९. महल्लकविहारसिक्खापदवण्णना
१३५. नवमे ‘‘महल्लको नाम विहारो ससामिको’’ति वुत्तत्ता सञ्ञाचिकाय कुटिया अनापत्ति. ‘‘अड्ढतेय्यहत्थम्पी’’ति उक्कट्ठपरिच्छेदेन वुत्तवचनं पाळिया समेतीति आह ‘‘तं सुवुत्त’’न्ति. ‘‘पाळियं अट्ठकथायञ्च उक्कट्ठपरिच्छेदेन अड्ढतेय्यहत्थप्पमाणस्स ओकासस्स दस्सितत्ता कवाटं अड्ढतेय्यहत्थवित्थारतो ऊनकं वा होतु अधिकं वा, अड्ढतेय्यहत्थप्पमाणंयेव ओकासो’’ति वदन्ति.
यस्स वेमज्झेति यस्स विहारस्स वेमज्झे. सा अपरिपूरउपचारापि होतीति विवरियमानं कवाटं यं भित्तिं आहनति, सा समन्ता कवाटवित्थारप्पमाणउपचाररहितापि होतीति अत्थो. आलोकं सन्धेति पिधेतीति आलोकसन्धि. ‘‘पुनप्पुनं छादापेसि, पुनप्पुनं लिम्पापेसीति इमस्मिं वत्थुस्मिं उप्पन्नदोसेन सिक्खापदस्स पञ्ञत्तत्ता लेपं अनुजानन्तेन च द्वारबन्धस्स समन्ता अड्ढतेय्यहत्थप्पमाणेयेव पदेसे पुनप्पुनं लेपस्स अनुञ्ञातत्ता ततो अञ्ञत्थ पुनप्पुनं लिम्पेन्तस्स वा लिम्पापेन्तस्स वा भित्तियं मत्तिकाय कत्तब्बकिच्चं निट्ठापेत्वा पुन चतुत्थलेपे दिन्ने पाचित्तियेन भवितब्ब’’न्ति वदन्ति. गण्ठिपदेसु पन तीसुपि ‘‘पुनप्पुनं लेपदानस्स वुत्तप्पमाणतो अञ्ञत्थ पटिक्खित्तमत्तं ठपेत्वा पाचित्तियस्स अवुत्तत्ता दुक्कटं अनुरूप’’न्ति वुत्तं.
अधिट्ठातब्बन्ति संविधातब्बं. अप्पहरितेति एत्थ अप्प-सद्दो ‘‘अप्पिच्छो’’तिआदीसु विय अभावत्थोति आह ‘‘अहरिते’’ति. पतनोकासोति पतनोकासत्ता तत्र ठितस्स भिक्खुनो उपरि पतेय्याति अधिप्पायो. सचे हरिते ठितो अधिट्ठेति, आपत्ति दुक्कटस्साति वचनेन इममत्थं दीपेति – सचे विहारस्स समन्ता वुत्तप्पमाणे परिच्छेदे पुब्बण्णादीनि न सन्ति, तत्थ विहारो कारेतब्बो. यत्थ पन सन्ति, तत्थ कारापेन्तस्स दुक्कटन्ति.
१३६. एकेकं मग्गं उजुकमेव उट्ठपेत्वा छादनं मग्गेन छादनं नाम होतीति दस्सेतुं ‘‘मग्गेन छादेन्तस्सा’’ति वुत्तं. इमिना पन नयेन सब्बस्मिं विहारे एकवारं छादिते तं छदनं एकमग्गन्ति गहेत्वा ‘‘द्वे मग्गे’’तिआदि वुत्तं. ‘‘परियायेन छादनेपि इमिनाव नयेन योजेतब्ब’’न्ति तीसुपि गण्ठिपदेसु वुत्तं, तं ‘‘पुनप्पुनं छादापेसी’’ति इमाय पाळिया ‘‘सब्बम्पि चेतं छदनं छदनूपरि वेदितब्ब’’न्ति इमिना अट्ठकथावचनेन च समेति, तस्मा द्वे मग्गे अधिट्ठहित्वा ततियाय मग्गं आणापेत्वा पक्कमितब्बन्ति एत्थ द्वे छदनानि अधिट्ठहित्वा ततियं छदनं ‘‘एवं छादेही’’ति आणापेत्वा पक्कमितब्बन्ति एवमत्थो गहेतब्बो.
केचि पन ‘‘पठमं ताव एकवारं अपरिसेसं छादेत्वा पुन छदनदण्डके बन्धित्वा दुतियवारं तथेव छादेतब्बं, ततियवारचतुत्थवारे सम्पत्ते द्वे मग्गे अधिट्ठहित्वा आणापेत्वा पक्कमितब्ब’’न्ति वदन्ति. अपरे पन ‘‘पठमवारेयेव तयोपि मग्गे अधिट्ठातुं वट्टति, चतुत्थतो पट्ठाय आपत्ति पाचित्तिय’’न्ति वदन्ति. तदुभयम्पि पाळिया अट्ठकथाय च न समेति. ततियाय मग्गन्ति एत्थ ततियायाति उपयोगत्थे सम्पदानवचनं, ततियं मग्गन्ति अत्थो. तिण्णं मग्गानन्ति मग्गवसेन छादितानं तिण्णं छदनानं. तिण्णं परियायानन्ति एत्थापि एसेव नयो. चतुत्थे मग्गे वा परियाये वाति च तथा छादेन्तानं चतुत्थं छादनमेव वुत्तं. सेसं उत्तानमेव. महल्लकविहारता, अत्तनो वासागारता, उत्तरि अधिट्ठानन्ति इमानि पनेत्थ तीणि अङ्गानि.
महल्लकविहारसिक्खापदवण्णना निट्ठिता.