातादीहि वा विरमन्तस्स वत्तपटिपत्तिं वा पूरेन्तस्स चेतनादयो धम्मा वेदितब्बा. यस्मा पन पातिमोक्खसीलेन भिक्खु सासने पतिट्ठाति नाम, तस्मा तं ‘‘पतिट्ठा’’ति वुत्तं. पतिट्ठहति वा एत्थ भिक्खु, कुसलधम्मा एव वा एत्थ पतिट्ठहन्तीति पतिट्ठा. अयमत्थो ‘‘सीले पतिट्ठाय नरो सपञ्ञो’’ति (सं. नि. १.२३, १९२) च ‘‘पतिट्ठा, महाराज, सीलं सब्बेसं कुसलानं धम्मान’’न्ति (मि. प. २.१.९) च ‘‘सीले पतिट्ठितस्स खो, महाराज, सब्बे कुसला धम्मा न परिहायन्ती’’ति च आदिसुत्तवसेन वेदितब्बो.
तदेतं पुब्बुप्पत्तिअत्थेन आदि. वुत्तम्पि चेतं –
‘‘तस्मातिह त्वं, उत्तिय, आदिमेव विसोधेहि कुसलेसु धम्मेसु. को चादि कुसलानं धम्मानं? सीलञ्च सुविसुद्धं दिट्ठि च उजुका’’ति (सं. नि. ५.३८२).
यथा हि नगरवड्ढकी नगरं मापेतुकामो पठमं नगरट्ठानं सोधेति, ततो अपरभागे वीथिचतुक्कसिङ्घाटकादिपरिच्छेदेन विभजित्वा नगरं मापेति, एवमेव योगावचरो आदिम्हि सीलं सोधेति, ततो अपरभागे समाधिविपस्सनामग्गफलनिब्बानानि सच्छिकरोति. यथा वा पन रजको पठमं तीहि खारेहि वत्थं धोवित्वा परिसुद्धे वत्थे यदिच्छकं रङ्गजातं उपनेति, यथा वा पन छेको चित्तकारो रूपं लिखितुकामो आदितो भित्तिपरिकम्मं करोति, ततो अपरभागे रूपं समुट्ठापेति, एवमेव योगावचरो आदितोव सीलं विसोधेत्वा अपरभागे समथविपस्सनादयो धम्मे सच्छिकरोति. तस्मा सीलं ‘‘आदी’’ति वुत्तं.
तदेतं चरणसरिक्खताय चरणं. ‘‘चरणा’’ति पादा वुच्चन्ति. यथा हि छिन्नचरणस्स पुरिसस्स दिसंगमनाभिसङ्खारो न जायति, परिपुण्णपादस्सेव जायति, एवमेव यस्स सीलं भिन्नं होति खण्डं अपरिपुण्णं, तस्स निब्बानगमनाय ञाणगमनं न सम्पज्जति. यस्स पन तं अभिन्नं होति अखण्डं परिपुण्णं, तस्स निब्बानगमनाय ञाणगमनं सम्पज्जति. तस्मा सीलं ‘‘चरण’’न्ति वुत्तं.
तदेतं संयमनवसेन संयमो, संवरणवसेन संवरोति उभयेनपि सीलसंयमो चेव सीलसंवरो च कथितो. वचनत्थो पनेत्थ संयमेति वीतिक्कमविप्फन्दनं, पुग्गलं वा संयमेति वीतिक्कमवसेन तस्स विप्फन्दितुं न देतीति संयमो, वीतिक्कमस्स पवेसनद्वारं संवरति पिदहतीति संवरो. मोक्खन्ति उत्तमं मुखभूतं वा. यथा हि सत्तानं चतुब्बिधो आहारो मुखेन पविसित्वा अङ्गमङ्गानि फरति, एवं योगिनोपि चतुभूमककुसलं सीलमुखेन पविसित्वा अत्थसिद्धिं सम्पादेति. तेन वुत्तं ‘‘मोक्ख’’न्ति. पमुखे साधूति पमोक्खं, पुब्बङ्गमं सेट्ठं पधानन्ति अत्थो. कुसलानं धम्मानं समापत्तियाति चतुभूमककुसलानं पटिलाभत्थाय पमोक्खं पुब्बङ्गमं सेट्ठं पधानन्ति वेदितब्बं.
कायिको अवीतिक्कमोति तिविधं कायसुचरितं. वाचसिकोति चतुब्बिधं वचीसुचरितं. कायिकवाचसिकोति तदुभयं. इमिना आजीवट्ठमकसीलं परियादाय दस्सेति. संवुतोति पिहितो, संवुतिन्द्रियो पिहितिन्द्रियोति अत्थो. यथा हि संवुतद्वारं गेहं ‘‘संवुतगेहं पिहितगेह’’न्ति वुच्चति, एवमिध संवुतिन्द्रियो ‘‘संवुतो’’ति वुत्तो. पातिमोक्खसंवरेनाति पातिमोक्खसङ्खातेन संवरेन. उपेतोतिआदीनि सब्बानि अञ्ञमञ्ञवेवचनानि.
इरियतीतिआदीहि सत्तहिपि पदेहि पातिमोक्खसंवरसीले ठितस्स भिक्खुनो इरियापथविहारो कथितो. तत्थ इरियतीति चतुन्नं इरियापथानं अञ्ञतरसमङ्गिभावतो इरियति. तेहि इरियापथचतुक्केहि कायसकटवत्तनेन वत्तति. एकं इरियापथदुक्खं अपरेन इरियापथेन विच्छिन्दित्वा चिरट्ठितिभावेन सरीररक्खणतो पालेति. एकस्मिं इरियापथे असण्ठहित्वा सब्बइरियापथे वत्तनतो यपेति. तेन तेन इरियापथेन तथा तथा कायस्स यापनतो यापेति. चिरकालवत्तापनतो चरति. इरियापथेन इरियापथं विच्छिन्दित्वा जीवितहरणतो विहरति.
मिच्छाजीवपटिसेधकेनाति –
‘‘इधेकच्चो वेळुदानेन वा पत्तदानेन वा पुप्फ फल सिनानदन्तकट्ठदानेन वा चाटुकम्यताय वा मुग्गसूप्यताय वा पारिभटयताय वा जङ्घपेसनिकेन वा अञ्ञतरञ्ञतरेन वा बुद्धपटिकुट्ठेन मिच्छाआजीवेन जीविकं कप्पेति, अयं वुच्चति अनाचारो’’ति (विभ. ५१३) –
एवं वुत्तअनाचारसङ्खातमिच्छाजीवपटिपक्खेन.
न वेळुदानादिना आचारेनाति –
‘‘इधेकच्चो न वेळुदानेन न पत्त न पुप्फ न फल न सिनान न दन्तकट्ठ न चाटुकम्यताय न मुग्गसूप्यताय न पारिभटयताय न जङ्घपेसनिकेन न अञ्ञतरञ्ञतरेन बुद्धपटिकुट्ठेन मिच्छाआजीवेन जीविकं कप्पेति, अयं वुच्चति आचारो’’ति (विभ. ५१३) –
एवं वुत्तेन न वेळुदानादिना आचारेन.
