२. सतिसुत्तवण्णना
३६८. सरतीति सतो. अयं पन न याय कायचि सतिया सतो, अथ खो एदिसायाति दस्सेन्तो ‘‘कायादिअनुपस्सनासतिया’’ति आह. चतुसम्पजञ्ञपञ्ञायाति चतुब्बिधसम्पजञ्ञपञ्ञाय, अभिक्कमनं अभिक्कन्तन्ति आह – ‘‘अभिक्कन्तं वुच्चति गमन’’न्ति. तथा पटिक्कमनं पटिक्कन्तन्ति वुत्तं – ‘‘पटिक्कन्तं निवत्तन’’न्ति. निवत्तनञ्च निवत्तिमत्तं, निवत्तित्वा पन गमनं गमनमेव. कायं अभिहरन्तो अभिगमनवसेन कायं नामेन्तो. ठाननिसज्जासयनेसु यो गमनादिविधिना कायस्स पुरतो अभिहारो, सो अभिक्कमो, पच्छतो अपहरणं पटिक्कमोति दस्सेन्तो ‘‘ठानेपी’’तिआदिमाह. आसनस्साति पीठकादिआसनस्स. पुरिमअङ्गाभिमुखोति अटनिकादिपुरिमावयवाभिमुखो. संसरन्तोति संसप्पन्तो. पच्चासंसरन्तोति पटिआसप्पन्तो. एसेव नयोति इमिना सरीरस्सेव अभिमुखसंसप्पनपटिआसप्पनानि निदस्सेति.
सम्मा पजाननं सम्पजानं. तेन अत्तना कातब्बकिच्चस्स करणसीलो सम्पजानकारीति आह – ‘‘सम्पजञ्ञेन सब्बकिच्चकारी’’ति. सम्पजानमेव हि सम्पजञ्ञं. सम्पजञ्ञस्सेव वा कारीति सम्पजञ्ञस्सेव करणसीलो. सम्पजञ्ञं करोतेवाति अभिक्कन्तादीसु असम्मोहं उप्पादेति एव, सम्पजानस्सेव वा कारो एतस्स अत्थीति सम्पजानकारी.
धम्मतो वड्ढितसङ्खातेन सह अत्थेन वत्ततीति सात्थकं, अभिक्कन्तादि, सात्थकस्स सम्पजाननं सात्थकसम्पजञ्ञं. सप्पायस्स अत्तनो उपकारावहस्स हितस्स सम्पजाननं सप्पायसम्पजञ्ञं. अभिक्कमादीसु भिक्खाचारगोचरे, अञ्ञत्थापि च पवत्तेसु अविजहिते कम्मट्ठानसङ्खाते गोचरे सम्पजञ्ञं गोचरसम्पजञ्ञं. अभिक्कमादीसु असम्मुय्हनमेव सम्पजञ्ञं असम्मोहसम्पजञ्ञं. परिग्गण्हित्वाति तुलयित्वा तीरेत्वा, पटिसङ्खायाति अत्थो. सङ्घदस्सनेनेव उपोसथपवारणादिअत्थं गमनं सङ्गहितं. असुभदस्सनादीति आदि-सद्देन कसिणपरिकम्मादीनं सङ्गहो दट्ठब्बो. सङ्खेपतो वुत्तमत्थं विवरितुं ‘‘चेतियं दिस्वापि ही’’तिआदि वुत्तं. अरहत्तं पापुणातीति उक्कट्ठनिद्देसो एसो. समथविपस्सनुप्पादनम्पि हि भिक्खुनो वुद्धि एव. दक्खिणद्वारेति चेतियङ्गणस्स दक्खिणद्वारे, तथा पच्छिमद्वारेतिआदीसु. अभयवापि पाळियन्ति अभयवापिया पुरत्थिमतीरे.
बुद्धवंस-अरियवंस-चेतियवंस-दीपवंसादिवंसकथनतो महाअरियवंसभाणको थेरो. पञ्ञायनट्ठानेति चेतियस्स पञ्ञायनट्ठाने. एकपदुद्धारेति पदुद्धारपतिट्ठानपरिवत्तनं अकत्वा एकस्मिंयेव अवट्ठाने. केचीति अभयगिरिवासिनो.
तस्मिं पनाति सात्थकसम्पजञ्ञवसेन परिग्गहितअत्थेपि गमने. अत्थो नाम धम्मतो वड्ढीति यं सात्थकन्ति अधिप्पेतं गमनं, तं सप्पायमेवाति सिया कस्सचि आसङ्काति तन्निवत्तनत्थं ‘‘चेतियदस्सनं तावा’’तिआदि आरद्धं. चित्तकम्मरूपकानि वियाति चित्तकम्मकता पटिमायो विय, यन्तपयोगेन वा विचित्तकम्मा पटिमाय सदिसा यन्तरूपका विय. असमपेक्खनं गेहस्सितअञ्ञाणुपेक्खावसेन आरम्मणे अयोनिसो ओलोकनादि. यं सन्धाय वुत्तं ‘‘चक्खुना रूपं दिस्वा उप्पज्जति उपेक्खा बालस्स मूळ्हस्स पुथुज्जनस्सा’’तिआदि (म. नि. ३.३०८). हत्थिआदिसम्मद्देन जीवितन्तरायो. विसभागरूपदस्सनादिना ब्रह्मचरियन्तरायो.
