२. नालन्दवग्गो
२. नालन्दसुत्तवण्णना
३७८. दुतियवग्गे पठमसुत्तं हेट्ठा वुत्तनयत्ता सुविञ्ञेय्यन्ति तं लङ्घित्वा ‘‘दुतिये’’ति वुत्तं.
भिय्यतरो अभिञ्ञातोति सम्बोधिया सेट्ठतरोति अभिलक्खितो. भिय्यतराभिञ्ञोति सब्बसत्तेसु अधिकतरपञ्ञो. तेनाह ‘‘उत्तरितरञाणो’’ति. सम्मा अनवसेसतो बुज्झति एतेनाति सम्बोधीति आह – ‘‘सम्बोधियन्ति सब्बञ्ञुतञ्ञाणे’’ति. निप्पदेसा गहिताति अनवसेसा बुद्धगुणा गहिता अग्गमग्गसिद्धियाव भगवतो सब्बगुणानं सिद्धत्ता. न केवलञ्च बुद्धानं, अथ खो अग्गसावकपच्चेकबुद्धानम्पि तंतंगुणसमिज्झनं अग्गमग्गाधिगमेनेवाति दस्सेन्तो ‘‘द्वेपि अग्गसावका’’तिआदिमाह.
अपरो नयो – पसन्नोति इमिना पसादस्स वत्तमानता दीपिताति उप्पन्नसद्धोति इमिनापि सद्धाय पच्चुप्पन्नता पकासिताति आह – ‘‘एवं सद्दहामीति अत्थो’’ति. अभिजानाति अभिमुखभावेन सब्बञ्ञेय्यं जानातीति अभिञ्ञो, भिय्यो अधिको अभिञ्ञोति भिय्योभिञ्ञो. सो एव अतिसयवचनिच्छावसेन भिय्योभिञ्ञतरोति वुत्तोति आह – ‘‘भिय्यतरो अभिञ्ञातो’’ति. दुतियविकप्पे पन अभिजानातीति अभिञ्ञा, अभिविसिट्ठा पञ्ञा. भिय्यो अभिञ्ञा एतस्साति भिय्योभिञ्ञो, सो एव अतिसयवचनिच्छावसेन भिय्योभिञ्ञतरो. स्वायं अस्स अतिसयो अभिञ्ञाय भिय्योभावकतोति आह – ‘‘भिय्यतराभिञ्ञो वा’’ति. सम्बुज्झति एतायाति सम्बोधि, सब्बञ्ञुतञ्ञाणं अग्गमग्गञाणञ्च. सब्बञ्ञुतञ्ञाणपदट्ठानञ्हि अग्गमग्गञाणं, अग्गमग्गञाणपदट्ठानञ्च सब्बञ्ञुतञ्ञाणं सम्बोधि नाम. तत्थ पधानवसेन तदत्थदस्सने पठमविकप्पो, पदट्ठानवसेन दुतियविकप्पो. कस्मा पनेत्थ अरहत्तमग्गञाणस्सेव गहणं, ननु हेट्ठिमानिपि भगवतो मग्गञाणानि सवासनमेव यथासकं पटिपक्खविधमनवसेन पवत्तानि. सवासनप्पहानञ्हि ञेय्यावरणप्पहानन्ति? सच्चमेतं, तं पन अपरिपुण्णं पटिपक्खविधमनस्स विप्पकतभावतोति आह ‘‘अरहत्तमग्गञाणे वा’’ति. सब्बन्ति सम्मासम्बुद्धेन अधिगन्तब्बं सब्बं.
