४. नीवरणवग्गो

३-४. उपक्किलेससुत्तादिवण्णना

२१४-२१५. न च पभावन्तन्ति न च पभासम्पन्नं. पभिज्जनसभावन्ति तापेत्वा तालने पभङ्गुतं. अवसेसं लोहन्ति वुत्तावसेसं जातिलोहं, विजातिलोहं, कित्तिमलोहन्ति पभेदं सब्बम्पि लोहं. उप्पज्जितुं अप्पदानेनाति एत्थ ननु लोकियकुसलचित्तस्सपि सुविसुद्धस्स उप्पज्जितुं अप्पदानेन उपक्किलेसताति? सच्चमेतं, यस्मिं पन सन्ताने नीवरणानि लद्धपतिट्ठानि, तत्थ महग्गतकुसलस्सपि असम्भवो, पगेव लोकुत्तरकुसलस्स, परित्तकुसलं पन यथापच्चयं उप्पज्जति. नीवरणे हि वूपसन्ते सन्ताने उप्पत्तिया अपरिसुद्धं होति, उपक्किलिट्ठं नाम होति, अपरिसुद्धदीपकपल्लिकवट्ठितेलादिसन्निस्सयो दीपो विय, अपिच निप्परियायतो उप्पज्जितुं अप्पदानेनेव तेसं उपक्किलेसताति दस्सेन्तो ‘‘यदग्गेन ही’’तिआदिमाह. आरम्मणे विक्खित्तप्पत्तिवसेन चुण्णविचुण्णता वेदितब्बा. न आवरन्तीति कुसलधम्मे उप्पज्जितुं अप्पदानवसेन न आवरन्ति, अथ खो तेसं उप्पत्तिया होन्ति. न पटिच्छादेन्तीति न विनन्धन्ति. चतुभूमकचित्तस्साति चतुत्थभूमककुसलचित्तस्स अनुपक्किलेसा, तेहि अकिलिस्सनतो.

८. आवरणनीवरणसुत्तवण्णना

२१९. पञ्ञा दुब्बला होति, न बलवती पटिपक्खेन उपक्किलिट्ठभावतो. तेनाह ‘‘मन्दा अविसदा’’ति.

पञ्च नीवरणा दूरे होन्ति आवरणाभावतो. तमेव पीतिन्ति सप्पायधम्मसवने उप्पन्नं पीतिं. तस्सा तदा उप्पन्नाकारसल्लक्खणेन अविजहन्तो पुनप्पुनं तस्सा निब्बत्तनेन. तेनाह ‘‘पञ्च नीवरणे विक्खम्भेत्वा’’ति. इदं सन्धायाति एत्तके दिवसेपि न विनस्सन्ति, सा धम्मपीति लद्धपच्चया हुत्वा विसेसावहाति इममत्थं सन्धाय एतं ‘‘इमस्स पञ्च नीवरणा तस्मिं समये न होन्ती’’तिआदि वुत्तं. पीतिपामोज्जपक्खियाति पीतिपामोज्जपच्चया. नस्सन्तीति निरोधपच्चयवसेन पवत्तनतो नस्सन्ति. सभागपच्चयवसेन पुन उप्पज्जन्तापि…पे… वुच्चति किच्चसाधनवसेन पवत्तनतो.

९. रुक्खसुत्तवण्णना

२२०. अभिरुहनकाति समीपरुक्खे अभिभवित्वा रुहनका. अट्ठिकच्छकोति अट्ठिबहुलकच्छको. कपिथनसदिसफलत्ता कपित्थनोति लद्धनामो.

१०. नीवरणसुत्तवण्णना

२२१. अन्धभावकरणा पञ्ञाचक्खुस्स विबन्धनतो. तथा हि ते ‘‘अचक्खुकरणा पञ्ञानिरोधिका’’ति वुत्ता. विहनति विबाधतीति विघातो, दुक्खन्ति आह ‘‘विघातपक्खियाति दुक्खपक्खिका’’ति. निब्बानत्थाय न संवत्तन्तीति अनिब्बानसंवत्तनिका. मिस्सकबोज्झङ्गाव कथिता पुब्बभागिकानं कथितत्ता.

नीवरणवग्गवण्णना निट्ठिता.