पब्बजितदिवसतो पट्ठाय भिक्खूनं अनुवत्तनकथा आचिण्णा, अननुवत्तनकथा पन तस्सा अपरा दुतिया नाम होतीति आह – ‘‘द्वे कथा नाम न कथितपुब्बा’’ति. एवन्ति इमिना ‘‘सचे पना’’तिआदिकं सब्बम्पि वुत्ताकारं पच्चामसति, न ‘‘पुरिसस्स मातुगामासुभ’’न्तिआदिकं वुच्चमानं.
योगकम्मस्स पवत्तिट्ठानताय भावनाय आरम्मणं कम्मट्ठानं वुच्चतीति आह ‘‘कम्मट्ठानसङ्खातं गोचर’’न्ति. उग्गहेत्वाति यथा उग्गहनिमित्तं उप्पज्जति, एवं उग्गहकोसल्लस्स सम्पादनवसेन उग्गहेत्वा.
हरतीति कम्मट्ठानं पवत्तेति, याव पिण्डपातपटिक्कमा अनुयुञ्जतीति अत्थो. न पच्चाहरतीति आहारूपभोगतो याव दिवाट्ठानुपसङ्कमना कम्मट्ठानं न पटिनेति. समादाय वत्तति सम्मा आदियित्वा तेसं वत्तानं परिपूरणवसेन वत्तति. सरीरपरिकम्मन्ति मुखधोवनादिसरीरपटिजग्गनं. द्वे तयो पल्लङ्केति द्वे तयो निसज्जावारे द्वे तीणि उण्हासनानि. तेनाह – ‘‘उसुमं गाहापेन्तो’’ति. कम्मट्ठानसीसेनेवाति कम्मट्ठानमुखेनेव कम्मट्ठानं अविजहन्तो एव. तेन ‘‘पत्तोपि अचेतनो’’तिआदिना पवत्तेतब्बकम्मट्ठानं, यथापरिहरियमानं वा कम्मट्ठानं अविजहित्वाति दस्सेति. तथेवाति तिक्खत्तुमेव. परिभोगचेतियतो सरीरचेतियं गरुतरन्ति कत्वा ‘‘चेतियं वन्दित्वा’’ति चेतियवन्दनाय पठमं करणीयता वुत्ता. तथा हि अट्ठकथायं – ‘‘चेतियं बाधयमाना बोधिसाखा हरितब्बा’’ति वुत्ता. बुद्धगुणानुस्सरणवसेनेव बोधिञ्च पणिपातकरणन्ति आह – ‘‘बुद्धस्स भगवतो सम्मुखा विय निपच्चकारं दस्सेत्वा’’ति. गामसमीपेति गामस्स उपचारट्ठाने.
जनसङ्गहणत्थन्ति ‘‘मयि अकथेन्ते एतेसं को कथेस्सती’’ति धम्मानुग्गहेन जनसङ्गहणत्थं. तस्माति यस्मा ‘‘धम्मकथा नाम कथेतब्बा एवा’’ति अट्ठकथाचरिया वदन्ति, यस्मा च धम्मकथा कम्मट्ठानविनिमुत्ता नाम नत्थि, तस्मा. कम्मट्ठानसीसेनेवाति अत्तना परिहरियमानं कम्मट्ठानं अविजहन्तो तदनुगुणंयेव धम्मकथं कथेत्वा. अनुमोदनं कत्वाति एत्थापि ‘‘कम्मट्ठानसीसेनेवा’’ति आनेत्वा सम्बन्धितब्बं. सम्पत्तपरिच्छेदेनेवाति परिचितो अपरिचितोतिआदिविभागं अकत्वा सम्पत्तकोटिया एव, समागममत्तेनेवाति अत्थो. भयेति परचक्कादिभये.
कम्मजतेजोति गहणिं सन्धायाह. कम्मट्ठानवीथिं नारोहति खुदापरिस्समेन किलन्तकायत्ता समाधानाभावतो. अवसेसट्ठानेति यागुया अग्गहितट्ठाने. पोङ्खानुपोङ्खन्ति कम्मट्ठानुपट्ठानस्स अविच्छेद-दस्सनमेतं, यथा पोङ्खानुपोङ्खं पवत्ताय सरपटिपाटिया अनविच्छेदो, एवमेतस्सपि कम्मट्ठानुपट्ठानस्साति वुत्तं होति.