खादनीयानं उळारता सातरसानुभावेनाति आह ‘‘मधुरे आगच्छती’’ति. पसंसाय उळारता विसिट्ठभावेनाति आह – ‘‘सेट्ठे’’ति. ओभासस्स उळारता महन्तभावेनाति वुत्तं – ‘‘विपुले’’ति. उसभस्स अयन्ति आसभी, इध पन आसभी वियाति आसभी. तेनाह – ‘‘उसभस्स वाचासदिसी’’ति. येन गुणेन सा तंसदिसा, तं दस्सेतुं ‘‘अचला असम्पवेधी’’ति वुत्तं. यतो कुतोचि अनुस्सवनं अनुस्सवो. विज्जाट्ठानादीसु कतपरिचयानं आचरियानं तं तं अत्थं ञापेन्ती पवेणी आचरियपरम्परा. केवलं अत्तनो मतिया ‘‘इति किर एवं किरा’’ति परिकप्पना इतिकिरा. पिटकस्स गन्थस्स सम्पदानतो भूततो तस्स गहणं पिटकसम्पदानं. यथासुतानं अत्तानं आकारस्स परिवितक्कनं आकारपरिवितक्को. तथेवस्स ‘‘एवमेत’’न्ति दिट्ठिया निज्झानक्खमनं दिट्ठिनिज्झानक्खन्ति. आगमाधिगमेहि विना केवलं अनुस्सुततो तक्कमग्गं निस्साय तक्कनं तक्को. अनुमानविधिं निस्साय गहणं नयग्गाहो. यस्मा बुद्धविसये ठत्वा भगवतो अयं थेरस्स चोदना थेरस्स च सो अविसयो, तस्मा ‘‘पच्चक्खतो ञाणेन पटिविज्झित्वा विया’’ति वुत्तं. सीहनादो वियाति सीहनादो. तंसदिसता चस्स सेट्ठभावेन, सो चेत्थ एवं वेदितब्बोति दस्सेन्तो ‘‘सीहनादो’’तिआदिमाह. उन्नादयन्तेनाति असनिसदिसं करोन्तेन.
अनुयोगदापनत्थन्ति अनुयोगं सोधापेतुं. विमद्दक्खमञ्हि सीहनादं नदन्तो अत्थतो अनुयोगं सोधेति नाम, अनुयुज्झन्तो च नं सोधापेति नाम. दातुन्ति सोधेतुं. केचि ‘‘दानत्थ’’न्ति अत्थं वदन्ति, तं न युत्तं. न हि यो सीहदानं नदति, सो एव तत्थ अनुयोगं देतीति युज्जति. निघंसनन्ति विमद्दनं. धममानन्ति तापयमानं. तापनञ्चेत्थ गग्गरिया धम्मापनसीसेन वदति.
सब्बे तेति सब्बे ते अतीते निरुद्धे सम्मासम्बुद्धे. तेनेतं दस्सेति – ये ते अहेसुं अतीतमद्धानं तव अभिनीहारतो ओरं सम्मासम्बुद्धा, तेसं ताव सावकञाणगोचरे धम्मे परिच्छिन्दन्तो मारादयो विय च बुद्धानं लोकियचित्ताचारं त्वं जानेय्यासि. ये पन ते अब्भतीता, ततो परतो छिन्नवटुमा छिन्नपपञ्चा परियादिन्नवट्टा सब्बदुक्खवीतिवत्ता सम्मासम्बुद्धा, तेसं सब्बेसम्पि तव सावकञाणस्स अविसयभूते धम्मे कथं जानिस्ससीति. तेनाति सम्बोधिसङ्खातेन सब्बञ्ञुतञ्ञाणपदट्ठानेन अरहत्तमग्गञाणेन. एवंसीलाति तादिससीला. समाधिपक्खाति समाधि च समाधिपक्खा च समाधिपक्खा एकदेससरूपेकसेसनयेन. तत्थ समाधिपक्खाति वीरियसतियो तदनुगुणा च धम्मा वेदितब्बा. झानसमापत्तीसु येभुय्येन विहारवोहारो, झानसमापत्तियो समाधिप्पधानाति वुत्तं ‘‘समाधिपक्खानं धम्मानं गहितत्ता विहारो गहितो’’ति.
यथा पन हेट्ठा गहितापि समाधिपञ्ञा पटिपक्खतो विमुत्तत्ता विमुच्चन-सङ्खात-किच्चविसेस-दस्सनवसेन विमुत्तिपरियायेन पुन गहिता ‘‘एवंविमुत्ता’’ति, एवं दिब्बविहारो दिब्बविहारविसेसदस्सनवसेन पुन गहितो ‘‘एवंविहारी’’ति, तस्मा सब्बेसं समापत्तिविहारानं वसेनेत्थ अत्थो युज्जतीति दट्ठब्बं. विमुत्तीति सङ्खं गच्छन्ति विमुच्चित्थाति कत्वा. एस नयो सेसेसुपि. पटिप्पस्सद्धन्तेति पटिप्पस्सम्भनोसापनेन. सब्बकिलेसेहि निस्सटत्ता असंसट्ठत्ता विमुत्तत्ता च निस्सरणविमुत्ति निब्बानं.
