१. भूतगामसिक्खापदवण्णना

८९. सेनासनवग्गस्स पठमे निग्गहेतुं असक्कोन्तोति सन्धारेतुं असक्कोन्तो. इमिना पन वचनेन दारकस्स तत्थ उपनीतभावो तेन च दिट्ठभावो वुत्तोयेवाति दट्ठब्बं. तेन हि भिक्खुना तं रुक्खं छिन्दितुं आरद्धे तत्थ निब्बत्ता एका तरुणपुत्ता देवधीता पुत्तं अङ्केनादाय ठिता तं याचि ‘‘मा मे सामि विमानं छिन्दि, न सक्खिस्सामि पुत्तकं आदाय अनावासा विचरितु’’न्ति. सो ‘‘अहं अञ्ञत्थ ईदिसं रुक्खं न लभिस्सामी’’ति तस्सा वचनं नादियि. सा ‘‘इमम्पि ताव दारकं ओलोकेत्वा ओरमिस्सती’’ति पुत्तं रुक्खसाखाय ठपेसि. सो भिक्खु उक्खित्तं फरसुं सन्धारेतुं असक्कोन्तो दारकस्स बाहं छिन्दि. एवञ्च सयितो विमाने सयितो नाम होतीति कत्वा वुत्तं ‘‘रुक्खट्ठकदिब्बविमाने निपन्नस्सा’’ति.

रुक्खट्ठकदिब्बविमानेति च साखट्ठकविमानं सन्धाय वुत्तं. रुक्खस्स उपरि निब्बत्तञ्हि विमानं रुक्खपटिबद्धत्ता ‘‘रुक्खट्ठकविमान’’न्ति वुच्चति. साखट्ठकविमानं पन सब्बसाखासन्निस्सितं हुत्वा तिट्ठति. तत्थ यं रुक्खट्ठकविमानं होति, तं याव रुक्खस्स मूलमत्तम्पि तिट्ठति, ताव न नस्सति. साखट्ठकविमानं पन साखासु भिज्जमानासु तत्थ तत्थेव भिज्जित्वा सब्बसाखासु भिन्नासु सब्बं भिज्जति, इदम्पि च विमानं साखट्ठकं, तस्मा रुक्खे छिन्ने तं विमानं सब्बसो विनट्ठं, तेनेव सा देवता भगवतो सन्तिका लद्धे अञ्ञस्मिं विमाने वसि. बाहुं थनमूलेयेव छिन्दीति अंसेन सद्धिं बाहं छिन्दि. इमिना च रुक्खदेवतानं गत्तानि छिज्जन्ति, न चातुमहाराजिकादीनं विय अच्छेज्जानीति दट्ठब्बं. रुक्खधम्मेति रुक्खपकतियं, रुक्खसभावेति अत्थो. रुक्खानं विय छेदनादीसु अकुप्पनञ्हि रुक्खधम्मो नाम.

उप्पतितन्ति उप्पन्नं. भन्तन्ति धावन्तं. वारयेति निग्गण्हेय्य. इदं वुत्तं होति – यथा नाम छेको सारथि अतिवेगेन धावन्तं रथं निग्गहेत्वा यथिच्छकं पेसेति, एवं यो पुग्गलो उप्पन्नं कोधं वारये निग्गण्हितुं सक्कोति, तमहं सारथिं ब्रूमि. इतरो पन राजउपराजादीनं रथसारथिजनो रस्मिग्गाहो नाम होति, न उत्तमसारथीति.