वेसियादिअगोचरं पहायाति –
‘‘इधेकच्चो वेसियगोचरो वा होति विधव थुल्लकुमारि पण्डक भिक्खुनि पानागारगोचरो वा, संसट्ठो विहरति राजूहि राजमहामत्तेहि तित्थियेहि तित्थियसावकेहि अननुलोमिकेन संसग्गेन, यानि पन तानि कुलानि अस्सद्धानि अप्पसन्नानि अनोपानभूतानि अक्कोसकपरिभासकानि अनत्थकामानि अहितकामानि अफासुककामानि अयोगक्खेमकामानि भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं, तथारूपानि कुलानि सेवति भजति पयिरुपासति, अयं वुच्चति अगोचरो’’ति (विभ. ५१४) –
एवमागतं वेसियादिअगोचरं पहाय.
सद्धासम्पन्नकुलादिनाति एत्थ आदि-सद्देन उपनिस्सयगोचरादिं सङ्गण्हाति. तिविधो हि गोचरो उपनिस्सयगोचरो आरक्खगोचरो उपनिबन्धगोचरोति. कतमो उपनिस्सयगोचरो? दसकथावत्थुगुणसमन्नागतो कल्याणमित्तो, यं निस्साय असुतं सुणाति, सुतं परियोदपेति, कङ्खं वितरति, दिट्ठिं उजुं करोति, चित्तं पसादेति. यस्स वा पन अनुसिक्खमानो सद्धाय वड्ढति, सीलेन सुतेन चागेन पञ्ञाय वड्ढति, अयं उपनिस्सयगोचरो. कतमो आरक्खगोचरो? इध भिक्खु अन्तरघरं पविट्ठो वीथिं पटिपन्नो ओक्खित्तचक्खु युगमत्तदस्सावी संवुतो गच्छति, न हत्थिं ओलोकेन्तो, न अस्सं, न रथं, न पत्तिं, न इत्थिं, न पुरिसं ओलोकेन्तो, न उद्धं ओलोकेन्तो, न अधो ओलोकेन्तो, न दिसाविदिसं विपेक्खमानो गच्छति, अयं आरक्खगोचरो. कतमो उपनिबन्धगोचरो? चत्तारो सतिपट्ठाना, यत्थ चित्तं उपनिबन्धति. वुत्तञ्हेतं भगवता ‘‘को च, भिक्खवे, भिक्खुनो गोचरो सको पेत्तिको विसयो? यदिदं चत्तारो सतिपट्ठाना’’ति (सं. नि. ५.३७२), अयं उपनिबन्धगोचरो. इति अयं तिविधो गोचरो इध आदि-सद्देन सङ्गहितोति दट्ठब्बो.
अप्पमत्तकेसु वज्जेसूति असञ्चिच्च आपन्नसेखियअकुसलचित्तुप्पादादिभेदेसु वज्जेसु. भयतो दस्सनसीलोति परमाणुमत्तं वज्जं अट्ठसट्ठियोजनसतसहस्सुब्बेधसिनेरुपब्बतसदिसं कत्वा दस्सनसभावो, सब्बलहुकं वा दुब्भासितमत्तं पाराजिकसदिसं कत्वा दस्सनसभावो. सम्मा आदायाति सम्मदेव सक्कच्चं सब्बसो वा आदियित्वा.
वट्टदुक्खनिस्सरणत्थिकेहि सोतब्बतो सुतं, परियत्तिधम्मो. तं धारेतीति सुतधरो, सुतस्स आधारभूतो. यस्स हि इतो गहितं एत्तो पलायति, छिद्दघटे उदकं विय न तिट्ठति, परिसमज्झे एकं सुत्तं वा जातकं वा कथेतुं वा वाचेतुं वा न सक्कोति, अयं न सुतधरो नाम. यस्स पन उग्गहितं बुद्धवचनं उग्गहितकालसदिसमेव होति, दसपि वीसतिपि वस्सानि सज्झायं अकरोन्तस्स न नस्सति, अयं सुतधरो नाम. तेनेवाह ‘‘यदस्स त’’न्तिआदि. एकपदम्पि एकक्खरम्पि अविनट्ठं हुत्वा सन्निचियतीति सन्निचयो, सुतं सन्निचयो एतस्मिन्ति सुतसन्निचयोति आह ‘‘सुतं सन्निचितं अस्मिन्ति सुतसन्निचयो’’ति. यस्स हि सुतं हदयमञ्जुसायं सन्निचितं सिलाय लेखा विय सुवण्णघटे पक्खित्ता सीहवसा विय च साधु तिट्ठति, अयं सुतसन्निचयो नाम. तेनाह ‘‘एतेन…पे… अविनासं दस्सेती’’ति.
धाताति पगुणा वाचुग्गता. एकस्स हि उग्गहितबुद्धवचनं निच्चकालिकं न होति, ‘‘असुकसुत्तं वा जातकं वा कथेही’’ति वुत्ते ‘‘सज्झायित्वा अञ्ञेहि संसन्दित्वा परिपुच्छावसेन अत्थं ओगाहित्वा जानिस्सामी’’ति वदति. एकस्स पगुणं पबन्धविच्छेदाभावतो गङ्गासोतसदिसं भवङ्गसोतसदिसञ्च अकित्तिमं सुखप्पवत्ति होति, ‘‘असुकसुत्तं वा जातकं वा कथेही’’ति वुत्ते उद्धरित्वा तमेव कथेति. तं सन्धाय वुत्तं ‘‘धाता’’ति. वाचाय पगुणा कताति सुत्तदसकवग्गदसकपण्णासदसकवसेन वाचाय सज्झायिता, दस सुत्तानि गतानि, दस वग्गानि गतानीतिआदिना सल्लक्खेत्वा वाचाय सज्झायिताति अत्थो. सुत्तेकदेसस्स हि सुत्तमत्तस्स च वचसा परिचयो इध नाधिप्पेतो, अथ खो वग्गादिवसेनेव. मनसा अनुपेक्खिताति मनसा अनु अनु पेक्खिता, भागसो निज्झायिता चिन्तिताति अत्थो. आवज्जन्तस्साति वाचाय सज्झायितुं बुद्धवचनं मनसा चिन्तेन्तस्स. सुट्ठु पटिविद्धाति निज्जटं निग्गुम्बं कत्वा सुट्ठु याथावतो पटिविद्धा.
द्वे मातिकाति भिक्खुमातिका भिक्खुनीमातिका च. वाचुग्गताति पुरिमस्सेव वेवचनं. तिस्सो अनुमोदनाति सङ्घभत्ते दानानिसंसपटिसंयुत्तअनुमोदना, विहारादिमङ्गले मङ्गलसुत्तादिअनुमोदना, मतकभत्तादिअवमङ्गले तिरोकुट्टादिअनुमोदनाति इमा तिस्सो अनुमोदना. कम्माकम्मविनिच्छयोति परिवारावसाने कम्मवग्गे वुत्तविनिच्छयो. ‘‘विपस्सनावसेन उग्गण्हन्तेन चतुधातुववत्थानमुखेन उग्गहेतब्ब’’न्ति तीसुपि गण्ठिपदेसु वुत्तं. चतूसु दिसासु अप्पटिहतत्ता चतस्सो दिसा एतस्साति चतुद्दिसो, चतुद्दिसोयेव चातुद्दिसो, चतस्सो वा दिसा अरहति, चतूसु वा दिसासु साधूति चातुद्दिसो.