निक्खित्तधुरो भावनानुयोगे. वत्तपटिपत्तिया अपूरणेन सब्बवत्तानि भिन्दित्वा. कामे अवीतरागो होति. काये अवीतरागो. रूपे अवीतरागो. यावदत्थं उदरावदेहं भुञ्जित्वा सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरति. अञ्ञतरं देवनिकायं पणिधाय ब्रह्मचरियं चरती’’ति (दी. नि. ३.३२०; म. नि. १.१८६) एवं वुत्तं पञ्चविधचेतोविनिबन्धचित्तो. चरित्वाति पवत्तित्वा.
गतपच्चागतिकवत्तवसेनाति भावनासहितंयेव भिक्खाय गतपच्चागतं गमनपच्चागमनं एतस्स अत्थीति गतपच्चागतिकं, तदेव वत्तं, तस्स वसेन. अत्तनो हितसुखं कामेन्ति इच्छन्तीति अत्तकामा, धम्मच्छन्दवन्तो. ‘‘धम्मो’’ति हि हितं तंनिमित्तकञ्च सुखन्ति. अथ वा विञ्ञूनं धम्मानं अत्तनियत्ता अत्तभावपरिच्छन्नत्ता च अत्ता नाम धम्मो. तेनाह भगवा – ‘‘अत्तदीपा, भिक्खवे, विहरथ अत्तसरणा’’तिआदि (सं. नि. ३.४३). तं कामेन्ति इच्छन्तीति अत्तकामा. उसभं नाम वीसति यट्ठियो. ताय सञ्ञायाति ताय पासाणसञ्ञाय, ‘‘एत्तकं ठानमागता’’ति जानन्ताति अधिप्पायो. सो एव नयो अयं भिक्खूतिआदिको यो ठाने वुत्तो, सो एव निसज्जायपि नयो. पच्छतो आगच्छन्तानं छिन्नभत्तभावभयेनपि योनिसोमनसिकारं परिब्रूहेति.
मद्दन्ताति धञ्ञकरणट्ठाने सालिसीसानि मद्दन्ता. महापधानं पूजेस्सामीति अम्हाकं अत्थाय लोकनाथेन छ वस्सानि कतं दुक्करचरियं एवाहं यथासत्ति पूजेस्सामीति. पटिपत्तिपूजा हि सत्थुपूजा, न आमिसपूजाति. ठानचङ्कममेवाति अधिट्ठातब्बइरियापथकालवसेन वुत्तं, न भोजनादिकालेसु अवस्सं कातब्बनिसज्जाय पटिक्खेपवसेन.
वीथिं ओतरित्वा इतो चितो अनोलोकेत्वा पठममेव वीथियो सल्लक्खेतब्बाति आह ‘‘वीथियो सल्लक्खेत्वा’’ति. यं सन्धाय वुच्चति – ‘‘पासादिकेन अभिक्कन्तेना’’तिआदि. तं दस्सेतुं ‘‘तत्थ चा’’तिआदि वुत्तं. आहारे पटिकूलसञ्ञं उपट्ठपेत्वातिआदीसु यं वत्तब्बं, तं हेट्ठा वुत्तमेव. अट्ठङ्गसमन्नागतन्ति ‘‘यावदेव इमस्स कायस्स ठितिया’’तिआदिना (म. नि. १.२३; २.२४; ३.७५; सं. नि. ४.१२०; अ. नि. ६.५८; ८.९) वुत्तेहि अट्ठहि अङ्गेहि समन्नागतं कत्वा. नेव दवायातिआदि पन पटिक्खेपदस्सनं.
पच्चेकबोधिं सच्छिकरोति, यदि उपनिस्सयसम्पन्नो होतीति सम्बन्धो. इदञ्च यथा हेट्ठा तीसु ठानेसु, एवं इतो परेसु ठानेसु उपनेत्वा सम्बन्धितब्बं. तत्थ पच्चेकबोधिया उपनिस्सयसम्पदा कप्पानं द्वे असङ्ख्येय्यानि सतसहस्सञ्च तज्जं पुञ्ञञाणसम्भारसम्भरणं, सावकबोधियं अग्गसावकानं एकं असङ्ख्येय्यं कप्पसतसहस्सञ्च, महासावकानं कप्पसतसहस्समेव तज्जं सम्भारसम्भरणं, इतरेसं अतीतासु जातीसु विवट्टसन्निस्सयवसेन निब्बत्तितं निब्बेधभागियं कुसलं. बाहियो दारुचीरियोति बाहियविसये जातसंवद्धताय बाहियो, दारुचीरपरिहरणेन दारुचीरियोति लद्धसमञ्ञो. सो हि आयस्मा ‘‘तस्मातिह ते, बाहिय, एवं सिक्खितब्बं – दिट्ठे दिट्ठमत्तं भविस्सती’’तिआदिवसप्पवत्तेन (उदा. १०) संखित्तेनेव ओवादेन खिप्पतरं विसेसं अधिगच्छि. तेन वुत्तं ‘‘खिप्पाभिञ्ञो वा होति सेय्यथापि थेरो बाहियो दारुचीरियो’’ति. एवं महापञ्ञो वातिआदीसु यथारहं वत्तब्बन्ति.
