५. जरावग्गो
१. जराधम्मसुत्तवण्णना
५११. पमुखे, पासादस्स च पच्छिमभागे आतपो पच्छातपो, तस्मिं पच्छातपे. सो हि पासादस्स पमुखभावेन कतो. किं पन भगवतो वजिरसारं सरीरं ओतापेतब्बं होतीति आह – ‘‘सम्मासम्बुद्धस्सा’’तिआदि. अयञ्च इमं सुत्तं देसितसमये. न सक्कोति ब्यामप्पभाय कायचि पभाय अनभिभवनीयत्ता. किञ्चापि बुद्धाभा सूरियाभाय अनभिभवनीया, घम्मसभावताय पन रस्मीनं परितो फरन्ती सूरियाभा तिखिणा उण्हाति आह ‘‘रस्मितेज’’न्ति. इदानि तमत्थं उपमाय विभावेतुं ‘‘यथेव ही’’तिआदि वुत्तं.
सुवण्णावट्टं वियाति अच्छे सुवण्णपत्ते विनिवत्तआवट्टं विय. गरहणच्छरियं नाम किरेतं ‘‘अच्छरियमेतं अविसिच्छेफलवद’’न्तिआदीसु विय. न एवमेतरहीति अत्तनो पाकटवसेन वदति, न इतरेसम्पीति. सिराजालाति सिरासन्ताना. एवरूपं न होतीति अञ्ञेसं पाकतिकसत्तानं वुत्ताकारं विय न होति पुञ्ञसम्भारस्स उळारतमत्ता विपच्चनस्स परियन्तगतत्ता. तेनाह ‘‘अञ्ञेसं अपाकट’’न्ति. वलियावट्टकन्ति अप्पकं वलियावट्टं. तेनाह ‘‘केसग्गप्पमाण’’न्ति. सब्बानीति सिराजालानि. पुरतो वङ्कोति थोकं पुरतो नतमत्तं सन्धायाह. तेन वुत्तं ‘‘स्वायं अञ्ञेसं अपाकटो’’ति. नयग्गाहतोति अनुमानतो. धी तन्ति धी-सद्दयोगे उपयोगवचनं. धीति जिगुच्छनत्थे निपातो. धिक्कारोति जिगुच्छापयोगो. तं फुसतूति तुय्हं पापुणातु.
२. उण्णाभब्राह्मणसुत्तवण्णना
५१२. अञ्ञमञ्ञस्साति अञ्ञो अञ्ञस्स. न पच्चनुभोति अत्तनो अविसयभावतो. इदानि तं अञ्ञविसयतं अन्वयतो ब्यतिरेकतो विभावेतुं ‘‘सचे ही’’तिआदि वुत्तं.
विसयानि पटिसरन्ति एत्थाति पटिसरणं. इन्द्रियविञ्ञाणानि हि असतिपि तादिसे अधिप्पाये अत्तनो आरम्मणस्स याथावतो सम्पजाननतो पवेदनविजाननानि करोन्तानि विय पवत्तन्ति, तथा लोकस्स अञ्ञत्थ सिद्धितो. तेनाह भगवा – ‘‘मनो पटिसरणं, मनोव नेसं गोचरविसयं पच्चनुभोती’’ति मनोद्वारिकजवनमनो हि सविसेसं मनोविसयं पच्चनुभोति, पञ्चद्वारिकजवनमनो मननमत्तमेव पच्चनुभवति. रज्जनादिग्गहणञ्चेत्थ निदस्सनमत्तं, तस्मा सद्दहनादिपि गहितमेवाति दट्ठब्बं, पञ्चद्वारप्पवत्तिवसेन तथा वुत्तं. एकस्मिं पन द्वारेति चक्खुद्वारे.
दुब्बलभोजकाति अप्पानुभावा राजभोग्गा. आयन्ति भोगुप्पत्तिट्ठानं. योत्तबन्धादिनिमित्तं लद्धब्बकहापणो योत्तकहापणो. अद्दुबन्धादिनिमित्तं गहेतब्बकहापणो अद्दुकहापणो. माघातघोसनाय कताय हिंसानिमित्तं गहेतब्बकहापणो मापहारकहापणो. तस्स परिमाणं दस्सेतुं ‘‘अट्ठकहापणो’’तिआदि वुत्तं. सतवत्थुकन्ति सतकरीसवत्थुकं.
मग्गसतीति अरियमग्गसति. भावनमनुयुञ्जन्तस्स हि जवनमनो उस्सक्कित्वाव मग्गसतिं पटिसरति तप्परियोसानत्ता. तन्ति निब्बानं. साति फलविमुत्ति. पटिसरति अग्गमग्गसतिया. फलविमुत्ति निब्बानन्ति उभयं मग्गस्स सिद्धायेवाति. आरम्मणवसेन नत्थि एतस्स पटिसरणन्ति अप्पटिसरणं असङ्खतामतस्स सन्तिनिच्चसभावत्ता. सयं पन सब्बेसंयेव अरियानं पटिसरणं. तेनाह ‘‘निब्बानं अरहतो गती’’ति (परि. ३३९). निब्बानं अनुपविट्ठं निब्बाननिस्सयत्ता. न ततो परं गच्छति गतस्स अञ्ञस्स तादिसस्स अभावा. निब्बानं परि सब्बसो ओसानन्ति निब्बानपरियोसानं.
मूलजाता जातमूला. ततो एव पतिट्ठिता. का पनस्साति आह ‘‘मग्गेन आगतसद्धा’’ति. मग्गो दळ्हाय असंहारियसद्धाय मूलं दिट्ठिसम्पयुत्तानि चेव विचिकिच्छाचित्तञ्चाति पञ्च अकुसलचित्तानि समुच्छेदवसेन पहीनानि. पञ्च नीवरणानीति एत्थ अपायगमनीयानि पठममग्गेनेव पहीनानि, इतरानि विक्खम्भनवसेन झानेन पहीनानीति पञ्चसु ओरम्भागियकिलेससंयोजनेसु एकदेसविगमेनेव बहिद्धासंयोजनो विय जातोति वुत्तं ‘‘झानअनागामिट्ठाने ठितो’’ति. तेनाह ‘‘सो अपरिहीन…पे… निब्बायेय्या’’ति.
५. पठमपुब्बारामसुत्तवण्णना
५१५. पुब्बकोट्ठके एवं आगतसुत्तं आदिं कत्वा फलिन्द्रियानेव कथितानि अग्गफलवसेन देसनाय आगतत्ता.
१०. आपणसुत्तवण्णना
५२०. उपरि सह विपस्सनाय तयो मग्गाति विपस्सनाय सह सोतापत्तिफलतो उपरि तयो मग्गा. मग्गाधिगमेन इदानि पच्चक्खभूतत्ता ‘‘इमे खो ते धम्मा’’ति वुत्ता. तत्थ यं अग्गभूतं, तस्स वसेन दस्सेतुं ‘‘अरहत्तफलिन्द्रियं नामा’’ति वुत्तं इन्द्रियभावसामञ्ञेन एकज्झं कत्वा. अतिविज्झित्वा पस्सामीति सच्छिकत्वा याथावतो पस्सामि. चतूहि इन्द्रियेहीति वीरियिन्द्रियादीहि चतूहि इन्द्रियेहि. सा विपस्सनामग्गफलसहगता सियाति मिस्सका वुत्ता.
जरावग्गवण्णना निट्ठिता.