दुतियगाथाय पन अयमत्थो – योति (सु. नि. अट्ठ. १.१) यो यादिसो खत्तियकुला वा पब्बजितो ब्राह्मणकुला वा पब्बजितो नवो वा मज्झिमो वा थेरो वा. उप्पतितन्ति उद्धमुद्धं पतितं, गतं पवत्तन्ति अत्थो, उप्पन्नन्ति वुत्तं होति. कोधन्ति ‘‘अनत्थं मे चरतीति आघातो जायती’’तिआदिना (दी. नि. ३.३४०; अ. नि. ९.२९) नयेन सुत्ते वुत्तानं नवन्नं, ‘‘अत्थं मे न चरती’’तिआदीनञ्च तप्पटिपक्खतो सिद्धानं नवन्नमेवाति अट्ठारसन्नं खाणुकण्टकादिना अट्ठानेन सद्धिं एकूनवीसतिया आघातवत्थूनं अञ्ञतराघातवत्थुसम्भवं आघातं. विसटन्ति वित्थतं. सप्पविसन्ति सप्पस्स विसं. इवाति ओपम्मवचनं. इ-कारलोपं कत्वा व-इच्चेव वुत्तं. ओसधेहीति अगदेहि. इदं वुत्तं होति – यथा विसतिकिच्छको वेज्जो सप्पेन दट्ठो सब्बं कायं फरित्वा ठितं विसटं सप्पविसं मूलखन्धतचपत्तपुप्फादीनं अञ्ञतरेहि, नानाभेसज्जेहि पयोजेत्वा कतेहि वा ओसधेहि खिप्पमेव विनेय्य, एवमेव यो यथावुत्तेन आघातवत्थुना उप्पतितं चित्तसन्तानं ब्यापेत्वा ठितं कोधं विनयनुपायेसु तदङ्गविनयादीसु येन केनचि उपायेन विनेति नाधिवासेति पजहति विनोदेति ब्यन्तिं करोति, सो भिक्खु जहाति ओरपारं. सो एवं कोधं विनेन्तो भिक्खु यस्मा कोधो ततियमग्गेन सब्बसो पहीयति, तस्मा ओरपारसञ्ञितानि पञ्चोरम्भागियसंयोजनानि जहातीति. अविसेसेन हि पारन्ति तीरस्स नामं, तस्मा ओरानि च तानि संसारसागरस्स पारभूतानि चाति कत्वा ‘‘ओरपार’’न्ति वुच्चति.

अथ वा यो उप्पतितं विनेति कोधं विसटं सप्पविसंव ओसधेहि, सो ततियमग्गेन सब्बसो कोधं विनेत्वा अनागामिफले ठितो भिक्खु जहाति ओरपारं. तत्थ ओरन्ति सकत्तभावो. पारन्ति परत्तभावो. ओरं वा छ अज्झत्तिकानि आयतनानि, पारं छ बाहिरायतनानि. तथा ओरं मनुस्सलोको, पारं देवलोको. ओरं कामधातु, पारं रूपारूपधातु. ओरं कामरूपभवो, पारं अरूपभवो. ओरं अत्तभावो, पारं अत्तभावसुखुपकरणानि. एवमेतस्मिं ओरपारे चतुत्थमग्गेन छन्दरागं पजहन्तो ‘‘जहाति ओरपार’’न्ति वुच्चति. एत्थ च किञ्चापि अनागामिनो कामरागस्स पहीनत्ता इधत्तभावादीसु छन्दरागो एव नत्थि, अपिच खो पनस्स वण्णप्पकासनत्थं सब्बमेतं ओरपारभेदं सङ्गहेत्वा तत्थ छन्दरागप्पहानेन ‘‘जहाति ओरपार’’न्ति वुत्तं.

इदानि तस्सत्थस्स विभावनत्थाय उपमं आह ‘‘उरगो जिण्णमिवत्तचं पुराण’’न्ति. तत्थ उरेन गच्छतीति उरगो, सप्पस्सेतं अधिवचनं. सो दुविधो कामरूपी च अकामरूपी च. कामरूपीपि दुविधो जलजो थलजो च. जलजो जले एव कामरूपं लभति, न थले सङ्खपालजातके (जा. २.१७.१४३ आदयो) सङ्खपालनागराजा विय. थलजो थले एव, न जले. सो जज्जरभावेन जिण्णं, चिरकालताय पुराणञ्चाति सङ्खं गतं तचं जहन्तो चतुब्बिधेन जहति सजातियं ठितो जिगुच्छन्तो निस्साय थामेनाति. सजाति नाम सप्पजाति दीघत्तभावो. उरगा हि पञ्चसु ठानेसु सजातिं नातिवत्तन्ति उपपत्तियं चुतियं विस्सट्ठनिद्दोक्कमने सजातिया मेथुनपटिसेवने जिण्णतचापनयने चाति. तस्मा यदा तचं जहति, तदा सजातियंयेव ठत्वा जहति. सजातियं ठितोपि च जिगुच्छन्तो जहति. जिगुच्छन्तो नाम यदा उपड्ढट्ठाने मुत्तो होति, उपड्ढट्ठाने अमुत्तो ओलम्बति, तदा नं अट्टीयन्तो जहति, एवं जिगुच्छन्तोपि च दण्डन्तरं वा मूलन्तरं वा पासाणन्तरं वा निस्साय जहति. निस्साय जहन्तोपि च थामं जनेत्वा उस्साहं करित्वा वीरियेन वङ्कं नङ्गुट्ठं कत्वा पस्ससन्तोव फणं करित्वा जहति. एवं जहित्वा येनकामं पक्कमति.