तन्ति असम्मुय्हनं. एवन्ति इदानि वुच्चमानाकारदस्सनं. अत्ता अभिक्कमतीति इमिना अन्धपुथुज्जनस्स दिट्ठिग्गाहवसेन अभिक्कमे सम्मुय्हनं दस्सेति, अहं अभिक्कमामीति पन इमिना मानग्गाहवसेन, तदुभयं पन तण्हाय विना न होतीति तण्हाग्गाहवसेनपि सम्मुय्हनं दस्सितमेव होति, ‘‘तथा असम्मुय्हन्तो’’ति वत्वा तं असम्मुय्हनं येन घनविनिब्भोगेन होति, तं दस्सेन्तो ‘‘अभिक्कमामीति चित्ते उप्पज्जमाने’’तिआदिमाह. तत्थ यस्मा वायोधातुया अनुगता तेजोधातु उद्धरणस्स पच्चयो. उद्धरणगतिका हि तेजोधातूति उद्धरणे वायोधातुया तस्सा अनुगतभावो, तस्मा इमासं द्विन्नमेत्थ धातूनं सामत्थियतो अधिमत्तता, इतरासञ्च ओमत्तताति दस्सेन्तो ‘‘एकेकपादुद्धरणे…पे… बलवतियो’’ति आह. यस्मा पन तेजोधातुया अनुगता वायोधातु अतिहरणवीतिहरणानं पच्चयो. तिरियगतिकाय हि वायोधातुया अतिहरणवीतिहरणेसु सातिसयो ब्यापारोति तेजोधातुया तस्सानुगतभावो, तस्मा इमासं द्विन्नमेत्थ सामत्थियतो अधिमत्तता, इतरासञ्च ओमत्तताति दस्सेन्तो ‘‘तथा अतिहरणवीतिहरणेसू’’ति आह. सतिपि अनुगमनानुगन्तब्बताविसेसे तेजोधातुवायोधातुभावमत्तं सन्धाय तथा-सद्दग्गहणं.
तत्थ अक्कन्तट्ठानतो पादस्स उक्खिपनं उद्धरणं, ठितट्ठानं अतिक्कमित्वा पुरतो हरणं अतिहरणं. रुक्खखाणुआदिपरिहरणत्थं, पतिट्ठितपादघट्टनपरिहरणत्थं वा पस्सेन हरणं वीतिहरणं. याव पतिट्ठितपादो, ताव आहरणं अतिहरणं, ततो परं हरणं वीतिहरणन्ति अयं वा एतेसं विसेसो. यस्मा पथवीधातुया अनुगता आपोधातु वोस्सज्जनस्स पच्चयो. गरुतरसभावा हि आपोधातूति वोस्सज्जने पथवीधातुया तस्सानुगतभावो, तस्मा तासं द्विन्नमेत्थ सामत्थियतो अधिमत्तता, इतरासञ्च ओमत्तताति दस्सेन्तो आह ‘‘वोस्सज्जने…पे… बलवतियो’’ति. यस्मा पन आपोधातुया अनुगता पथवीधातु सन्निक्खेपनस्स पच्चयो. पतिट्ठाभावे विय पतिट्ठापनेपि तस्सा सातिसयकिच्चत्ता आपोधातुया तस्सा अनुगतभावो, तथा घट्टनकिरियाय पथवीधातुया वसेन सन्निरुम्भनस्स सिज्झनतो तत्थापि पथवीधातुया आपोधातुअनुगतभावो, तस्मा वुत्तं – ‘‘तथा सन्निक्खेपनसन्निरुम्भनेसू’’ति.
तत्थाति तस्मिं अभिक्कमने, तेसु वा वुत्तेसु उद्धरणादीसु छसु कोट्ठासेसु. उद्धरणेति उद्धरणक्खणे. रूपारूपधम्माति उद्धरणाकारेन पवत्ता रूपधम्मा तंसमुट्ठापका अरूपधम्मा च. अतिहरणं न पापुणन्ति खणमत्तावट्ठानतो. तत्थ तत्थेवाति यत्थ यत्थ उप्पन्ना, तत्थ तत्थेव. न हि धम्मानं देसन्तरसङ्कमनं अत्थि. पब्बं पब्बन्तिआदि उद्धरणादिकोट्ठासे सन्धाय सभागसन्ततिवसेन वुत्तन्ति वेदितब्बं. अतिइत्तरो हि रूपधम्मानम्पि पवत्तिक्खणो, गमनस्सादानं देवपुत्तानं हेट्ठुपरियायेन पटिमुखं धावन्तानं सिरसि पादे च बद्धखुरधारासमागमतोपि सीघतरो. यथा तिलानं भज्जियमानानं तटतटायनेन भेदो लक्खीयति, एवं सङ्खतधम्मानं उप्पादेनाति दस्सनत्थं ‘‘तटतटायन्ता’’ति वुत्तं. उप्पन्ना हि एकन्ततो भिज्जन्तीति.
