३. अग्गिसुत्तवण्णना
२३४. लोणधूपनन्ति लोणञ्च धूपनञ्च लोणधूपनं. योधकम्मन्ति योधपुग्गलेन कत्तब्बं कम्मं. मन्तकम्मन्ति राजकिच्चमन्तनं. पटिहारकम्मन्ति रञ्ञो सन्तिकं आगतानं वचनं रञ्ञो निवेदेत्वा ततो नेसं पटिहरणकम्मं. तस्माति सब्बत्थिकत्ता सतिया. एवं ‘‘सतिञ्च ख्वाह’’न्तिआदिकं अवोच. पुब्बभागविपस्सना बोज्झङ्गाव कथिता पग्गहनिग्गहविनोदितत्ता.
अग्गिसुत्तवण्णना निट्ठिता.