अभिविनयेति सकले विनयपिटके. विनेतुन्ति सिक्खापेतुं. ‘‘द्वे विभङ्गा पगुणा वाचुग्गता कातब्बाति इदं परिपुच्छावसेन उग्गहणम्पि सन्धाय वुत्त’’न्ति वदन्ति. एकस्स पमुट्ठं, इतरस्स पगुणं होतीति आह ‘‘तीहि जनेहि सद्धिं परिवत्तनक्खमा कातब्बा’’ति. अभिधम्मेति नामरूपपरिच्छेदे. हेट्ठिमा वा तयो वग्गाति महावग्गतो हेट्ठा सगाथकवग्गो निदानवग्गो खन्धकवग्गोति इमे तयो वग्गा. ‘‘धम्मपदम्पि सह वत्थुना उग्गहेतुं वट्टती’’ति महापच्चरियं वुत्तत्ता जातकभाणकेन साट्ठकथं जातकं उग्गहेत्वापि धम्मपदम्पि सह वत्थुना उग्गहेतब्बमेव.
कल्याणा सुन्दरा परिमण्डलपदब्यञ्जना वाचा अस्साति कल्याणवाचो. तेनाह ‘‘सिथिलधनितादीनं…पे… वाचाय समन्नागतो’’ति. तत्थ परिमण्डलपदब्यञ्जनायाति ठानकरणसम्पत्तिया सिक्खासम्पत्तिया च कत्थचिपि अनूनताय परिमण्डलपदानि ब्यञ्जनानि अक्खरानि एतिस्साति परिमण्डलपदब्यञ्जना, पदमेव वा अत्थस्स ब्यञ्जनतो पदब्यञ्जनं, तं अक्खरपारिपूरिं कत्वा सिथिलधनितादिदसविधं ब्यञ्जनबुद्धिं अपरिहापेत्वा वुत्तं परिमण्डलं नाम होति. अक्खरपारिपूरिया हि पदब्यञ्जनस्स परिमण्डलता. तेन वुत्तं ‘‘सिथिलधनितादीनं यथाविधानवचनेना’’ति, परिमण्डलं पदब्यञ्जनं एतिस्साति परिमण्डलपदब्यञ्जना. अथ वा पज्जति ञायति अत्थो एतेनाति पदं, नामादि. यथाधिप्पेतमत्थं ब्यञ्जेतीति ब्यञ्जनं, वाक्यं. तेसं परिपुण्णताय परिमण्डलपदब्यञ्जना.
अपिच यो भिक्खु परिसति धम्मं देसेन्तो सुत्तं वा जातकं वा निक्खिपित्वा अञ्ञं उपारम्भकरं सुत्तं आहरति, तस्स उपमं कथेति, तदत्थं ओतारेति, एवं इदं गहेत्वा एत्थ खिपन्तो एकपस्सेनेव परिहरन्तो कालं ञत्वा वुट्ठहति, निक्खित्तसुत्तं पन निक्खित्तमत्तमेव होति, तस्स कथा अपरिमण्डला नाम होति अत्थस्स अपरिपुण्णभावतो. यो पन सुत्तं वा जातकं वा निक्खिपित्वा बहि एकपदम्पि अगन्त्वा यथानिक्खित्तस्स सुत्तस्स अत्थसंवण्णनावसेनेव सुत्तन्तरम्पि आनेन्तो पाळिया अनुसन्धिञ्च पुब्बापरञ्च अपेक्खन्तो आचरियेहि दिन्ननये ठत्वा तुलिकाय परिच्छिन्दन्तो विय तं तं अत्थं सुववत्थितं कत्वा दस्सेन्तो गम्भीरमातिकाय उदकं पेसेन्तो विय गम्भीरमत्थं गमेन्तो वग्गिहारिगतिया पदे पदं कोट्टेन्तो सिन्धवाजानीयो विय एकंयेव पदं अनेकेहि परियायेहि पुनप्पुनं संवण्णन्तो गच्छति, तस्स कथा परिमण्डला नाम होति धम्मतो अत्थतो अनुसन्धितो पुब्बापरतो आचरियुग्गहतोति सब्बसो परिपुण्णभावतो. एवरूपम्पि कथं सन्धाय ‘‘परिमण्डलपदब्यञ्जनाया’’ति वुत्तं.
गुणपरिपुण्णभावेन पुरे भवाति पोरी, तस्स भिक्खुनो तेनेतं भासितब्बं अत्थस्स गुणपरिपुण्णभावेन पुरे पुण्णभावे भवाति अत्थो. पुरे वा भवत्ता पोरिया नागरिकित्थिया सुखुमालत्तनेन सदिसाति पोरी, पुरे संवड्ढनारी विय सुकुमाराति अत्थो. पुरस्स एसातिपि पोरी, पुरस्स एसाति नगरवासीनं कथाति अत्थो. नगरवासिनो हि युत्तकथा होन्ति पितिमत्तं ‘‘पिता’’ति, भातिमत्तं ‘‘भाता’’ति वदन्ति. एवरूपी हि कथा बहुनो जनस्स कन्ता होति मनापा, ताय पोरिया.
विस्सट्ठायाति पित्तसेम्हादीहि अपलिबुद्धाय सन्दिट्ठविलम्बितादिदोसरहिताय. अथ वा नातिसीघं नातिसणिकं निरन्तरं एकरसञ्च कत्वा परिसाय अज्झासयानुरूपं धम्मं कथेन्तस्स वाचा विस्सट्ठा नाम. यो हि भिक्खु धम्मं कथेन्तो सुत्तं वा जातकं वा आरभित्वा आरद्धकालतो पट्ठाय तुरिततुरितो अरणिं मन्थेन्तो विय उण्हखादनीयं खादन्तो विय पाळिया अनुसन्धिपुब्बापरेसु गहितं गहितमेव, अग्गहितं अग्गहितमेव कत्वा पुराणपण्णन्तरेसु चरमानं गोधं उट्ठापेन्तो विय तत्थ तत्थ पहरन्तो ओसापेत्वा उट्ठाय गच्छति. पुराणपण्णन्तरेसु हि परिपातियमाना गोधा कदाचि दिस्सति कदाचि न दिस्सति, एवमेकच्चस्स अत्थवण्णना कत्थचि दिस्सति कत्थचि न दिस्सति. योपि धम्मं कथेन्तो कालेन सीघं, कालेन सणिकं, कालेन मन्दं, कालेन महासद्दं, कालेन खुद्दकसद्दं करोति, यथा निज्झामतण्हिकपेतस्स मुखतो निच्छरणकअग्गि कालेन जलति कालेन निब्बायति, एवं पेतधम्मकथिको नाम होति, परिसाय उट्ठातुकामाय पुन आरभति. योपि कथेन्तो तत्थ तत्थ वित्थायति, अप्पटिभानताय आपज्जति, केनचि रोगेन नित्थुनन्तो विय कन्दन्तो विय कथेति, इमेसं सब्बेसम्पि कथा विस्सट्ठा नाम न होति सुखेन अप्पवत्तभावतो. यो पन सुत्तं आहरित्वा आचरियेहि दिन्ननये ठितो आचरियुग्गहं अमुञ्चन्तो यथा च आचरिया तं तं सुत्तं संवण्णेसुं, तेनेव नयेन संवण्णेन्तो नातिसीघं नातिसणिकन्तिआदिना वुत्तनयेन कथापबन्धं अविच्छिन्नं कत्वा नदीसोतो विय पवत्तेति, आकासगङ्गातो भस्समानउदकं विय निरन्तरकथं पवत्तेति, तस्स कथा विस्सट्ठा नाम होति. तं सन्धाय वुत्तं ‘‘विस्सट्ठाया’’ति.