अनागतबुद्धानं पनाति पन-सद्दो विसेसत्थजोतनो. तेन अतीतेसु ताव खन्धानं भूतपुब्बत्ता तत्थ सिया ञाणस्स सविसये गति, अनागतेसु पन सब्बसो असञ्जातेसु कथन्ति इममत्थं जोतेति. तेनाह ‘‘अनागतापी’’तिआदि. ‘‘अत्तनो चेतसा परिच्छिन्दित्वा विदिता’’ति कस्मा वुत्तं? ननु अतीतानागते सत्ताहे एव पवत्तं चित्तं चेतोपरियञाणस्स विसयो, न ततो परन्ति? नयिदं चेतोपरियञाणकिच्चवसेन वुत्तं, अथ खो पुब्बेनिवासअनागतंसञाणानं वसेन वुत्तं, तस्मा नायं दोसो. विदितट्ठाने न करोति सिक्खापदेनेव तादिसस्स पटिक्खेपस्स पटिक्खित्तत्ता सेतुघाततो च. कथं पन थेरो द्वयसम्भवे पटिक्खेपमेव अकासि, न विभज्ज ब्याकासीति आह ‘‘थेरो किरा’’तिआदि. पारं परियन्तं मिनोतीति पारमी, सा एव ञाणन्ति पारमिञाणं, सावकानं पारमिञाणं सावकपारमिञाणं. तस्मिं सावकानं उक्कंसपरियन्तगते जानने नायमनुयोगो, अथ खो सब्बञ्ञुतञ्ञाणे सब्बञ्ञुताय जानने. केचि पन ‘‘सावकपारमिञाणेति सावकपारमिञाणविसये’’ति अत्थं वदन्ति, तथा सेसपदेसुपि. सील…पे… समत्थन्ति सीलसमाधिपञ्ञाविमुत्तिञाणसङ्खातानं कारणानं जाननसमत्थं. बुद्धसीलादयो हि बुद्धानं बुद्धकिच्चस्स परेहि एते बुद्धाति जाननस्स च कारणं.
अनुमानञाणं विय संसयट्ठितं अहुत्वा इदमिदन्ति यथासभावतो ञेय्यं धारेति निच्छिनोतीति धम्मो, पच्चक्खञाणन्ति आह ‘‘धम्मस्स पच्चक्खतो ञाणस्सा’’ति. अनुएतीति अन्वयोति आह ‘‘अनुयोगं अनुगन्त्वा’’ति. पच्चक्खसिद्धञ्हि अत्थं अनुगन्त्वा अनुमानञाणस्स पवत्ति ‘‘दिट्ठेन अदिट्ठस्स अनुमान’’न्ति वेदितब्बा. विदिते वेदकम्पि ञाणं अत्थतो विदितमेव होतीति ‘‘अनुमानञाणं नयग्गाहो विदितो’’ति वुत्तं. विदितोति विद्धो पटिलद्धो, अधिगतोति अत्थो. अप्पमाणोति अपरिमाणो महाविसयत्ता. तेनाह ‘‘अपरियन्तो’’ति. तेनाति अपरियन्तत्ता. तेन वा अपरियन्तेन ञाणेन. एतेन थेरो यं यं अनुमेय्यमत्थं ञातुकामो होति, तत्थ तत्थ तस्स असङ्गमप्पटिहतं अनुमानञाणं पवत्तेतीति दस्सेति. तेनाह ‘‘सो इमिना’’तिआदि. तत्थ इमिनाति इमिना कारणेन.
पाकारस्स थिरभावं उद्धमुद्धं आपेतीति उद्धापं, पाकारमूलं. आदि-सद्देन पाकारद्वारबन्धपरिखादीनं सङ्गहो वेदितब्बो. पच्चन्ते भवं पच्चन्तिमं. पण्डितदोवारिकट्ठानियं कत्वा थेरो अत्तानं दस्सेतीति दस्सेन्तो ‘‘एकद्वारन्ति कस्मा आहा’’ति चोदनं समुट्ठापेसि.