सद्धिं रूपेनाति इदं तस्स तस्स चित्तस्स निरोधेन सद्धिं निरुज्झनकरूपधम्मवसेन वुत्तं, यं ततो सत्तरसमचित्तस्स उप्पादक्खणे उप्पन्नं. अञ्ञथा यदि रूपारूपधम्मा समानक्खणा सियुं, ‘‘रूपं गरुपरिणामं दन्धनिरोध’’न्तिआदिवचनेहि विरोधो सिया. तथा – ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि, यं एवं लहुपरिवत्तं, यथयिदं चित्त’’न्ति (अ. नि. १.४८) एवमादिपाळिया च. चित्तचेतसिका हि सारम्मणसभावा यथाबलं अत्तनो आरम्मणपच्चयभूतमत्थं विभावेन्तायेव उप्पज्जन्तीति तेसं तंसभावनिप्फत्तिअनन्तरं निरोधो, रूपधम्मा पन अनारम्मणा पकासेतब्बा. एवं तेसं पकासेतब्बभावनिप्फत्ति सोळसहि चित्तेहि होतीति तङ्खणायुकता तेसं इच्छिता, लहुकविञ्ञाणस्स विसयसङ्गतिमत्तपच्चयताय तिण्णं खन्धानं, विसयसङ्गतिमत्तताय च विञ्ञाणस्स लहुपरिवत्तिता, दन्धमहाभूतपच्चयताय रूपधम्मानं दन्धपरिवत्तिता. नानाधातुया यथाभूतञाणं खो पन तथागतस्सेव, तेन च पुरेजातपच्चयो रूपधम्मोव वुत्तो, पच्छाजातपच्चयो च तस्सेवाति रूपारूपधम्मानं समानक्खणता न युज्जतेव, तस्मा वुत्तनयेनेवेत्थ अत्थो वेदितब्बो.
अञ्ञं उप्पज्जते चित्तं, अञ्ञं चित्तं निरुज्झतीति यं पुरिमुप्पन्नं चित्तं, तं अञ्ञं, तं पन निरुज्झन्तं अपरस्स अनन्तरादिपच्चयो हुत्वा एव निरुज्झतीति तथालद्धपच्चयं अञ्ञं उप्पज्जते चित्तं. यदि एवं तेसं अन्तरो लब्भेय्याति, नोति आह ‘‘अवीचिमनुपबन्धो’’ति. यथा वीचि अन्तरो न लब्भति, ‘‘तदेवेत’’न्ति अविसेसविदू मञ्ञन्ति, एवं अनु अनु पबन्धो चित्तसन्तानो रूपसन्तानो च नदीसोतोव नदियं उदकप्पवाहो विय वत्तति.
अभिमुखं लोकितं आलोकितन्ति आह ‘‘पुरतोपेक्खन’’न्ति. यस्मा यंदिसाभिमुखो गच्छति तिट्ठति निसीदति वा, तदभिमुखं पेक्खनं आलोकितं, तस्मा तदनुगतं विदिसालोकनं विलोकितन्ति आह ‘‘विलोकितं नाम अनुदिसापेक्खन’’न्ति. सम्मज्जनपरिभण्डादिकरणे ओलोकितस्स, उल्लोकाहरणादीसु उल्लोकितस्स, पच्छतो आगच्छन्तस्स परिस्सयस्स परिवज्जनादिवसेन अपलोकितस्स च सिया सम्भवोति आह – ‘‘इमिना वा मुखेन सब्बानिपि तानि गहितानेवा’’ति.
कायसक्खिन्ति कायेन सच्छिकतवन्तं, पच्चक्खकारिनन्ति अत्थो. सोहायस्मा विपस्सनाकाले एव ‘‘यमेवाहं इन्द्रियेसु अगुत्तद्वारतं निस्साय सासने अनभिरतिआदिविप्पकारं पत्तो, तमेव सुट्ठु निग्गहेस्सामी’’ति उस्साहजातो बलवहिरोत्तप्पो, तत्थ च कताधिकारत्ता इन्द्रियसंवरे उक्कंसपारमिप्पत्तो, तेनेव नं सत्था – ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं इन्द्रियेसु गुत्तद्वारानं यदिदं नन्दो’’ति (अ. नि. १.२३०) एतदग्गे ठपेसि.