एवमेव अयम्पि भिक्खु ओरपारं जहितुकामो चतुब्बिधेन जहति सजातियं ठितो जिगुच्छन्तो निस्साय थामेनाति. सजाति नाम भिक्खुनो ‘‘अरियाय जातिया जातो’’ति (म. नि. २.३५१) वचनतो सीलं. तेनेवाह ‘‘सीले पतिट्ठाय नरो सपञ्ञो’’ति (सं. नि. १.२३, १९२). एवमेतिस्सं सजातियं ठितो भिक्खु तं सकत्तभावादिभेदं ओरपारं जिण्णपुराणत्तचमिव तं दुक्खं जनेन्तं तत्थ तत्थ आदीनवदस्सनेन जिगुच्छन्तो कल्याणमित्ते निस्साय अधिमत्तसम्मावायामसङ्खातं थामं जनेत्वा ‘‘दिवसं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेती’’ति (अ. नि. ३.१६; ४.३७) वुत्तनयेन रत्तिन्दिवं छधा विभजित्वा घटेन्तो वायमन्तो उरगो विय वङ्कं नङ्गुट्ठं पल्लङ्कं आभुजित्वा उरगो विय पस्ससन्तो अयम्पि असिथिलपरक्कमताय वायमन्तो उरगोव फणं करित्वा अयम्पि ञाणविप्फारं जनेत्वा उरगोव तचं ओरपारं जहति, जहित्वा च उरगो विय ओहिततचो येनकामं पक्कमति, अयम्पि ओहितभारो अनुपादिसेसनिब्बानधातुदिसं पक्कमतीति.

९०. भवन्तीति इमिना विरुळ्हमूले नीलभावं आपज्जित्वा वड्ढमानके तरुणगच्छे दस्सेति. अहुवुन्ति इमिना पन वड्ढित्वा ठिते महन्ते रुक्खगच्छादिके दस्सेति. भवन्तीति इमस्स विवरणं ‘‘जायन्ति वड्ढन्ती’’ति, अहुवुन्ति इमस्स ‘‘जाता वड्ढिता’’ति. रासीति सुद्धट्ठकधम्मसमूहो. भूतानन्ति तथालद्धसमञ्ञानं अट्ठधम्मानं. ‘‘भूतानं गामो’’ति वुत्तेपि अवयवविनिमुत्तस्स समुदायस्स अभावतो भूतसञ्ञिता तेयेव तिणरुक्खलतादयो गय्हन्ति. ‘‘भूमियं पतिट्ठहित्वा हरितभावमापन्ना रुक्खगच्छादयो देवताहि परिग्गय्हन्ति, तस्मा भूतानं निवासट्ठानताय भूतानं गामो’’तिपि वदन्ति. रुक्खादीनन्ति आदि-सद्देन ओसधिगच्छलतादयो वेदितब्बा.