यस्सा पञ्ञाय वसेन पुरिसो पण्डितोति वुच्चति, तं पण्डिच्चन्ति आह – ‘‘पण्डिच्चेन समन्नागतो’’ति. तंतंइतिकत्तब्बतासु छेकभावो ब्यत्तभावो वेय्यत्तियं. मेधति अञ्ञाणं हिंसति विधमतीति मेधा, सा एतस्स अत्थीति मेधावी. ठाने ठाने उप्पत्ति एतिस्सा अत्थीति ठानुप्पत्तिका, ठानसो उप्पज्जनपञ्ञा. अनुपरियायन्ति एतेनाति अनुपरियायो, सो एव पथोति अनुपरियायपथो, परितो पाकारस्स अनुयायनमग्गो. पाकारभागा सम्बन्धितब्बा एत्थाति पाकारसन्धि, पाकारस्स फुल्लितपदेसो. सो पन हेट्ठिमन्तेन द्विन्नम्पि इट्ठकानं विगमेन एवं वुच्चतीति आह – ‘‘द्विन्नं इट्ठकानं अपगतट्ठान’’न्ति. छिन्नट्ठानन्ति छिन्नभिन्नपदेसं, छिन्नट्ठानं वा. तञ्हि ‘‘विवर’’न्ति वुच्चति. कीलिट्ठन्ति मलीनं. उपतापेन्तीति किलेसपरिळाहेन सन्तापेन्ति. विबाधेन्तीति पीळेन्ति. उप्पन्नाय पञ्ञाय नीवरणेहि न किञ्चि कातुं सक्काति आह ‘‘अनुप्पन्नाय पञ्ञाय उप्पज्जितुं न देन्ती’’ति. तस्माति पच्चयूपघातेन उप्पज्जितुं अप्पदानतो. चतूसु सतिपट्ठानेसु सुट्ठु ठपितचित्ताति चतुब्बिधायपि सतिपट्ठानभावनाय सम्मदेव ठपितचित्ता अप्पितचित्ता. यथासभावेन भावेत्वाति याथावतो सम्मदेव यथा पटिपक्खा समुच्छिज्जन्ति, एवं भावेत्वा.
पुरिमनये सतिपट्ठानानि बोज्झङ्गा च मिस्सका अधिप्पेताति ततो अञ्ञथा वत्तुं ‘‘अपिचेत्था’’तिआदि वुत्तं. मिस्सकाति समथविपस्सनामग्गवसेन मिस्सका. ‘‘चतूसु सतिपट्ठानेसु सुप्पतिट्ठितचित्ताति पठमं वुत्तत्ता सतिपट्ठानेसु विपस्सनं गहेत्वा सत्त बोज्झङ्गे यथाभूतं भावेत्वाति वुत्तत्ता मग्गपरियापन्नानंयेव च नेसं निप्परियायबोज्झङ्गभावतो तेसु च अधिगतमेव होतीति बोज्झङ्गे मग्गो च सब्बञ्ञुतञ्ञाणञ्चाति गहिते सुन्दरो पञ्हो भवेय्या’’ति महासिवत्थेरो आह. न पनेवं गहितं पोराणेहीति अधिप्पायो. इतीति वुत्तप्पकारपरामसनं. थेरोति सारिपुत्तत्थेरो.
तत्थाति तेसु पच्चन्तनगरादीसु. नगरं विय निब्बानं तदत्थिकेहि उपगन्तब्बतो उपगतानञ्च परिस्सयरहितसुखाधिगमट्ठानतो. पाकारो विय सीलं तदुपगतानं परितो आरक्खभावतो. अनुपरियायपथो विय हिरी सीलपाकारस्स अधिट्ठानभावतो. वुत्तञ्हेतं – ‘‘परियायपथोति खो भिक्खु हिरिया एतं अधिवचन’’न्ति. द्वारं विय अरियमग्गो निब्बाननगरप्पवेसने अञ्जसभावतो. पण्डितदोवारिको विय धम्मसेनापति निब्बाननगरं पविट्ठपविसनकानं सत्तानं सल्लक्खणतो. दिन्नोति दापितो, सोधितोति अत्थो. सेसं सुविञ्ञेय्यमेव.
