८-१०. लोकसुत्तादिवण्णना

३९४-३९६. महाविसयत्ता महतियो अभिञ्ञा एतस्साति महाभिञ्ञो, तस्स भावोति सब्बं वत्तब्बं. ‘‘सततविहारवसेन वुत्त’’न्ति वत्वा तमत्थं पाकटं कातुं ‘‘थेरो किरा’’तिआदि वुत्तं. तस्साति थेरस्स. आवज्जनस्स गतिन्ति एकावज्जनस्सेव गमनवीथिं. अनुबन्धति चक्कवाळानं सहस्सं एकावज्जनेनेव सहस्सलोकधातुया इच्छितमत्थं जानितुं समत्थोति दस्सेति.

सीलट्ठितिवग्गवण्णना निट्ठिता.