२. परियायसुत्तवण्णना

२३३. सम्बहुलाति वुच्चन्ति सङ्घसमञ्ञाय अभावतो. ततो परन्ति तिण्णं जनानं उपरि सङ्घो चतुवग्गकरणीयादिसङ्घकम्मवसेन कम्मप्पत्तत्ता. पविसिंसूति भाविनि पविसने भूते विय कत्वा उपचारेन वुत्तन्ति आह – ‘‘पविट्ठा’’ति. भाविनि हि भूते विय उपचारो. तेनाह – ‘‘ते पना’’तिआदि, ते पन भिक्खूति अत्थो. पुन ते पनाति तित्थिया तित्थियसावका च.

इमस्मिं पञ्ञापनेति ‘‘पञ्च नीवरणे पहाया’’तिआदिनयप्पवत्ते इमस्मिं पकारे अत्थपञ्ञापने. विसिस्सति अञ्ञमञ्ञतो पभिज्जतीति विसेसो, भेदो. स्वायं इध अन्तोगधाधिकभावो अधिप्पेतोति आह – ‘‘को विसेसोति किं अधिक’’न्ति. अधिकं पयसनं पयुञ्जनन्ति अधिप्पयासो, अधिकप्पयोगो. नाना करीयति एतेनाति नानाकरणं, भेदोति आह – ‘‘किं नानत्त’’न्ति. दुतियपदेति ‘‘अनुसासनिया वा अनुसासनि’’न्ति एतस्मिं पदे. एसेव नयोति यथा पठमस्मिं पदे अत्थयोजना, एवं दुतियपदेपि योजेतब्बा.

तीणि ठानानीति देवमारब्रह्मट्ठानानि तीणि ‘‘सदेवके लोके’’तिआदिना लोके पक्खिपित्वा. ‘‘सस्समणब्राह्मणिया पजाय सदेवमनुस्साया’’ति द्वे ठानानि. ‘‘पजाया’’ति एत्थ पक्खिपित्वा इति पञ्चहि पदेहि. उद्देसन्ति उद्दिसितब्बतं. गणनन्ति एको कामच्छन्दोति गहेतब्बतं गच्छति. अत्तनो हत्थपादादीसूति निदस्सनमत्तं दट्ठब्बं समुदायं आरब्भ पटिघस्स उप्पज्जनतो. अत्तनो खन्धेसु विमति ‘‘अहं नु खोस्मी’’तिआदिना.

किञ्चापि सब्बं वीरियं चेतसिकमेव, यं पन कायकम्माधिट्ठानादिवसेन मनसि कायिकपयोगसमुट्ठापनं वीरियं कायिकन्ति लद्धपरियायन्ति ततो विसेसेत्वा चेतसिकन्ति यथाधिप्पेतदुतियतादस्सनत्थं. यदिपि यथाकप्पितइरियापथसन्धारणवसेन पवत्तमानं वीरियं कायस्स तथापवत्तस्स पच्चयभूतन्ति न सक्का वत्तुं, तथापि न तादिसो कायपयोगो, तदा पवत्तो नत्थीति वुत्तं ‘‘कायपयोगं विना उप्पन्नवीरिय’’न्ति. सतिसम्बोज्झङ्गसदिसो वाति इमिना अज्झत्तिके सङ्खारे अज्झुपेक्खनवसेन पवत्ता अज्झत्तधम्मेसु उपेक्खातिआदिनयं अतिदिसति.

‘‘मिस्सकबोज्झङ्गा कथिता’’ति वत्वा तमत्थं विभावेतुं ‘‘एतेसू’’तिआदि वुत्तं. चङ्कमन्तेनपि अरियमग्गं अधिगन्तुं सक्काति कत्वा वुत्तं ‘‘मग्गं अपत्तं कायिकवीरिय’’न्ति. बोज्झङ्गा न लब्भन्तीति निप्परियायबोज्झङ्गा न लब्भन्ती. बोज्झङ्गे उद्धरन्ति परियायतोति अधिप्पायो. सेसाति बहिद्धाधम्मेसु सति-धम्मविचय-उपेक्खा-चेतसिक-वीरिय-सवितक्क-सविचार-पीति-समाधी द्वे पस्सद्धियो च. अयं पन नयो पचुरप्पवत्तिवसेन अट्ठकथानयेनेव वुत्तो. थेरवादवसेन पन अवितक्कअविचारमत्ता पीतिसमाधिसम्बोज्झङ्गा रूपावचरापि अत्थीति तेपि गहेत्वा दस मिस्सकाव होन्तीति वत्तब्बं सियाति.

परियायसुत्तवण्णना निट्ठिता.