३. चुन्दसुत्तवण्णना
३७९. पुब्बे सावत्थितो वेळुवगामस्स गतत्ता वुत्तं ‘‘आगतमग्गेनेव पटिनिवत्तन्तो’’ति. सत्तन्नन्ति उपसेनो, रेवतो, खदिरवनियो, चुन्दो, समणुद्देसो अहन्ति चतुन्नं, चाला, उपचाला, सीसूपचालाति, तिस्सन्नन्ति इमेसं सत्तन्नं अरहन्तानं. नत्थि नु खोति एत्थापि ‘‘ओलोकेन्तो’’ति आनेत्वा सम्बन्धो सीहावलोकनञायेन. भविस्सन्ति मे वत्तारो हरितुं नासक्खीति सम्बन्धो. इदं दानि पच्छिमदस्सनन्ति भूतकथनमत्तं, न तत्थ सालयतादस्सनं यथा तथागतस्स वेसालिया निक्खमित्वा नागापलोकितं.
तस्स तस्स विसेसस्स अधिट्ठानवसेनेव इद्धिभेददस्सनं इद्धिविकुब्बनं. सीहस्स विजम्भनादिवसेन कीळित्वा नादसदिसी अयं धम्मकथाति वुत्तं ‘‘सीहविकीळितो धम्मपरियायो’’ति. गमनकालो मय्हन्तीति एत्थ इति-सद्दो परिसमापने. तेन थेरेन यथारम्भस्स वचनपबन्धस्स समापितभावं जोतेति. एस नयो सेसेसुपि एदिसेसु सब्बट्ठानेसु. युगन्धरादयो परिभण्डपब्बताति वेदितब्बा. एकप्पहारेनेवाति एकप्पहारेन इव. स्वायं इव-सद्दो न सक्कोमीति एत्थ आनेत्वा सम्बन्धितब्बो.
पटिपादेस्सामीति ठितकायं पटिपादेस्सामि. पत्थनाकाले अनोमदस्सिस्स भगवतो वचनसुतानुसारेन ञाणेन दिट्ठमत्ततं सन्धाय ‘‘तं पठमदस्सन’’न्ति वुत्तं. धारेतुं असक्कोन्ती गुणसारं. एस मग्गोति एसो जातानं सत्तानं मरणनिट्ठितो पन्थो. पुनपि एवंभाविनो नाम सङ्खाराति सङ्खारा नाम एवंभाविनो, मरणपरियोसानाति अत्थो. एत्तकन्ति एत्तकं कालं. सङ्कड्ढित्वा संहरित्वा. मुखं पिधायाति मुखं छादेत्वा. अग्घिकसतानीति मकुळङ्कुरचेतियसतानि.
पुरिमदिवसेति अतीतदिवसे. यस्मा धम्मसेनापतिनो अरहत्तप्पत्तदिवसेयेव सत्थु सावकसन्निपातो अहोसि, तस्मा ‘‘पूरितसावकसन्निपातो एस भिक्खू’’ति वुत्तं. पञ्च जातिसतानीति भुम्मत्थे, अच्चन्तसंयोगे वा उपयोगवचनं.
कळोपिहत्थोति विलीवमयभाजनहत्थो. ‘‘चम्ममयभाजनहत्थो’’ति च वदन्ति. पुरन्तरेति नगरमज्झे. वनेति अरञ्ञे.
ओसक्कनाकारविरहितोति धम्मदेसनाय सङ्कोचहेतुविरहितो. विसारदोति सारदविरहितो. धम्मोजन्ति धम्मरसं, ओजवन्तं देसनाधम्मन्ति अत्थो. धम्मभोगन्ति धम्मपरिभोगं, परेहि सद्धिं संविभजनवसेन पवत्तं धम्मसम्भोगन्ति देसनाधम्ममेव वदति. तेन वुत्तं ‘‘उभयेनपि धम्मपरिभोगोव कथितो’’ति.
पियायितब्बतो पियेहि. मनस्स वड्ढनतो मनापेहि. जातियाति खत्तियादिजातिया. नानाभावो असहभावो विसुंभावो. अञ्ञथाभावो अञ्ञथत्तं. सरीरन्ति रूपधम्मकायसङ्खातं सरीरं. रूपकाये हि भिज्जन्ते भिज्जन्तेव. सो भिज्जेय्याति सो महन्ततरो खन्धो भिज्जेय्य.
