१. सुद्धिकवग्गो
१. सुद्धिकसुत्तवण्णना
४७१. चतुभूमक …पे… लब्भन्ति कुसलाब्याकतभावतो तेसं तिण्णं इन्द्रियानं. वीरियिन्द्रियसमाधिन्द्रियानि…पे… सब्बत्थ लब्भन्ति कुसलत्तिकसाधारणत्ता. चतुभूमक …पे… वसेनाति चतुभूमकधम्मपरिच्छेदवसेन चेव कुसलादीहि सब्बसङ्गाहकधम्मपरिच्छेदवसेन च वुत्तन्ति अत्थो.
दुतियसमणब्राह्मणसुत्तवण्णना
४७७. दुक्खसच्चवसेनाति दुक्खसच्चभावेन न पजानन्ति. तञ्हि परिञ्ञेय्यताय दुक्खसच्चसङ्गहं. समुदयसच्चवसेनाति तण्हाविज्जादिं सद्धिन्द्रियस्स समुदयसच्चभावेन न पजानन्ति. निरोधन्ति सद्धिन्द्रियस्स अनुपादाय निरोधनिमित्तं निब्बानं. पटिपदन्ति सद्धिन्द्रियनिरोधगामिनिं पटिपदं अरियमग्गं. सेसेसूति वीरियिन्द्रियादीसु.
सुक्कपक्खेति ‘‘सद्धिन्द्रियं पजानन्ती’’तिआदिनयप्पवत्ते अनवज्जपक्खे. अधिमोक्खवसेन आवज्जनसमुदयाति ‘‘अत्थि दिन्न’’न्तिआदिनयप्पवत्तपुब्बभागभूतसद्धाधिमोक्खवसेन आवज्जनुप्पत्तिया. तस्मा पठमुप्पन्ना सद्धा एव हेत्थ ‘‘आवज्जन’’न्ति वुत्ता, न मनोद्वारावज्जनं. एस नयो सेसेसुपि. तस्मा पठमुप्पन्ना आवज्जना पग्गहुप्पत्तिट्ठानानं तिक्खानं वीरियिन्द्रियादीनं पठमुप्पत्तिया आवज्जनपरियायेन वुत्ताति दट्ठब्बं. दुब्बला हि पठमुप्पन्ना पग्गहाभावतो वीरियिन्द्रियादीनं समुदयोति बलवभावप्पत्तवीरियिन्द्रियादिकस्स आवज्जनट्ठानियानि होन्तीति तेसं समुदयोति वुत्ता, पुब्बे अधिमुच्चनादिवसेन पवत्तस्स आवज्जनस्स समुदयाति अत्थो. पुन छन्दवसेनाति कत्तुकामताकुसलच्छन्दवसेन सद्धादीनं उप्पादेतुकामताकारप्पवत्तस्स छन्दस्स वसेन. मनसिकारवसेन आवज्जनसमुदयाति सद्धिन्द्रियादिवसेन पवत्तस्स दुब्बलस्स तस्स निब्बत्तकयोनिसोमनसिकारवसेन आवज्जनस्स उप्पत्तिया. एवम्पीति ‘‘अधिमोक्खवसेना’’तिआदिना वुत्ताकारेनपि. छसु सुत्तेसूति दुतियतो पट्ठाय छसु सुत्तेसु. चतुसच्चमेव कथितं. अस्सादग्गहणेन हि समुदयसच्चं, आदीनवग्गहणेन दुक्खसच्चं, निस्सरणग्गहणेन निरोधमग्गसच्चानि गहितानीति. पठमसुत्ते पन इन्द्रियानं सरूपदस्सनमेवाति.
८. दब्बसुत्तवण्णना
४७८. सोतो आपज्जीयति एतेनाति सोतापत्ति, अनागतं पति पठममग्गो. सोतोति अरियमग्गसोतो दट्ठब्बो. आपज्जीयतीतिआदितो पटिपज्जीयति. पठममग्गपटिलाभनिमित्तानि सोतापन्नस्स अङ्गानि इध ‘‘सोतापत्तियङ्गानी’’ति वुत्तानि. तानि पन तीसु ठानेसु सद्धा अरियकन्तसीलञ्चाति वेदितब्बानि. सविसयेति सकविसये. जेट्ठकभावदस्सनत्थन्ति पधानभावदस्सनत्थं. यत्थ सद्धादिइन्द्रियानं सातिसयकिच्चं, तेसं किच्चातिरेकतं दस्सेतुन्ति अत्थो. इदानि तमत्थं उपमाहि विभावेतुं ‘‘यथा ही’’तिआदि वुत्तं. पत्वाति अत्तनो किच्चातिरेकट्ठानं पटिलभित्वा. पुब्बङ्गमन्ति सद्दहनकिच्चेसु पुरेचारं धोरय्हं. सेसानि वीरियिन्द्रियादीनि. तदन्वयानीति तदनुगतानि तस्स सद्धिन्द्रियादिकस्स पक्खिकानि. एस नयो सेसेसुपि. झानविमोक्खेति झानसङ्खाते विमोक्खे समाधिपधानताय झानानं. एवञ्च कत्वा ‘‘सोतापत्तियङ्गानि पत्वा’’ति इदञ्च वचनं समत्थितं होति. सद्धूपनिसञ्हि सीलन्ति. अरियसच्चानि पत्वाति चत्तारि सच्चानि अभिसमेतब्बानि पापुणित्वा.
९-१०. पठमविभङ्गसुत्तादिवण्णना
४७९-४८०. नेपक्कं वुच्चति पञ्ञाति आह – ‘‘पञ्ञायेतं नाम’’न्ति. निपायति संकिलेसधम्मे विसोसेति निक्खामेतीति निपको, थिरतिक्खसतिपुग्गलो, तस्स भावो नेपक्कन्ति सतियापि नेपक्कभावो युज्जतेव. एवञ्हि ‘‘सतिनेपक्केना’’ति इदं वचनं समत्थितं होति, सतिया च नेपक्केनाति एवं वुच्चमानेन सतिनिद्देसो नाम कतो होतियेव. असुकं नाम सुत्तं वा कम्मट्ठानं वा मे भासितन्ति. वोस्सज्जीयति सङ्खारगतं एतस्मिं अधिगतेति वोस्सग्गो, निब्बानं. तं आरम्मणं करित्वाति आह – ‘‘निब्बानारम्मणं कत्वा’’ति. गच्छन्तियाति सङ्खारानं उदयञ्च वयञ्च उदयब्बयं गच्छन्तिया बुज्झन्तिया. तेनाह ‘‘उदयब्बयपरिग्गाहिकाया’’ति. सद्धासतिपञ्ञिन्द्रियानि पुब्बभागानि ‘‘इतिपि सो भगवा अरहं, चिरकतम्पि चिरभासितम्पि सरिता अनुस्सरिता, उदयत्थगामिनिया पञ्ञाया’’ति च वुत्तत्ता. ‘‘आरद्धवीरियो विहरति, सो अनुप्पन्नान’’न्तिआदिना च वुत्तत्ता वीरियिन्द्रियं मिस्सकं. ‘‘वोस्सग्गारम्मणं करित्वा’’ति वुत्तत्ता समाधिन्द्रियं निब्बत्तितलोकुत्तरमेव. अयमेवाति य्वायं नवमे वुत्तो. अयमेव पुब्बभागमिस्सकलोकुत्तरत्तधम्मपरिच्छेदो.
सुद्धिकवग्गवण्णना निट्ठिता.