अनेलगळायाति एलगळविरहिताय. कस्सचि हि कथेन्तस्स एलं गळति, लाला पग्घरति, खेळफुसितानि वा निक्खमन्ति, तस्स वाचा एलगळा नाम होति, तब्बिपरीतायाति अत्थो. अत्थस्स विञ्ञापनियाति आदिमज्झपरियोसानं पाकटं कत्वा भासितत्थस्स विञ्ञापनसमत्थताय अत्थञापने साधनाय.
वाचाव करणन्ति वाक्करणं, उदाहारघोसो. कल्याणं मधुरं वाक्करणं अस्साति कल्याणवाक्करणो. तेनेवाह ‘‘मधुरस्सरो’’ति. हीळेतीति अवजानाति. मातुगामोति सम्बन्धो. मनं अपायति वड्ढेतीति मनापो. तेनाह ‘‘मनवड्ढनको’’ति. वट्टभयेन तज्जेत्वाति योब्बनमदादिमत्ता भिक्खुनियो संसारभयेन तासेत्वा. गिहिकालेति अत्तनो गिहिकाले. भिक्खुनिया मेथुनेन भिक्खुनीदूसको होतीति भिक्खुनिया कायसंसग्गमेव वदति. सिक्खमानासामणेरीसु पन मेथुनेनपि भिक्खुनीदूसको न होतीति आह ‘‘सिक्खमानासामणेरीसु मेथुनधम्म’’न्ति. ‘‘कासायवत्थवसनाया’’ति वचनतो दुस्सीलासु भिक्खुनीसिक्खमानासामणेरीसु गरुधम्मं अज्झापन्नपुब्बो पटिक्खित्तोयेवाति दट्ठब्बं. तस्सा भिक्खुनिया अभावेपि या या तस्सा वचनं अस्सोसुं, ता ता तथेव मञ्ञन्तीति आह ‘‘मातुगामो ही’’तिआदि.
इदानि अट्ठ अङ्गानि समोधानेत्वा दस्सेतुं ‘‘एत्थ चा’’तिआदि आरद्धं. इमेहि पन अट्ठहङ्गेहि असमन्नागतं ञत्तिचतुत्थेन कम्मेन सम्मन्नेन्तो दुक्कटं आपज्जति, भिक्खु पन सम्मतोयेव होति.
१४८. गरुकेहीति गरुकातब्बेहि. एकतोउपसम्पन्नायाति उपयोगत्थे भुम्मवचनं. ‘‘ओवदती’’ति वा इमस्स ‘‘वदती’’ति अत्थे सति सम्पदानवचनम्पि युज्जति. भिक्खूनं सन्तिके उपसम्पन्ना नाम परिवत्तलिङ्गा वा पञ्चसतसाकियानियो वा.
१४९. आसनं पञ्ञपेत्वाति एत्थ ‘‘सचे भूमि मनापा होति, आसनं अपञ्ञापेतुम्पि वट्टती’’ति तीसुपि गण्ठिपदेसु वुत्तं. मातुगामग्गहणेन भिक्खुनीपि सङ्गहिताति आह ‘‘धम्मदेसनापत्तिमोचनत्थ’’न्ति. सम्मतस्स भिक्खुनो सन्तिकं पाटिपदे ओवादत्थाय सब्बाहि भिक्खुनीहि आगन्तब्बतो ‘‘समग्गात्थ भगिनियो’’ति इमिना सब्बासं आगमनं पुच्छतीति आह ‘‘सब्बा आगतात्था’’ति. गिलानासु अनागतासुपि गिलानानं अनागमनस्स अनुञ्ञातत्ता आगन्तुं समत्थाहि च सब्बाहि आगतत्ता ‘‘समग्गाम्हय्या’’ति वत्तुं वट्टति. अन्तोगामे वातिआदीसु यत्थ पञ्च अङ्गानि भूमियं पतिट्ठापेत्वा वन्दितुं न सक्का होति, तत्थ ठिताय एव कायं पुरतो नामेत्वा ‘‘वन्दामि अय्या’’ति अञ्जलिं पग्गय्ह गन्तुम्पि वट्टति. अन्तरघरन्ति कत्थचि नगरद्वारस्स बहिइन्दखीलतो पट्ठाय अन्तोगामो वुच्चति, कत्थचि घरुम्मारतो पट्ठाय अन्तोगेहं. इध पन ‘‘अन्तोगामे वा’’ति विसुं वुत्तत्ता ‘‘अन्तरघरे वा’’ति अन्तोगेहं सन्धाय वुत्तन्ति दट्ठब्बं. यत्थ कत्थचीति अन्तोगामादीसु यत्थ कत्थचि.
वट्टतीति ‘‘वसथ अय्ये, मयं भिक्खू आनेस्सामा’’ति वुत्तवचनं सद्दहन्तीहि वसितुं वट्टति. न निमन्तिता हुत्वा गन्तुकामाति मनुस्सेहि निमन्तिता हुत्वा गन्तुकामा न होन्तीति अत्थो, तत्थेव वस्सं उपगन्तुकामा होन्तीति अधिप्पायो. यतोति भिक्खुनुपस्सयतो. याचित्वाति ‘‘तुम्हेहि आनीतओवादेनेव मयम्पि वसिस्सामा’’ति याचित्वा. तत्थाति तस्मिं भिक्खुनुपस्सये. आगतानं सन्तिके ओवादेन वसितब्बन्ति पच्छिमिकाय वस्सं वसितब्बं. अभिक्खुकावासे वसन्तिया आपत्तीति चोदनामुखेन सामञ्ञतो आपत्तिप्पसङ्गं वदति, न पन तस्सा आपत्ति. वस्सच्छेदं कत्वा गच्छन्तियापि आपत्तीति वस्सानुपगममूलं आपत्तिं वदति. इतराय आपत्तिया अनापत्तिकारणसब्भावतो ‘‘सा रक्खितब्बा’’ति वुत्तं, सा वस्सानुपगममूला आपत्ति रक्खितब्बाति अत्थो, अभिक्खुकेपि आवासे ईदिसासु आपदासु वस्सं उपगन्तब्बन्ति अधिप्पायो. तेनाह ‘‘आपदासु हि…पे… अनापत्ति वुत्ता’’ति. इतराय पन आपत्तिया अनापत्ति, कारणे असति पच्छिमिकायपि वस्सं न उपगन्तब्बं. सन्तेसु हि भिक्खूसु वस्सं अनुपगच्छन्तिया आपत्ति. तत्थ गन्त्वा पवारेतब्बन्ति एत्थ अपवारेन्तीनं आपत्तिसम्भवतो. सचे दूरेपि भिक्खूनं वसनट्ठानं होति, सक्का च होति नवमियं गन्त्वा पवारेतुं, तत्थ गन्त्वा पवारेतब्बं. सचे पन नवमियं निक्खमित्वा सम्पापुणितुं न सक्का होति, अगच्छन्तीनं अनापत्ति.
