१०. भिक्खुनुपस्सयसुत्तवण्णना
३७६. कम्मट्ठानकम्मिकाति कम्मट्ठानमनुयुत्ता. विसेसेतीति विसेसो, अतिसयो, स्वायं पुब्बापरविसेसो उपादायुपादाय गहेतब्बोति तं दस्सेतुं ‘‘तत्था’’तिआदिमाह.
उप्पज्जति किलेसपरिळाहोति काये असुभादिवसेन मनसिकारं अदहन्तस्स मनसिकारस्स वीथियं अपटिपन्नता सुभादिवसेन कायारम्मणो किलेसपरिळाहो च उप्पज्जति. वीरियारम्भस्स अभावेन तस्मिं आरम्मणे चेतसो वा लीनत्तं होति, गोचरज्झत्ततो बहिद्धा पुथुत्तारम्मणे चित्तं विक्खिपति. एवं किलेसपरिळाहे चातिआदिना तिविधम्पि भावनानुयोगस्स किलेसवत्थुभावं उपादाय समुच्चयवसेन अट्ठकथायं वुत्तं. यस्मा पन ते परिळाहलीनत्तविक्खेपा एकज्झं न पवत्तन्ति, तस्मा पाळियं ‘‘कायारम्मणो वा’’तिआदिना अनियमत्थो वा-सद्दो गहितो. किलेसानुरञ्जितेनाति किलेसविवण्णितचित्तेन हुत्वा न वत्तितब्बं. कथं पन वत्तितब्बन्ति आह ‘‘किस्मिञ्चिदेवा’’ति. न च वितक्केति न च विचारेतीति किलेससहगते वितक्कविचारे न पवत्तेति. सुखितोति झानसुखेन सुखितो.
इमस्स भिक्खुनो भावना पवत्ताति सम्बन्धो. यस्मा हि इमस्स भिक्खुनो तं मूलकम्मट्ठानं परिपन्थे सति ठपेत्वा बुद्धगुणादिअनुस्सरणेन चित्तं पसादेत्वा मूलकम्मट्ठानभावना पवत्ता, तस्मा पणिधाय भावनाति वुत्तन्ति सम्बन्धो. अट्ठपेत्वाति चित्तं अप्पवत्तेत्वाति अत्थो वेदितब्बो. कम्मट्ठानादीनं तिण्णम्पि वसेन अत्थयोजना सम्भवति. तेनाह ‘‘तत्था’’तिआदि. सारेन्तो वियाति रथं वाहयन्तो विय. समप्पमाणतो अट्ठकादिवसेन सुतच्छितं पक्खिपन्तो विय. सुखेनेव किलेसानं ओकासं अदेन्तो अन्तरा असज्जन्तो अलग्गन्तो. विपस्सनाचारस्स आरद्धवुत्तितं अपरिपन्थतञ्च दस्सेन्तो ओपम्मद्वयमाह. ब्याभङ्गियाति काजदण्डेन. किलेसपरिळाहादीनन्ति किलेसपरिळाहलीनत्तविक्खेपानं.
गुळखण्डादीनीति गुळखण्डसक्खरखण्डादीनि उच्छुविकारभूतानि. ‘‘काये कायानुपस्सी विहरामी’’तिआदिवचनतो ‘‘पुब्बभागविपस्सना कथिता’’ति वुत्तं.
अम्बपालिवग्गवण्णना निट्ठिता.