ननु च रुक्खादयो चित्तरहितताय न जीवा, चित्तरहितता च परिप्फन्दाभावतो छिन्नेपि रुहनतो विसदिसजातिकभावतो चतुयोनिअपरियापन्नतो च वेदितब्बा, वुड्ढि पन पवाळसिलालवणानम्पि विज्जतीति न तेसं जीवभावे कारणं, विसयग्गहणञ्च नेसं परिकप्पनामत्तं सुपनं विय चिञ्चादीनं, तथा दोहळादयो, तत्थ कस्मा भूतगामस्स छेदनादिपच्चया पाचित्तियं वुत्तन्ति? समणसारुप्पतो तंनिवाससत्तानुरक्खणतो च. तेनेवाह ‘‘जीवसञ्ञिनो हि मोघपुरिसा मनुस्सा रुक्खस्मि’’न्तिआदि.

९१. ‘‘मूले जायन्ती’’तिआदीसु अत्थो उपरि अत्तना वुच्चमानप्पकारेन सीहळट्ठकथायं वुत्तोति आह ‘‘एवं सन्तेपि…पे… न समेन्ती’’ति. विजात-सद्दो इध वि-सद्दलोपं कत्वा निद्दिट्ठोति आह ‘‘विजातानी’’ति. विजात-सद्दो च ‘‘विजाता इत्थी’’तिआदीसु विय पसूतवचनोति आह ‘‘पसूतानी’’ति. पसूति च नामेत्थ निब्बत्तपण्णमूलताति आह ‘‘निब्बत्तपण्णमूलानी’’ति. इमिना इमं दीपेति ‘‘निब्बत्तपण्णमूलानि बीजानि भूतगामसङ्खमेव गच्छन्ति, तेसु च वत्तमानो बीजजात-सद्दो रुळ्हीवसेन रुक्खादीसुपि वत्तती’’ति. पुरिमस्मिं अत्थविकप्पे पन बीजेहि जातानं रुक्खलतादीनंयेव भूतगामता वुत्ता.

तानि दस्सेन्तोति तानि बीजानि दस्सेन्तो. मूलबीजन्तिआदीसु मूलमेव बीजं मूलबीजं. सेसेसुपि एसेव नयो. फळुबीजन्ति पब्बबीजं. पच्चयन्तरसमवाये सदिसफलुप्पत्तिया विसेसकारणभावतो विरुहनसमत्थे सारफले निरुळ्हो बीज-सद्दो. तदत्थसंसिद्धिया मूलादीसुपि केसुचि पवत्ततीति मूलादितो निवत्तनत्थं एकेन बीजसद्देन विसेसेत्वा वुत्तं ‘‘बीजबीज’’न्ति ‘‘रूपरूपं, दुक्खदुक्ख’’न्ति च यथा. बीजतो निब्बत्तेन बीजं दस्सितन्ति कारियोपचारेन कारणं दस्सितन्ति दीपेति.

९२. बीजे बीजसञ्ञीति एत्थ कारणूपचारेन कारियं वुत्तन्ति दस्सेन्तो ‘‘तत्थ यथा’’तिआदिमाह. भूतगामपरिमोचनं कत्वाति भूतगामतो मोचेत्वा, वियोजेत्वाति अत्थो. यं बीजं भूतगामो नाम होतीति बीजानि च तानि जातानि चाति वुत्तमत्थं सन्धाय वदति. तत्थ यं बीजन्ति यं निब्बत्तपण्णमूलं बीजं. तस्मिं बीजेति तस्मिं भूतगामसञ्ञिते बीजे. एत्थ च बीजजात-सद्दस्स विय रुळ्हीवसेन रुक्खादीसु बीज-सद्दस्सपि पवत्ति वेदितब्बा. यथारुतन्ति यथापाळि.