सात्थकता च सप्पायता च वेदितब्बा आलोकितविलोकितस्साति आनेत्वा सम्बन्धो. तस्माति कम्मट्ठानाविजहनस्सेव गोचरसम्पजञ्ञभावतोति वुत्तमेवत्थं हेतुभावेन पच्चामसति. अत्तनो कम्मट्ठानवसेनेव आलोकनविलोकनं कातब्बं, खन्धादिकम्मट्ठानिकेहि अञ्ञो उपायो न गवेसितब्बोति अधिप्पायो. यस्मा आलोकितादिसमञ्ञापि धम्ममत्तस्सेव पवत्तिविसेसो, तस्मा तस्स याथावतो पजाननं असम्मोहसम्पजञ्ञन्ति दस्सेतुं ‘‘अब्भन्तरे’’तिआदि वुत्तं. चित्तकिरियवायोधातुविप्फारवसेनाति किरियमयचित्तसमुट्ठानवायोधातुया चलनाकारपवत्तिवसेन. अधो सीदतीति थोकं ओतरति. उद्धं लङ्घेतीति लङ्घन्तं विय उपरि गच्छति.
अङ्गकिच्चं साधयमानन्ति पधानभूतं अङ्गकिच्चं निप्फादेन्तं, उपपत्तिभवस्स सरीरं हुत्वाति अत्थो. पठमजवनेपि…पे… सत्तमजवनेपि न होतीति इदं पञ्चद्वारविञ्ञाणवीथियं ‘‘इत्थी पुरिसो’’ति रज्जनादीनं अभावं सन्धाय वुत्तं. तत्थ हि आवज्जनवोट्ठब्बनानं अयोनिसो आवज्जनवोट्ठब्बनवसेन इट्ठे इत्थिरूपादिम्हि लोभमत्तं, अनिट्ठे पटिघमत्तं उप्पज्जति. मनोद्वारे पन ‘‘इत्थी पुरिसो’’ति रज्जनादि होति, तस्स पञ्चद्वारजवनं मूलं, यथावुत्तं वा सब्बं भवङ्गादि. एवं मनोद्वारजवनस्स मूलभूतधम्मपरिजाननवसेनेव मूलपरिञ्ञा वुत्ता, आगन्तुकतावकालिकता पन पञ्चद्वारजवनस्सेव अपुब्बभाववसेन चेव इत्तरभाववसेन च वुत्ता. हेट्ठुपरियवसेन भिज्जित्वा पतितेसूति हेट्ठिमस्स उपरिमस्स च अपरापरं भङ्गप्पत्तिमाह.
तन्ति जवनं. तस्स जवनस्स न युत्तन्ति सम्बन्धो. आगन्तुको अब्भागतो. उदयब्बयपरिच्छिन्नो तावतको कालो एतेसन्ति तावकालिकानि.
एतं असम्मोहसम्पजञ्ञं. समवायेति सामग्गियं. तत्थाति पञ्चक्खन्धवसेन आलोकनविलोकने पञ्ञायमाने तब्बिनिमुत्तो – को एको आलोकेति, को विलोकेति. उपनिस्सयपच्चयोति इदं सुत्तन्तनयेन परियायतो वुत्तं. सहजातपच्चयोति निदस्सनमत्तमेतं अञ्ञमञ्ञसम्पयुत्तअत्थिअविगतादिपच्चयानम्पि लब्भनतो.
कालेति समिञ्जितुं युत्तकाले समिञ्जन्तस्स, तथा पसारेतुं युत्तकाले पसारेन्तस्स. ‘‘मणिसप्पो नाम एका सप्पजाती’’ति वदन्ति. लळनन्ति कम्पनं, लीळाकरणं वा.
उण्हपकतिको परिळाहबहुलकायो. सीलस्स विदूसनेन अहितावहत्ता मिच्छाजीववसेन उप्पन्नं असप्पायं. ‘‘चीवरम्पि अचेतन’’न्तिआदिना चीवरस्स विय कायोपि अचेतनोति कायस्स अत्तसुञ्ञताविभावनेन ‘‘अब्भन्तरे’’तिआदिना वुत्तमेवत्थं परिदीपेन्तो इतरीतरसन्तोसस्स कारणं दस्सेति. तेनाह ‘‘तस्मा’’तिआदि.
चतुपञ्चगण्ठिकाहतोति आहतचतुपञ्चगण्ठिको, चतुपञ्चगण्ठिकाहि वा हतसोभो.
अट्ठविधोपि अत्थोति अट्ठविधोपि पयोजनविसेसो. महासिवत्थेरवादवसेन ‘‘इमस्स कायस्स ठितिया’’तिआदिना नयेन वुत्तो दट्ठब्बो. इमस्मिं पक्खे ‘‘नेव दवायातिआदिना नयेना’’ति पन इदं पटिक्खेपङ्गदस्सनमुखेन पाळि आगताति कत्वा वुत्तन्ति दट्ठब्बं.