दक्खिणदिसं गतोति दक्खिणदिसामुखे पवत्तो. महाखन्धो वियाति महन्तो सारवन्तो साखाखन्धो विय. साखखन्धा हि दिसाभिमुखपवत्ताकारा, मूलखन्धो पन उद्धमुग्गतो. सोळसन्नं पञ्हानन्ति सोळसन्नं अपरापरियपवत्तनियानं अत्थानं. ञातुं इच्छितो हि अत्थो पञ्हो.
४-५. उक्कचेलसुत्तादिवण्णना
३८०-३८१. अमावसुपोसथेति अमावसिउपोसथे, कालपक्खउपोसथेति अत्थो. पुरिमनयेनेवाति अनन्तरसुत्ते वुत्तनयेनेव.
६. उत्तियसुत्तवण्णना
३८२. मच्चुधेय्यस्साति मच्चुनो पवत्तिट्ठानस्स.
८. ब्रह्मसुत्तवण्णना
३८४. तस्मिं कालेति पठमाभिसम्बोधियं. भिक्खुयेव नत्थि धम्मचक्कस्स अप्पवत्तितत्ता, भिक्खुयेव भिक्खुलक्खणयोगतो. एकको मग्गो, न द्वेधापथभूतोति एकमग्गो, तं एकमग्गं. जातिया खयो वट्टदुक्खस्स अन्तभूतोति जातिक्खयन्तो, निब्बानं, तं दिट्ठत्ता जातिक्खयन्तदस्सीति एवमेत्थ अत्थो दट्ठब्बो.
९. सेदकसुत्तवण्णना
३८५. अयं तस्स लद्धीति अयं इदानि वुच्चमाना तस्स आचरियस्स लद्धि. ततो अनामेन्तोति येन वंसो नमति, तेन कायं अनामेन्तो. तथा नमन्तो हि पतित्वा चुण्णविचुण्णं होति. तन्ति कायं, तं वंसं वा. आकड्ढेन्तो वियाति नमितट्ठानतो परभागेन आकड्ढेन्तो विय. एकतोभागियं कत्वाति यथावुत्तं सतिं सूपट्ठितं कत्वा ओनतं विय कत्वा. तथा करणं पन तथा वातूपत्थम्भगाहापनेनाति आह – ‘‘वातूपत्थम्भं गाहापेत्वा’’ति. तञ्च सतिया तदत्थं उपट्ठानेनाति वुत्तं ‘‘सतिं सूपट्ठितं कत्वा’’ति. निच्चलोव निसीदन्तो अन्तेवासी आचरियं रक्खति, एत्तकं आचरियस्स लद्धिवसेन वुत्तं. ‘‘आचरियो वंसं सुग्गहितं गण्हन्तो’’तिआदि सब्बं हेट्ठा वुत्तनयमेव.
‘‘अत्तानमेव रक्खती’’ति इदं अत्तनो रक्खणं पधानं कत्वा वुत्तं, न अन्तेवासिकन्ति अवधारणफलं. अत्तरक्खाय पनेत्थ सिज्झमानाय अन्तेवासिकरक्खापि सिद्धा एव होतीति. दुतियपक्खेपि एसेव नयो. सो तत्थ ञायोति या अत्तनो एव रक्खा, सा अत्थतो पररक्खापि होतीति अयमेत्थ ञायो युत्तप्पयोगो. अनुवड्ढियाति यथावड्ढितस्स अनुअनुवड्ढिया. एतेन पटिलद्धसम्पयुत्तपमोदनाकारो दस्सितोति आह – ‘‘सपुब्बभागाय मुदितायाति अत्थो’’ति. आसेवनायातिआदीनि पदानि अनुदयतापरियोसानानि (यस्मा सतिपट्ठानं सेवन्तस्स सिद्धं अत्तनो च परस्स च रक्खणं पकासेन्ति, तस्मा) – ‘‘अत्तानं, भिक्खवे, रक्खिस्सामीति सतिपट्ठानं सेवितब्ब’’न्तिआदि वुत्तं.