यत्थ कत्थचीति मूले अग्गे मज्झे वा. सञ्चिच्च उक्खिपितुं न वट्टतीति एत्थ सचेपि सरीरे लग्गभावं जानन्तोव उदकतो उट्ठहति, ‘‘तं उद्धरिस्सामी’’ति सञ्ञाय अभावतो वट्टति. उप्पाटितानीति उद्धटानि. बीजगामे सङ्गहं गच्छन्तीति भूतगामतो परिमोचितत्ता वुत्तं. अनन्तक-ग्गहणेन सासपमत्तिका गहिता. नामञ्हेतं तस्सा सेवालजातिया. मूलपण्णानं असम्पुण्णत्ता ‘‘असम्पुण्णभूतगामो नामा’’ति वुत्तं. अभूतगाममूलत्ताति एत्थ भूतगामो मूलं कारणं एतस्साति भूतगाममूलो, भूतगामस्स वा मूलं कारणन्ति भूतगाममूलं. बीजगामो हि नाम भूतगामतो सम्भवति, भूतगामस्स च कारणं होति, अयं पन तादिसो न होतीति ‘‘अभूतगाममूलत्ता’’ति वुत्तं. तत्रट्ठकत्ता वुत्तं ‘‘सो बीजगामेन सङ्गहितो’’ति. इदञ्च ‘‘अभूतगाममूलत्ता’’ति एत्थ पठमं वुत्तअत्थसम्भवतो वुत्तं. किञ्चापि हि तालनाळिकेरादीनं खाणु उद्धं अवड्ढनतो भूतगामस्स कारणं न होति, तथापि भूतगामसङ्ख्युपगतनिब्बत्तपण्णमूलबीजतो सम्भूतत्ता भूतगामतो उप्पन्नो नाम होतीति बीजगामेन सङ्गहं गच्छति.

‘‘अङ्कुरे हरिते’’ति वत्वा तमेव विभावेति ‘‘नीलपण्णवण्णे जाते’’ति, नीलपण्णस्स वण्णसदिसे वण्णे जातेति अत्थो. ‘‘नीलवण्णे जाते’’ति वा पाठो गहेतब्बो. अमूलकभूतगामे सङ्गहं गच्छतीति नाळिकेरस्स आवेणिकं कत्वा वदति. ‘‘पानीयघटादीनं बहि सेवालो उदके अट्ठितत्ता बीजगामानुलोमत्ता च दुक्कटवत्थू’’ति वदन्ति. कण्णकम्पि अब्बोहारिकमेवाति नीलवण्णम्पि अब्बोहारिकमेव. सेलेय्यकं नाम सिलाय सम्भूता एका सुगन्धजाति. ‘‘रुक्खत्तचं विकोपेतीति वुत्तत्ता रुक्खे जातं यं किञ्चि छत्तकं रुक्खत्तचं अविकोपेत्वा मत्थकतो छिन्दित्वा गहेतुं वट्टती’’ति वदन्ति. रुक्खतो मुच्चित्वा तिट्ठतीति एत्थ ‘‘यदिपि किञ्चिमत्तं रुक्खे अल्लीना हुत्वा तिट्ठति, रुक्खतो गय्हमानो पन रुक्खच्छविं न विकोपेति, वट्टती’’ति वदन्ति. अल्लरुक्खतो न वट्टतीति एत्थापि रुक्खत्तचं अविकोपेत्वा मत्थकतो तच्छेत्वा गहेतुं वट्टतीति वेदितब्बं. हत्थकुक्कुच्चेनाति हत्थानं असंयतभावेन, हत्थचापल्लेनाति वुत्तं होति. पानीयं न वासेतब्बन्ति इदं अत्तनो अत्थाय नामितं सन्धाय वुत्तं. केवलं अनुपसम्पन्नस्स अत्थाय नामिते पन पच्छा ततो लभित्वा न वासेतब्बन्ति नत्थि. ‘‘येसं रुक्खानं साखा रुहतीति वुत्तत्ता येसं साखा न रुहति, तत्थ कप्पियकरणकिच्चं नत्थी’’ति वदन्ति.

