४. सुखिन्द्रियवग्गो

१-५. सुद्धिकसुत्तादिवण्णना

५०१-५०५. यथा चक्खु दस्सने अधिपतेय्यट्ठेन चक्खुन्द्रियं, एवं सुखवेदना सुखने अधिपतेय्यट्ठेन सुखिन्द्रियं. एस नयो सेसेसुपि. सेसं तेभूमकन्ति सेसं भूमित्तयवसेन तेभूमकं.

६. पठमविभङ्गसुत्तवण्णना

५०६. कायिकन्ति अयमस्स निस्सयवसेन निद्देसोति आह – ‘‘कायपसादवत्थुक’’न्ति. सरूपनिद्देसो सुखं सुखिन्द्रियस्स सरूपन्ति. सादनीयट्ठेन धम्मपदानि अत्तनि अस्सादयतीति सातं, मधुरं. वेदयितन्ति वेदियनं, अनुभवनन्ति अत्थो. अञ्ञधम्मविसिट्ठोति फस्सादीहि अञ्ञेहि धम्मेहि विसदिसो. कायिकन्ति पसादकायसन्निस्सितं. चेतसिकन्ति चेतोसन्निस्सितं, तेन वुत्तं ‘‘एत्थ पना’’तिआदि. कायपसाद…पे… नत्थि, तस्मा ‘‘चत्तारो पसादकाये वत्थुं कत्वा’’ति वुत्तं.

९. कट्ठोपमसुत्तवण्णना

५०९. द्विन्नं अरणीनन्ति अधरुत्तरारणीनं. किञ्चि द्वयं सङ्घट्टितमत्तं हुत्वा न समोधानगतं होतीति तंनिवत्तनत्थं ‘‘सङ्घट्टनसमोधाना’’ति वुत्तं. पुनप्पुनं सङ्घट्टनेन हि तेजोपातुभावो. अधरारणी विय वत्थारम्मणं असतिपि वायामे तज्जसम्फस्सपच्चयतो. उत्तरारणी विय फस्सो वत्थारम्मणादिफस्सेन पवत्तनतो. सङ्घट्टो विय फस्ससङ्घट्टनं अरणिद्वयसङ्घट्टना विय फस्सस्सेव वत्थारम्मणेसु सङ्घट्टनाकारेन पवत्तितो. अग्गि विय वेदना अनुदहनट्ठेन खणिकावायञ्च. वत्थारम्मणं वा उत्तरारणी विय इन्धनापातगहणादीसु उस्साहस्स विय पवत्तिसम्भवतो. फस्सो अधरारणी विय निरुस्साहनिरीहतावसेन अत्तसाधनतो.

१०. उप्पटिपाटिकसुत्तवण्णना

५१०. रसनं भञ्जनं निरुज्झनं रसो. यो यो धम्मानं रसो यथाधम्मरसो, तेन यथाधम्मरसेन. पटिपाटियाति कमेन, उभयेनपि धम्मानं पहानक्कमेनाति वुत्तं होति. इमस्मिं इन्द्रियविभङ्गेति इमस्मिं इन्द्रियसंयुत्तसञ्ञिते इन्द्रियविभङ्गे. अदेसितत्ताति सेससुत्तानि विय ‘‘सुखिन्द्रिय’’न्तिआदिना अदेसितत्ता इदं उप्पटिपाटिकसुत्तं नाम. वलिया खरसम्फस्साय फुट्ठस्स. तन्ति कण्टकवेदनादिं. एतस्स दुक्खिन्द्रियस्स.

तेसं तेसन्ति दोमनस्सिन्द्रियादीनं. कारणवसेनेवाति तंतंअसाधारणकारणवसेन. तेसञ्हि विसेसकारणं दस्सेन्तो ‘‘पत्तचीवरादीनं वा’’ति आह.

एकतोवाति पुनप्पुनं पदुद्धारणं अकत्वा एकज्झमेव. दुतियज्झानादीनं उपचारक्खणे एव निरुज्झन्तीति आनेत्वा सम्बन्धो. तेसं दुक्खिन्द्रियदोमनस्सादीनं. अतिसयनिरोधोति सुट्ठु पहानं उजुप्पटिपक्खेन वूपसमो. निरोधोयेवाति निरोधमत्तमेव. नानावज्जनेति येन आवज्जनेन अप्पनावीथि होति, ततो भिज्जावज्जने, अनेकावज्जने वा. अप्पनावीथियञ्हि उपचारो एकावज्जनो, इतरो अनेकावज्जनो अनेकक्खत्तुं पवत्तनतो. विसमनिसज्जाय उप्पन्नकिलमथो विसमासनुपतापो. पीतिफरणेनाति पीतिया फरणरसत्ता. पीतिसमुट्ठानानं वा पणीतरूपानं कायस्स ब्यापनतो वुत्तं. तेनाह ‘‘सब्बो कायो सुखोक्कन्तो होती’’ति. वितक्कविचारपच्चयेपीति पि-सद्दो अट्ठानपयुत्तो, सो ‘‘पहीनस्सा’’ति एत्थ आनेत्वा सम्बन्धितब्बो ‘‘पहीनस्सपि दोमनस्सिन्द्रियस्सा’’ति. एतं दोमनस्सिन्द्रियं उप्पज्जतीति सम्बन्धो. ‘‘तस्स मय्हं अतिचिरं वितक्कयतो विचारयतो कायोपि किलमि, चित्तम्पि विहञ्ञी’’ति च वचनतो कायचित्तखेदानं वितक्कविचारपच्चयता वेदितब्बा. वितक्कविचारभावे उप्पज्जति दोमनस्सिन्द्रियन्ति आनेत्वा सम्बन्धितब्बं. तत्थस्स सिया उप्पत्तीति तत्थ दुतियज्झानुपचारे अस्स दोमनस्सस्स उप्पत्ति भवेय्य. ‘‘तत्थस्स सिया उप्पत्ती’’ति इदं परिकप्पवचनं उपचारक्खणे दोमनस्सस्स सुप्पहीनभावदस्सनत्थं. तथा हि वुत्तं ‘‘न त्वेव दुतियज्झाने पहीनपच्चयत्ता’’ति. पहीनम्पि सोमनस्सिन्द्रियं पीति विय न दूरेति कत्वा ‘‘आसन्नत्ता’’ति वुत्तं. नानावज्जनुपचारे पहीनम्पि पहानङ्गं पटिपक्खेन अविहतत्ता अन्तरन्तरा उप्पज्जेय्याति इममत्थं दस्सेन्तो ‘‘अप्पनाप्पत्ताया’’तिआदिमाह. ‘‘तादिसाय आसेवनाय इच्छितब्बत्ता यथा मग्गवीथितो पुब्बे द्वे तयो जवनवारा सदिसानुपस्सनाव पवत्तन्ति, एवमिधापि अप्पनावारतो पुब्बे द्वे तयो जवनवारा उपेक्खासहगताव पवत्तन्ती’’ति वदन्ति. अपरिसेसन्ति सुविक्खम्भितन्ति कत्वा विक्खम्भनेन अनवसेसं.

तथत्तायाति तथभावाय पठमज्झानसमङ्गिताय. सा पनस्स उप्पादनेन वा उप्पन्नस्स समापज्जनेन वा होतीति वुत्तं ‘‘उप्पादनत्थाय समापज्जनत्थाया’’ति. द्वीसूति नवमदसमेसु सुत्तन्तेसु.

सुखिन्द्रियवग्गवण्णना निट्ठिता.