उपोसथस्स पुच्छनं उपोसथपुच्छा, सायेव क-प्पच्चयं रस्सत्तञ्च कत्वा उपोसथपुच्छकन्ति वुत्ताति आह ‘‘उपोसथपुच्छन’’न्ति. उपोसथो पुच्छितब्बोति ‘‘कदा, अय्य, उपोसथो’’ति पुच्छितब्बो. भिक्खुनापि ‘‘स्वे, भगिनि, उपोसथो’’ति वत्तब्बं. भिक्खू कदाचि केनचि कारणेन पन्नरसिकं वा चातुद्दसीउपोसथं, चातुद्दसिकं वा पन्नरसीउपोसथं करोन्ति, यस्मिञ्च दिवसे भिक्खूहि उपोसथो कतो, तस्मिंयेव भिक्खुनीहिपि उपोसथो कातब्बोति अधिप्पायेन ‘‘पक्खस्स तेरसियंयेव गन्त्वा’’तिआदि वुत्तं. एवं पुच्छितेन भिक्खुना सचे चातुद्दसियं उपोसथं करोन्ति, ‘‘चातुद्दसिको भगिनी’’ति वत्तब्बं. सचे पन पन्नरसियं करोन्ति, ‘‘पन्नरसिको भगिनी’’ति आचिक्खितब्बं. ओवादत्थायाति ओवादयाचनत्थाय. पाटिपददिवसतो पन पट्ठाय धम्मसवनत्थाय गन्तब्बन्ति पाटिपददिवसे ओवादग्गहणत्थाय दुतियदिवसतो पट्ठाय अन्तरन्तरा धम्मसवनत्थाय गन्तब्बं. ओवादग्गहणम्पि हि ‘‘धम्मसवनमेवा’’ति अभेदेन वुत्तं. निरन्तरं विहारं उपसङ्कमिंसूति येभुय्येन उपसङ्कमनं सन्धाय वुत्तं. वुत्तञ्हेतन्तिआदिना यथानुसिट्ठं पटिपज्जिस्सामाति सब्बासंयेव भिक्खुनीनं उपसङ्कमनदीपनत्थं पाळि निदस्सिता. ओवादं गच्छतीति ओवादं याचितुं गच्छति. द्वे तिस्सोति द्वीहि तीहि. करणत्थे चेतं पच्चत्तवचनं.
पासादिकेनाति पसादजनकेन निद्दोसेन कायकम्मादिना. सम्पादेतूति तिविधं सिक्खं सम्पादेतु. सचे पातिमोक्खुद्देसकंयेव दिस्वा ताहि भिक्खुनीहि ओवादो याचितो भवेय्य, तेन किं कातब्बन्ति? उपोसथग्गे सन्निपतिते भिक्खुसङ्घे पुब्बकिच्चवसेन ‘‘अत्थि काचि भिक्खुनियो ओवादं याचमाना’’ति पुच्छियमाने ‘‘एवं वदेही’’ति ओवादपटिग्गाहकेन वत्तब्बवचनं अञ्ञेन भिक्खुना कथापेत्वा पातिमोक्खुद्देसकेन वत्तब्बवचनं अत्तना वत्वा पुन सयमेव गन्त्वा भिक्खुनीनं आरोचेतब्बं, अञ्ञेन वा भिक्खुना तस्मिं दिवसे पातिमोक्खं उद्दिसापेतब्बं. एतं वुत्तन्ति ‘‘ताही’’ति एतं बहुवचनं वुत्तं.
एका भिक्खुनी वाति इदं बहूहि भिक्खुनुपस्सयेहि एकाय एव भिक्खुनिया सासनपटिग्गहणं सन्धाय वुत्तं, न पन दुतियिकाय अभावं सन्धाय. बहूहि भिक्खुनुपस्सयेहीति अन्तरामग्गे वा तस्मिंयेव वा गामे बहूहि भिक्खुनुपस्सयेहि. ‘‘भिक्खुनिसङ्घो च अय्य भिक्खुनियो च भिक्खुनी चा’’ति इमिना नानाउपस्सयेहि सासनं गहेत्वा आगतभिक्खुनिया वत्तब्बवचनं दस्सेति. इदञ्च एकेन पकारेन मुखमत्तनिदस्सनत्थं वुत्तं, तस्मिं तस्मिं पन भिक्खुनुपस्सये भिक्खुनीनं पमाणं सल्लक्खेत्वा तदनुरूपेन नयेन वत्तब्बं. भिक्खुसङ्घस्स अय्यानं अय्यस्साति इदं सङ्खिपित्वा वुत्तं.
पातिमोक्खुद्देसकेनपीति इदं सङ्घुपोसथवसेनेव दस्सितं. यत्थ पन तिण्णं द्विन्नं वा वसनट्ठाने पातिमोक्खुद्देसो नत्थि, तत्थापि ञत्तिठपनकेन इतरेन वा भिक्खुना इमिनाव नयेन वत्तब्बं. एकपुग्गलेनपि उपोसथदिवसे ओवादयाचनं सम्पटिच्छित्वा पाटिपदे आगतानं भिक्खुनीनं ‘‘नत्थि कोची’’तिआदि वत्तब्बमेव. सचे सयमेव, ‘‘सम्मतो अह’’न्ति वत्तब्बं. इमं विधिं अजानन्तो इध बालोति अधिप्पेतो.
१५०. अधम्मकम्मे अधम्मकम्मसञ्ञी वग्गं भिक्खुनिसङ्घं वग्गसञ्ञी ओवदति, आपत्ति पाचित्तियस्सातिआदीसु विज्जमानेसुपि वग्गादिभावनिमित्तेसु दुक्कटेसु अधम्मकम्ममूलकं पाचित्तियमेव पाळियं सब्बत्थ वुत्तन्ति आह ‘‘अधम्मकम्मे द्विन्नं नवकानं वसेन अट्ठारस पाचित्तियानी’’ति. सेसमेत्थ उत्तानमेव. असम्मतता, भिक्खुनिया परिपुण्णूपसम्पन्नता, ओवादवसेन अट्ठगरुधम्मभणनन्ति इमानि पनेत्थ तीणि अङ्गानि.