९३. पञ्चहि समणकप्पेहीति पञ्चहि समणवोहारेहि. किञ्चापि हि बीजानं अग्गिना फुट्ठमत्तेन नखादीहि विलिखनमत्तेन च अविरुळ्हीधम्मता न होति, तथापि एवं कतेयेव समणानं कप्पतीति अग्गिपरिजितादयो समणवोहारा नाम जाता, तस्मा तेहि समणवोहारेहि करणभूतेहि फलं परिभुञ्जितुं अनुजानामीति अधिप्पायो. अबीजनिब्बट्टबीजानिपि समणानं कप्पन्तीति पञ्ञत्तपण्णत्तिभावतो समणवोहाराइच्चेव सङ्खं गतानि. अथ वा अग्गिपरिजितादीनं पञ्चन्नं कप्पियभावतोयेव पञ्चहि समणकप्पियभावसङ्खातेहि कारणेहि फलं परिभुञ्जितुं अनुजानामीति एवमेत्थ अधिप्पायो वेदितब्बो. अग्गिपरिजितन्तिआदीसु ‘‘परिचित’’न्तिपि पठन्ति. अबीजं नाम तरुणम्बफलादि. निब्बट्टबीजं नाम अम्बपनसादि, यं बीजं निब्बट्टेत्वा विसुं कत्वा परिभुञ्जितुं सक्का होति. ‘‘कप्पिय’’न्ति वत्वाव कातब्बन्ति यो कप्पियं करोति, तेन कत्तब्बाकारस्सेव वुत्तत्ता भिक्खुना अवुत्तेपि कातुं वट्टतीति न गहेतब्बं. पुन ‘‘कप्पियं कारेतब्ब’’न्ति कारापनस्स पठममेव कथितत्ता भिक्खुना ‘‘कप्पियं करोही’’ति वुत्तेयेव अनुपसम्पन्नेन ‘‘कप्पिय’’न्ति वत्वा अग्गिपरिजितादि कातब्बन्ति गहेतब्बं. ‘‘कप्पियन्ति वचनं पन याय कायचि भासाय वत्तुं वट्टती’’ति वदन्ति. ‘‘कप्पियन्ति वत्वाव कातब्ब’’न्ति वचनतो पठमं ‘‘कप्पिय’’न्ति वत्वा पच्छा अग्गिआदिना फुसनादि कातब्बन्ति वेदितब्बं. ‘‘पठमं अग्गिं निक्खिपित्वा नखादिना वा विज्झित्वा तं अनुद्धरित्वाव ‘कप्पिय’न्ति वत्तुम्पि वट्टती’’ति वदन्ति.

एकस्मिं बीजे वातिआदीसु ‘‘एकंयेव कारेमीति अधिप्पाये सतिपि एकाबद्धत्ता सब्बं कतमेव होती’’ति वदन्ति. दारुं विज्झतीति एत्थ ‘‘जानित्वापि विज्झति वा विज्झापेति वा, वट्टतियेवा’’ति वदन्ति. भत्तसित्थे विज्झतीति एत्थापि एसेव नयो. ‘‘तं विज्झति, न वट्टतीति रज्जुआदीनं भाजनगतिकत्ता’’ति वदन्ति. मरिचपक्कादीहि मिस्सेत्वाति एत्थ भत्तसित्थसम्बन्धवसेन एकाबद्धता वेदितब्बा, न फलानंयेव अञ्ञमञ्ञं सम्बन्धवसेन. भिन्दापेत्वा कप्पियं कारापेतब्बन्ति बीजतो मुत्तस्स कटाहस्स भाजनगतिकत्ता वुत्तं.

निक्खामेतुन्ति तं भिक्खुं निक्खामेतुं. ‘‘सचे एतस्स अनुलोम’’न्ति सेनासनरक्खणत्थाय अनुञ्ञातम्पि पटग्गिदानादिं अत्तनापि कातुं वट्टतीति एत्तकेनेव इदम्पि एतस्स अनुलोमन्ति एवमधिप्पायो सिया. पटग्गिदानं परित्तकरणञ्च अत्तनो परस्स वा सेनासनरक्खणत्थाय वट्टतियेव. तस्मा सचे तस्स सुत्तस्स एतं अनुलोमं सिया, अत्तनो न वट्टति, अञ्ञस्स वट्टतीति अयं विसेसो कुतो लब्भतीति आह ‘‘अत्तनो न वट्टति…पे… न सक्का लद्धु’’न्ति. सेसमेत्थ उत्तानमेव. भूतगामो, भूतगामसञ्ञिता, विकोपनं वा विकोपापनं वाति इमानि पनेत्थ तीणि अङ्गानि.

भूतगामसिक्खापदवण्णना निट्ठिता.