पथवीसन्धारकजलस्स तंसन्धारकवायुना विय परिभुत्तस्स आहारस्स वायोधातुयाव आसये अवट्ठानन्ति आह – ‘‘वायोधातुवसेनेव तिट्ठती’’ति. अतिहरतीति याव मुखा अभिहरति. वीतिहरतीति ततो कुच्छियं विमिस्सं करोन्तो हरति. अतिहरतीति वा मुखद्वारं अतिक्कामेन्तो हरति. वीतिहरतीति कुच्छिगतं पस्सतो हरति. परिवत्तेतीति अपरापरं चारेति. एत्थ च आहारस्स धारणपरिवत्तनसञ्चुण्णनविसोसनानि पथवीधातुसहिता एव वायोधातु करोति, न केवलाति तानि पथवीधातुया किच्चभावेन वुत्तानि, सा एव धारणादीनि किच्चानि करोन्तस्स साधारणाति वुत्तानि. अल्लत्तञ्च अनुपालेतीति यथा वायोधातुआदीहि अञ्ञेहि विसोसनं न होति, तथा अनुपालेति अल्लभावं. तेजोधातूति गहणीसङ्खाता तेजोधातु. सा हि अन्तोपविट्ठं आहारं परिपाचेति. अञ्जसो होतीति आहारस्स पविसनादीनं मग्गो होति. आभुजतीति परियेसनवसेन, अज्झोहरणजिण्णाजिण्णतादिपटिसंवेदनवसेन च आवज्जेति, विजानातीति अत्थो. तंतंविजाननस्स पच्चयभूतोयेव हि पयोगो ‘‘सम्मापयोगो’’ति वुत्तो. येन हि पयोगेन परियेसनादि निप्फज्जति, सो तब्बिसयविजाननम्पि निप्फादेति नाम तदविनाभावतो. अथ वा सम्मापयोगं सम्मापटिपत्तिं अन्वाय आगम्म आभुजति समन्नाहरति. आभोगपुब्बको हि सब्बोपि विञ्ञाणब्यापारोति तथा वुत्तं.
गमनतोति भिक्खाचारवसेन गोचरगामं उद्दिस्स गमनतो. परियेसनतोति गोचरगामे भिक्खत्थं आहिण्डनतो. परिभोगतोति आहारस्स परिभुञ्जनतो. आसयतोति पित्तादिआसयतो. आसयति एत्थ एकज्झं पवत्तमानोपि कम्मबलववत्थितो हुत्वा मरियादवसेन अञ्ञमञ्ञं असङ्करतो सयति तिट्ठति पवत्ततीति आसयो, आमासयस्स उपरि तिट्ठनको पित्तादिको. मरियादत्थो हि अयमाकारो. निधेति यथाभुत्तो आहारो निचितो हुत्वा तिट्ठति एत्थाति निधानं, आमासयो, ततो निधानतो. अपरिपक्कतोति गहणीसङ्खातेन कम्मजतेजेन अविपक्कतो. परिपक्कतोति यथाभुत्तस्स आहारस्स विपक्कभावतो. फलतोति निप्फत्तितो. निस्सन्दतोति इतो चितो च विस्सन्दनतो. सम्मक्खनतोति सब्बसो मक्खनतो. अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गसंवण्णनाय (विसुद्धि. महाटी. १.२९४) गहेतब्बो.
सरीरतो सेदा मुच्चन्तीति वेगसन्धारणेन उप्पन्नपरिळाहतो सरीरतो सेदा मुच्चन्ति. अञ्ञे च रोगा कण्णसूलभगन्दरादयो. अट्ठानेति मनुस्सामनुस्सपरिग्गहे अयुत्तट्ठाने खेत्तदेवायतनादिके. कुद्धा हि मनुस्सा अमनुस्सापि वा जीवितक्खयं पापेन्ति. विस्सट्ठत्ता नेव तस्स भिक्खुनो अत्तनो, कस्सचि अनिस्सज्जितत्ता जिगुच्छनीयत्ता च न परस्स, उदकतुम्बतोति वेळुनाळिआदिउदकभाजनतो. तन्ति छड्डितउदकं.