ओवादसिक्खापदवण्णना निट्ठिता.
२. अत्थङ्गतसिक्खापदवण्णना
१५३. दुतिये कुसलानं धम्मानं सातच्चकिरियायाति पुब्बभागप्पटिपत्तिवसेन वुत्तं. मुनातीति जानाति. तेन ञाणेनाति तेन अरहत्तफलपञ्ञासङ्खातेन ञाणेन. पथेसूति उपायमग्गेसु. अरहतो परिनिट्ठितसिक्खत्ता आह ‘‘इदञ्च…पे… वुत्त’’न्ति. अथ वा ‘‘अप्पमज्जतो सिक्खतो’’ति इमेसं पदानं हेतुअत्थता दट्ठब्बा, तस्मा अप्पमज्जनहेतु सिक्खनहेतु च अधिचेतसोति अत्थो. सोकाति चित्तसन्तापा. एत्थ च अधिचेतसोति इमिना अधिचित्तसिक्खा, अप्पमज्जतोति इमिना अधिसीलसिक्खा, मुनिनो मोनपथेसु सिक्खतोति एतेहि अधिपञ्ञासिक्खा, मुनिनोति वा एतेन अधिपञ्ञासिक्खा, मोनपथेसु सिक्खतोति एतेन तासं लोकुत्तरसिक्खानं पुब्बभागप्पटिपदा, सोका न भवन्तीतिआदीहि सिक्खापारिपूरिया आनिसंसा पकासिताति वेदितब्बं.
कोकनुदन्ति पदुमविसेसनं यथा ‘‘कोकासय’’न्ति, तं किर बहुपत्तं वण्णसम्पन्नं अतिविय सुगन्धञ्च होति. ‘‘कोकनुदं नाम सेतपदुम’’न्तिपि वदन्ति. पातोति पगेव. अयञ्हेत्थ अत्थो – यथा कोकनुदसङ्खातं पदुमं पातो सूरियुग्गमनवेलायं फुल्लं विकसितं अवीतगन्धं सिया विरोचमानं, एवं सरीरगन्धेन गुणगन्धेन च सुगन्धं सरदकाले अन्तलिक्खे आदिच्चमिव अत्तनो तेजसा तपन्तं अङ्गेहि निच्छरणजुतिताय अङ्गीरसं सम्मासम्बुद्धं पस्साति.
अभब्बोति पटिपत्तिसारमिदं सासनं, पटिपत्ति च परियत्तिमूलिका, त्वञ्च परियत्तिं उग्गहेतुं असमत्थो, तस्मा अभब्बोति अधिप्पायो. सुद्धं पिलोतिकखण्डन्ति इद्धिया अभिसङ्खतं परिसुद्धं चोळखण्डं. तदा किर भगवा ‘‘न सज्झायं कातुं असक्कोन्तो मम सासने अभब्बो नाम होति, मा सोचि भिक्खू’’ति तं बाहायं गहेत्वा विहारं पविसित्वा इद्धिया पिलोतिकखण्डं अभिनिम्मिनित्वा ‘‘हन्द, भिक्खु, इमं परिमज्जन्तो ‘रजोहरणं रजोहरण’न्ति पुनप्पुनं सज्झायं करोही’’ति वत्वा अदासि तत्थ पुब्बेकताधिकारत्ता.
सो किर पुब्बे राजा हुत्वा नगरं पदक्खिणं करोन्तो नलाटतो सेदे मुच्चन्ते परिसुद्धेन साटकेन नलाटं पुञ्छि, साटको किलिट्ठो अहोसि. सो ‘‘इमं सरीरं निस्साय एवरूपो परिसुद्धसाटको पकतिं जहित्वा किलिट्ठो जातो, अनिच्चा वत सङ्खारा’’ति अनिच्चसञ्ञं पटिलभति, तेन कारणेनस्स रजोहरणमेव पच्चयो जातो. रजं हरतीति रजोहरणं. संवेगं पटिलभित्वाति असुभसञ्ञं अनिच्चसञ्ञञ्च उपट्ठपेन्तो संवेगं पटिलभित्वा. सो हि योनिसो उम्मज्जन्तो ‘‘परिसुद्धं वत्थं, नत्थेत्थ दोसो, अत्तभावस्स पनायं दोसो’’ति असुभसञ्ञं अनिच्चसञ्ञञ्च पटिलभित्वा नामरूपपरिग्गहादिना पञ्चसु खन्धेसु ञाणं ओतारेत्वा कलापसम्मसनादिक्कमेन विपस्सनं वड्ढेत्वा उदयब्बयञाणादिपअपाटिया विपस्सनं अनुलोमगोत्रभुसमीपं पापेसि. तं सन्धाय वुत्तं ‘‘विपस्सनं आरभी’’ति. ओभासगाथं अभासीति ओभासविस्सज्जनपुब्बकभासितगाथा ओभासगाथा, तं अभासीति अत्थो.
एत्थ च ‘‘अधिचेतसोति इमं ओभासगाथं अभासी’’ति इधेव वुत्तं. विसुद्धिमग्गे (विसुद्धि. २.३८६) पन धम्मपदट्ठकथायं (ध. प. अट्ठ. १.चूळपन्थकत्थेरवत्थु) थेरगाथासंवण्णनायञ्च (थेरगा. अट्ठ. २.५६६) –
‘‘रागो रजो न च पन रेणु वुच्चति;
रागस्सेतं अधिवचनं रजोति;
एतं रजं विप्पजहित्वा पण्डिता;
विहरन्ति ते विगतरजस्स सासने.
‘‘दोसो…पे… सासने.
‘‘मोहो रजो न च पन रेणु वुच्चति;
मोहस्सेतं अधिवचनं रजोति;
एतं रजं विप्पजहित्वा पण्डिता;
विहरन्ति ते विगतरजस्स सासनेति. –
इमा तिस्सो ओभासगाथा अभासी’’ति वुत्तं. अधिचेतसोति च अयं चूळपन्थकत्थेरस्स उदानगाथाति इमिस्सायेव पाळिया आगतं. थेरगाथायं पन चूळपन्थकत्थेरस्स उदानगाथासु अयं अनारुळ्हा, ‘‘एकुदानियत्थेरस्स पन अयं उदानगाथा’’ति (थेरगा. अट्ठ. १.एकुदानियत्थेरगाथावण्णना) तत्थ वुत्तं. एवं सन्तेपि इमिस्सा पाळिया अट्ठकथाय च एवमागतत्ता चूळपन्थकत्थेरस्सपि अयं उदानगाथा ओभासगाथावसेन च भगवता भासिताति गहेतब्बं. अरहत्तं पापुणीति अभिञ्ञापटिसम्भिदापरिवारं अरहत्तं पापुणि. अभब्बो त्वन्तिआदिवचनतो अनुकम्पावसेन सद्धिविहारिकादिं सङ्घिकविहारा निक्कड्ढापेन्तस्स अनापत्ति विय दिस्सति. अभब्बो हि थेरो सञ्चिच्च तं कातुं, निक्कड्ढनसिक्खापदे वा अपञ्ञत्ते थेरेन एवं कतन्ति गहेतब्बं.
