२. मल्लिकसुत्तवण्णना
५२२. चत्तारि इन्द्रियानीति पञ्ञिन्द्रियं ठपेत्वा सेसानि चत्तारि. ‘‘अरियञाणं लोकुत्तर’’न्ति वुत्तं मग्गञाणं कत्वा. अरिय-सद्दो पन यथा तथा विसुद्धेपि होतीति तादिसं सन्धाय वुत्तं ‘‘तम्पि पना’’तिआदि. यथा हि चत्तारिन्द्रियानि मिस्सकानि, एवं पञ्ञिन्द्रियम्पि मिस्सकन्ति वुच्चमाने न कोचि विरोधोति अधिप्पायेनाह ‘‘तम्पि पन…पे… वट्टती’’ति.