१०. जनपदकल्याणीसुत्तवण्णना
३८६. जनपदस्मिं कल्याणीति सकलजनपदे भद्दा रूपसम्पत्तिया सिक्खासम्पत्तिया च सुन्दरा सेट्ठा. रूपसम्पत्ति च नाम सब्बसो रूपदोसाभावेन रूपगुणपारिपूरिया होतीति तदुभयं दस्सेतुं ‘‘छसरीरदोसरहिता पञ्चकल्याणसमन्नागता’’ति वुत्तं. तं दुविधम्पि विवरन्तो ‘‘सा ही’’तिआदिमाह. पञ्चकल्याणसमन्नागताति पञ्चविधसरीरगुणसम्पदाहि समन्नागता. नातिदीघा नातिरस्साति पमाणमज्झिमा दीघतरप्पमाणा न होति, न अतिरस्सा, लकुण्डकरूपा न होति. नातिकिसाति अतिविय किसथद्धमंसलोहिता दिस्समाना अट्ठिसरीरा जालसरीरा न होति. नातिथूलाति भारियमंसा महोदरा न होति. नातिकाळा नाच्चोदाताति अतिविय काळवण्णा झामङ्गारो विय, दधितक्कादीहि पमज्जितमत्तकंसलोहवण्णा न होति. मनुस्सलोके तादिसिया रूपसम्पत्तिया अभावतो अतिक्कन्ता मनुस्सवण्णं. यथा पमाणयुत्ता, एवं आरोहपरिणाहयोगतो च परेसं पसादावहा नातिदीघतादयो. एवं मनुस्सानं दिब्बरूपतासम्पत्तीपीति वुत्तं ‘‘अप्पत्ता दिब्बवण्ण’’न्ति. एत्थ च नातिदीघनातिरस्सतावचनेन आरोहसम्पत्ति वुत्ता उब्बेधेन पासादिकभावतो. किसथूलदोसाभाववचनेन परिणाहसम्पत्ति वुत्ता. उभयेनपि सण्ठानसम्पदा विभाविता, नातिकाळतावचनेन वण्णसम्पत्ति वुत्ता विवण्णताभावतो. पियङ्गुसामाति परिणतपियङ्गुपुप्फसदिससरीरनिभासा. मुखपरियोसानन्ति अधरोट्ठमाह. अयं यथावुत्ता सरीरवण्णसम्पत्ति. अस्साति जनपदकल्याणिया. छविकल्याणता छविसम्पत्तिहेतुकत्ता तस्सा. एस नयो सेसेसुपि. नखा एव पत्तसदिसताय नखपत्तानि.
(पसावो सरीरावयवेन इरियनन्ति आह – ‘‘पवत्तीति अत्थो’’ति, पसावो यथापरितमेव कनतन्ति, न सभावसन्धानं. यथाविभावसेन उत्तममेव नच्चं नच्चति. ते वा वीसतियासूतिरं धानप्पत्तिया पवत्तिया पवत्तिमकतमन्दता विभावसुटतस्स उत्तममेव गीतञ्च गायतीति अत्थो.) [एत्थन्तरे पाठो असुद्धो दुस्सोधनीयो च. सुद्धपाठो गवेसितब्बो.] समतित्तिको तेलपत्तोति मुखवत्तिसमं तेलानं पूरितत्ता समतित्तिकमुखं तेलभाजनं. अन्तरेन च महासमज्जं अन्तरेन च जनपदकल्याणिन्ति जनपदकल्याणिया, तस्सा च नच्चगीतं पेक्खितुं सन्निपतितमहाजनसमूहस्स मज्झतो परिहरितब्बो नेतब्बो. नन्ति तेलं. आहरेय्याति आपज्जेय्य. तत्रिदं ओपम्मसंसन्दनं – तेलपत्तं विय कायगतासति, तस्स परिहरणपुग्गलो विय विपस्सको, जनकाया विय पुथुत्तारम्मणानि, असिपुरिसो विय मनो, तेलस्स चजनं विय किलेसुप्पादनं, सीसपातनं विय अरियमग्गञाणसीसानुप्पत्ति. ‘‘कायगता सति नो भाविता…पे… सिक्खितब्ब’’न्ति वुत्तत्ता ‘‘पुब्बभागविपस्सनाव कथिता’’ति वुत्तं.
नालन्दवग्गवण्णना निट्ठिता.