१५६. ओवदन्तस्स पाचित्तियन्ति अत्थङ्गते सूरिये गरुधम्मेहि वा अञ्ञेन वा धम्मेनेव ओवदन्तस्स सम्मतस्सपि पाचित्तियं. सेसमेत्थ उत्तानमेव. अत्थङ्गतसूरियता, परिपुण्णूपसम्पन्नता, ओवदनन्ति इमानि पनेत्थ तीणि अङ्गानि.
अत्थङ्गतसिक्खापदवण्णना निट्ठिता.
३. भिक्खुनुपस्सयसिक्खापदवण्णना
१६२. ततियं उत्तानत्थमेव. उपस्सयूपगमनं, परिपुण्णूपसम्पन्नता, समयाभावो, गरुधम्मेहि ओवदनन्ति इमानि पनेत्थ चत्तारि अङ्गानि.
भिक्खुनुपस्सयसिक्खापदवण्णना निट्ठिता.
४. आमिससिक्खापदवण्णना
१६४. चतुत्थे ‘‘उपसम्पन्नं…पे… भिक्खुनोवादक’’न्ति इमेसं ‘‘मङ्कुकत्तुकामो’’ति इमिना सम्बन्धो. ‘‘अवण्णं कत्तुकामो अयसं कत्तुकामो’’ति इमेसं पन वसेन ‘‘उपसम्पन्न’’न्तिआदीसु ‘‘उपसम्पन्नस्सा’’ति विभत्तिविपरिणामो कातब्बोति इममत्थं सन्धाय ‘‘उज्झापनके वुत्तनयेनेवत्थो वेदितब्बो’’ति वुत्तं. ‘‘चीवरहेतु ओवदती’’तिआदिना भणन्तस्स एकेकस्मिं वचने निट्ठिते पाचित्तियं वेदितब्बं. ‘‘उपसम्पन्नं सङ्घेन असम्मत’’न्ति पाळिवचनतो ‘‘सम्मतेन वा सङ्घेन वा भारं कत्वा ठपितो’’ति अट्ठकथावचनतो च अट्ठहि अङ्गेहि समन्नागतो सम्मतेन वा विप्पवसितुकामेन ‘‘यावाहं आगमिस्सामि, ताव ते भारो होतू’’ति याचित्वा ठपितो तस्साभावतो सङ्घेन वा तथेव भारं कत्वा ठपितो अट्ठहि गरुधम्मेहि अञ्ञेन वा धम्मेन ओवदितुं लभतीति वेदितब्बं. तस्मा ‘‘यो पन, भिक्खु, असम्मतो भिक्खुनियो ओवदेय्य, पाचित्तिय’’न्ति इदं पगेव भारं कत्वा अट्ठपितं सन्धाय वुत्तन्ति गहेतब्बं.
१६८. अनापत्ति पकतिया चीवरहेतु…पे… ओवदन्तं भणतीति एत्थ आमिसहेतु ओवदन्तं ‘‘आमिसहेतु ओवदती’’ति सञ्ञाय एवं भणन्तस्स अनापत्ति, ‘‘न आमिसहेतु ओवदती’’ति सञ्ञिनो पन दुक्कटं, न आमिसहेतु ओवदन्तं पन ‘‘आमिसहेतु ओवदती’’ति सञ्ञाय भणन्तस्सपि अनापत्ति सचित्तकत्ता सिक्खापदस्स. सेसमेत्थ उत्तानमेव. उपसम्पन्नता, धम्मेन लद्धसम्मुतिता, अनामिसन्तरता, अवण्णकामताय एवं भणनन्ति इमानि पनेत्थ चत्तारि अङ्गानि.
आमिससिक्खापदवण्णना निट्ठिता.
१६९. पञ्चमं उत्तानत्थमेव.
६. चीवरसिब्बापनसिक्खापदवण्णना
१७५. छट्ठे सचे सा भिक्खुनी तं चीवरं आदितोव पारुपेय्य, अञ्ञा भिक्खुनियो दिस्वा उज्झापेय्युं, ततो महाजनो पस्सितुं न लभतीति मञ्ञमानो ‘‘यथासंहटं हरित्वा निक्खिपित्वा’’तिआदिमाह.
१७६. नीहरतीति सकिं नीहरति. येपि तेसं निस्सितकाति सम्बन्धो. कथिनवत्तन्ति ‘‘सब्रह्मचारीनं कातुं वट्टती’’ति इतिकत्तब्बतावसेन सूचिकम्मकरणं. आचरियुपज्झायानं दुक्कटन्ति अकप्पियसमादानवसेन दुक्कटं. वञ्चेत्वाति ‘‘तव ञातिकाया’’ति अवत्वा ‘‘एकिस्सा भिक्खुनिया’’ति एत्तकमेव वत्वा. ‘‘एकिस्सा भिक्खुनिया’’ति सुत्वा ते अञ्ञातिकसञ्ञिनो भवेय्युन्ति आह ‘‘अकप्पिये नियोजितत्ता’’ति. ‘‘इदं ते मातु चीवर’’न्तिआदीनि अवत्वापि ‘‘इदं चीवरं सिब्बेही’’ति सुद्धचित्तेन सिब्बापेन्तस्सपि अनापत्ति.
१७९. उपाहनत्थविकादिन्ति आदि-सद्देन यं चीवरं निवासेतुं वा पारुपितुं वा न सक्का होति, तम्पि सङ्गण्हाति. सेसमेत्थ उत्तानमेव. अञ्ञातिकाय भिक्खुनिया सन्तकता, निवासनपारुपनूपगता, वुत्तनयेन सिब्बनं वा सिब्बापनं वाति इमानि पनेत्थ तीणि अङ्गानि.
चीवरसिब्बापनसिक्खापदवण्णना निट्ठिता.
७. संविदहनसिक्खापदवण्णना
१८१. सत्तमे ‘‘पच्छा गच्छन्तीनं चोरा अच्छिन्दिंसू’’ति एत्थ ‘‘पत्तचीवर’’न्ति पाठसेसोति आह ‘‘पच्छा गच्छन्तीनं पत्तचीवर’’न्ति. ता भिक्खुनियोति पच्छा गच्छन्तियो भिक्खुनियो. ‘‘पच्छा गच्छन्तीन’’न्ति च विभत्तिविपरिणामेनेत्थ सम्बन्धो वेदितब्बो. पाळियं ‘‘गच्छाम भगिनि, गच्छाम अय्या’’ति भिक्खुपुब्बकं संविधानं वुत्तं, ‘‘गच्छाम अय्य, गच्छाम भगिनी’’ति भिक्खुनीपुब्बकं. एकद्धानमग्गन्ति एकं अद्धानसङ्खातं मग्गं, एकतो वा अद्धानमग्गं. हिय्योति सुवे. परेति ततियदिवसे.