एत्थ च एको इरियापथो द्वीसु ठानेसु आगतो, सो पुब्बे अभिक्कमपटिक्कमगहणेन. ‘‘गमनेपि पुरतो पच्छतो च कायस्स अभिहरणं वुत्तन्ति इध गमनमेव गहित’’न्ति अपरे. यस्मा इध सम्पजञ्ञकथायं असम्मोहसम्पजञ्ञमेव धुरं, तस्मा अन्तरन्तरे इरियापथे पवत्तानं रूपारूपधम्मानं तत्थ तत्थेव निरोधदस्सनवसेन सम्पजानकारिता गहिताति. मज्झिमभाणका पन एवं वदन्ति – एको हि भिक्खु गच्छन्तो अञ्ञं चिन्तेन्तो, अञ्ञं वितक्केन्तो गच्छति, एको कम्मट्ठानं अविस्सज्जेत्वाव गच्छति, तथा एको तिट्ठन्तो, निसीदन्तो, सयन्तो अञ्ञं चिन्तेन्तो, अञ्ञं वितक्केन्तो सयति, एको कम्मट्ठानं अविस्सज्जेत्वाव सयति. एत्तकेन पन न पाकटं होतीति चङ्कमनेन दीपेन्ति. यो भिक्खु चङ्कमनं ओतरित्वा चङ्कमनकोटियं ठितो परिग्गण्हाति – ‘‘पाचीनचङ्कमनकोटियं पवत्ता रूपारूपधम्मा पच्छिमचङ्कमनकोटिं अप्पत्वा एत्थेव निरुद्धा, पच्छिमचङ्कमनकोटियं पवत्तापि पाचीनचङ्कमनकोटिं अप्पत्वा एत्थेव निरुद्धा, चङ्कमनमज्झे पवत्ता उभो कोटियो अप्पत्वा एत्थेव निरुद्धा, चङ्कमने पवत्ता रूपारूपधम्मा ठानं अप्पत्वा एत्थेव निरुद्धा, ठाने पवत्ता निसज्जं अप्पत्वा एत्थेव निरुद्धा, निसज्जाय पवत्ता सयनं अप्पत्वा एत्थेव निरुद्धा’’ति, एवं परिग्गण्हन्तो परिग्गण्हन्तो एव चित्तं भवङ्गं ओतारेति, उट्ठहन्तो पन कम्मट्ठानं गहेत्वाव उट्ठहति. अयं भिक्खु गतादीसु सम्पजानकारी नाम होतीति.
एवम्पि सुत्ते कम्मट्ठानं अविभूतं होति, कम्मट्ठानं अविभूतं न कातब्बं, तस्मा सो भिक्खु याव सक्कोति, ताव चङ्कमित्वा ठत्वा निसीदित्वा सयमानो एवं परिग्गहेत्वा सयति – ‘‘कायो अचेतनो मञ्चो अचेतनो, कायो न जानाति ‘अहं मञ्चे सयितो’ति, मञ्चोपि न जानाति ‘मयि कायो सयितो’ति, अचेतनो कायो अचेतने मञ्चे सयितो’’ति, एवं परिग्गण्हन्तो एव चित्तं भवङ्गं ओतारेति, पबुज्झन्तो कम्मट्ठानं गहेत्वाव पबुज्झतीति अयं सुत्ते सम्पजानकारी नाम होति. कायिकादिकिरियानिब्बत्तनेन तम्मयत्ता आवज्जनकिरियानिब्बत्तकत्ता आवज्जनकिरियासमुट्ठितत्ता च जवनं, सब्बम्पि वा छद्वारप्पवत्तं किरियामयपवत्तं नाम, तस्मिं सति जागरितं नाम होतीति परिग्गण्हन्तो जागरिते सम्पजानकारी नाम. अपिच रत्तिन्दिवं छ कोट्ठासे कत्वा पञ्च कोट्ठासे जग्गन्तोपि जागरिते सम्पजानकारी नाम होतीति.
विमुत्तायतनसीसे ठत्वा धम्मं देसेन्तोपि बात्तिंसतिरच्छानकथं पहाय दसकथावत्थुनिस्सितसप्पायकथं कथेन्तोपि भासिते सम्पजानकारी नाम होति. अट्ठतिंसाय आरम्मणेसु चित्तरुचियं आरम्मणं मनसिकारं पवत्तेन्तोपि दुतियज्झानं समापन्नोपि तुण्हीभावे सम्पजानकारी नाम. दुतियञ्हि झानं वचीसङ्खारप्पहानतो विसेसतो तुण्हीभावो नामाति. ओट्ठे चातिआदीसु च-सद्देन कण्ठसीसनाभिआदीनं सङ्गहो दट्ठब्बो. तदनुरूपं पयोगन्ति तस्स उप्पत्तिया अनुच्छविकं चित्तस्स पवत्तिआकारसञ्ञितं पयोगं, यतो सब्बे विचारादयो निप्फज्जन्ति. उपादारूपपवत्तियाति विञ्ञत्तिविकारसहितसद्दायतनुप्पत्तिया. एवन्ति वुत्तप्पकारेन. सत्तसुपि ठानेसु असम्मुय्हनवसेन ‘‘मिस्सक’’न्ति वुत्तं. मग्गसम्मासतियापि कायानुपस्सनादिअनुरूपत्ता सम्पजञ्ञानुरूपपुब्बभागं सत्तट्ठानियस्स एकन्तलोकियत्ता.
सतिसुत्तवण्णना निट्ठिता.