१८२-१८३. द्विधा वुत्तप्पकारोति पादगमनवसेन पक्खगमनवसेन वाति द्विधा वुत्तप्पभेदो. चतुन्नं मग्गानं सम्बन्धट्ठानं चतुक्कं, तिण्णं मग्गानं सम्बन्धट्ठानं सिङ्घाटकं. ‘‘गामन्तरे गामन्तरे’’ति एत्थ अञ्ञो गामो गामन्तरन्ति आह ‘‘निक्खमने अनापत्ति…पे… भिक्खुनो पाचित्तिय’’न्ति. ‘‘संविधाया’’ति पाळियं अविसेसेन वुत्तत्ता ‘‘नेव पाळिया समेती’’ति वुत्तं, ‘‘एत्थन्तरे संविदहितेपि भिक्खुनो दुक्कट’’न्ति वुत्तत्ता ‘‘न सेसअट्ठकथाय समेती’’ति वुत्तं. अद्धयोजनं अतिक्कमन्तस्साति असति गामे अद्धयोजनं अतिक्कमन्तस्स. यत्थ हि अद्धयोजनब्भन्तरे अञ्ञो गामो न होति, तं इध अगामकं अरञ्ञन्ति अधिप्पेतं, अद्धयोजनब्भन्तरे पन गामे सति गामन्तरगणनाय एव आपत्ति.
१८५. रट्ठभेदेति रट्ठविलोपे. चक्कसमारुळ्हाति इरियापथचक्कं सकटचक्कं वा समारुळ्हा. सेसं उत्तानमेव. द्विन्नम्पि संविदहित्वा मग्गप्पटिपत्ति, अविसङ्केतं, समयाभावो, अनापदा, गामन्तरोक्कमनं वा अद्धयोजनातिक्कमो वाति इमानि पनेत्थ पञ्च अङ्गानि. एकतोउपसम्पन्नादीहि सद्धिं गच्छन्तस्स पन मातुगामसिक्खापदेन आपत्ति.
संविदहनसिक्खापदवण्णना निट्ठिता.
८. नावाभिरुहनसिक्खापदवण्णना
१८८. अट्ठमे लोकस्सादमित्तसन्थववसेन कीळापुरेक्खारा संविदहित्वाति अयं विसेसो ‘‘एवमिमे…पे… भिक्खुनीहि सद्धिं नावाय कीळन्ती’’ति इमिना ‘‘उद्धंगामिनिं वा अधोगामिनिं वा’’ति इमिना च सिद्धो.
१८९. नदिया कुतो गामन्तरन्ति आह ‘‘यस्सा नदिया’’तिआदि. ‘‘तस्सा सगामकतीरपस्सेन…पे… अद्धयोजनगणनायाति एकेकपस्सेनेव गमनं सन्धाय वुत्तत्ता तादिसिकाय नदिया मज्झेन गच्छन्तस्स गामन्तरगणनाय अद्धयोजनगणनाय च आपत्ती’’ति वदन्ति. सब्बअट्ठकथासूतिआदिना अत्तना वुत्तमेवत्थं समत्थेति. ‘‘कीळापुरेक्खारताय भिक्खुनिया सद्धिं संविधाय नावं अभिरुहन्तस्स नदियंयेव पाचित्तियस्स वुत्तत्ता वापिसमुद्दादीसु कीळापुरेक्खारताय दुक्कटमेव, न पाचित्तिय’’न्ति वदन्ति. ‘‘लोकस्सादमित्तसन्थववसेन कीळापुरेक्खारा संविदहित्वा’’ति वचनतो केचि ‘‘इमं सिक्खापदं अकुसलचित्तं लोकवज्ज’’न्ति वदन्ति, तं न गहेतब्बं. कीळापुरेक्खारताय हि अभिरुहित्वापि गामन्तरोक्कमने अद्धयोजनातिक्कमे वा कुसलाब्याकतचित्तसमङ्गीपि हुत्वा आपत्तिं आपज्जति. यदि हि सो संवेगं पटिलभित्वा अरहत्तं वा सच्छिकरेय्य, निद्दं वा ओक्कमेय्य, कम्मट्ठानं वा मनसि करोन्तो गच्छेय्य, कुतो तस्स अकुसलचित्तसमङ्गिता, येनिदं सिक्खापदं अकुसलचित्तं लोकवज्जन्ति वुच्चति, तस्मा पण्णत्तिवज्जं तिचित्तन्ति सिद्धं. सेसमेत्थ उत्तानमेव.
नावाभिरुहनसिक्खापदवण्णना निट्ठिता.
९. परिपाचितसिक्खापदवण्णना
१९४. नवमे पटियादितन्ति भिक्खूनं अत्थाय सम्पादितं. ञातका वा होन्ति पवारिता वाति एत्थ सचेपि भिक्खुनो अञ्ञातका अप्पवारिता च सियुं, भिक्खुनिया ञातका पवारिता चे, वट्टति.
१९७. पापभिक्खूनं पक्खुपच्छेदाय इदं पञ्ञत्तं, तस्मा पञ्चभोजनेयेव आपत्ति वुत्ता. पञ्च भोजनानि ठपेत्वा सब्बत्थ अनापत्तीति इदं पन इमिना सिक्खापदेन अनापत्तिदस्सनत्थं वुत्तं. विञ्ञत्तिया उप्पन्नं परिभुञ्जन्तस्स हि अञ्ञत्थ वुत्तनयेन दुक्कटं. सेसं उत्तानमेव. भिक्खुनिपरिपाचितभावो, जाननं, गिहिसमारम्भाभावो, ओदनादीनं अञ्ञतरता, तस्स अज्झोहरणन्ति इमानि पनेत्थ पञ्च अङ्गानि.
परिपाचितसिक्खापदवण्णना निट्ठिता.
१०. रहोनिसज्जसिक्खापदवण्णना
१९८. दसमे उपनन्दस्स चतुत्थसिक्खापदेनाति अप्पटिच्छन्ने मातुगामेन सद्धिं रहोनिसज्जसिक्खापदं सन्धाय वुत्तं. किञ्चापि तं अचेलकवग्गे पञ्चमसिक्खापदं होति, उपनन्दत्थेरं आरब्भ पञ्ञत्तेसु पन चतुत्थभावतो ‘‘उपनन्दस्स चतुत्थसिक्खापदेना’’ति वुत्तं. चतुत्थसिक्खापदस्स वत्थुतो इमस्स सिक्खापदस्स वत्थुनो पठमं उप्पन्नत्ता इदं सिक्खापदं पठमं पञ्ञत्तं. इमिना च सिक्खापदेन केवलं भिक्खुनिया एव रहोनिसज्जाय आपत्ति पञ्ञत्ता, उपरि मातुगामेन सद्धिं रहोनिसज्जाय आपत्ति विसुं पञ्ञत्ताति दट्ठब्बं.
रहोनिसज्जसिक्खापदवण्णना निट्ठिता.
निट्ठितो भिक्खुनिवग्गो ततियो.