५. चक्कवत्तिवग्गो
१. विधासुत्तवण्णना
२२२. विधीयन्तीति विधा, मानादिभागा कोट्ठासाति आह ‘‘तयो मानकोट्ठासा’’ति. तथा तथा विदहनतोति ‘‘सेय्योहमस्मी’’तिआदिना तेन तेनाकारेन विदहनतो ठपनतो, ठपेतब्बतो वा.
२. चक्कवत्तिसुत्तवण्णना
२२३. सिरिसम्पत्तिया राजति दिप्पति सोभतीति राजा, दानपियवचनअत्थचरियासमानत्ततासङ्खातेहि चतूहि सङ्गहवत्थूहि. रञ्जेतीति रमेति. अब्भुग्गतायाति उदीरिता निब्बत्तितो तत्थ तत्थ गच्छनतो. चक्कं वत्तेतीति चक्करतनं पवत्तेति. देवट्ठानन्ति पूजनीयदेवट्ठानं. चित्तीकतट्ठेनाति पूजनीयभावेन. अग्घो नत्थि चिरकालसम्भवपुञ्ञानुभावसिद्धरतनसब्भावतो. अञ्ञेहि चक्कवत्तिनो परिग्गहभूतरतनेहि. लोकेति मनुस्सलोके. तेन तदञ्ञलोकं निवत्तेति. विज्जमानग्गहणेन अतीतानागतं निवत्तेति. बुद्धा च कदाचि करहचि उप्पज्जन्ति चक्कवत्तिनोपि येभुय्येन तस्मिंयेव उप्पज्जनतोति अधिप्पायो. अनोमस्साति अलामकस्स उक्कट्ठस्स. सेसानि रतनानि.
तत्राति वाक्योपञ्ञासने निपातो, तस्मिं पातुभाववचने. ‘‘अयुत्त’’न्ति वत्वा तत्थ अधिप्पायं विवरन्तो ‘‘उप्पन्नं ही’’तिआदिमाह. तेहि रतनेहि चक्कवत्तननियमापेक्खताय चक्कवत्तिवचनस्स. नियमेनाति एकन्तेन. वत्तब्बतं आपज्जति भाविनि भूते विय उपचारोति यथा – ‘‘अगमा राजगहं बुद्धो’’ति (सु. नि. ४१०). लद्धनामस्साति चक्कवत्तीति लोके लद्धसमञ्ञस्स पत्थनीयस्स पुरिसविसेसस्स. मूलुप्पत्तिवचनतोपीति ‘‘चक्कवत्तिस्स पातुभावा’’ति एतस्स पठमुप्पत्तिया वचनतोपि. इदानि तमत्थं विवरन्तो ‘‘यो ही’’तिआदिमाह. यो हि चक्कवत्तिराजा, तस्स उप्पत्तिया चक्करतनस्स उप्पज्जनतो चक्कवत्तीति एवं नामं उप्पज्जति. ‘‘चक्कं वत्तेस्सती’’ति इदं पन नियामं अनपेक्खित्वा तस्स उप्पज्जतीति रतनानुप्पत्तिं गहेत्वा वुत्तनयतो सञ्ञा उप्पज्जति ‘‘चक्कवत्ती’’ति. एकमेवाति चक्करतनमेव पठमं पातुभवति. यस्मिं भूते रञ्ञो चक्कवत्तिसमञ्ञा, अथ पच्छा रतनानि पातुभवन्तीति बहूनं पातुभावं उपादाय बहुलवचनतोपि एतं ‘‘चक्कवत्तिस्स पातुभावा रतनानं पातुभावो’’ति वुत्तं. अयं हेतुकत्तुसञ्ञितो अत्थभेदो. पातुभावाति पातुभावतो. पुञ्ञसम्भारो भिन्नसन्तानताय रतनानम्पि परियायेन उपनिस्सयहेतूति वुत्तं. युत्तमेवेतं यथावुत्तयुत्तियुत्तत्ता.
वत्तब्बभूतो अधिप्पायो एतस्स अत्थीति अधिप्पायो, अत्थनिद्देसो, सङ्खेपतो अधिप्पायो सङ्खेपाधिप्पायो. चक्करतनानुभावेन चक्कवत्तिस्सरियस्स सिज्झनतो ‘‘दातुं समत्थस्सा’’ति वुत्तं. योजनप्पमाणे पदेसे पवत्तत्ता योजनप्पमाणं अन्धकारं. अतिदीघातिरस्सतादिं छब्बिधं दोसं विवज्जेत्वा ठितस्साति वचनसेसो.
सब्बेसं चतुभूमकधम्मानं पुरेचरं कुसलानं धम्मानं गतियो समन्वेसनवसेन पवत्तनतो. बुद्धादीहिपि अप्पहानीयताय महन्तधम्मसभावत्ता धम्मकाये च जेट्ठकट्ठेन धम्मकायूपपन्नं. पञ्ञापासादताय चस्स उपरिगतट्ठेन अच्चुग्गतं. वित्थतट्ठेन विपुलं. महन्तताय महन्तं. अनादिकालभावितस्स किलेससन्तानस्स खणेनेव विद्धंसनतो सीघं लहु जवन्ति परियाया. बोज्झङ्गधम्मपरियापन्नत्ता हि वुत्तं ‘‘एकन्त-कुसलत्ता’’ति. सम्पयुत्तवसेन पीतिया आलोकविद्धंसनभाववसेनाति वुत्तं ‘‘सहजातपच्चयादी’’तिआदि. सब्बसङ्गाहिकधम्मपरिच्छेदोति चतुभूमकत्ता सब्बसङ्गाहको बोज्झङ्गधम्मपरिच्छेदो कथितो.
४-१०. दुप्पञ्ञसुत्तादिवण्णना
२२५-२३१. एळं वुच्चति दोसो, एळेन मूगो वियाति एळमूगोति इममत्थं दस्सेन्तो ‘‘मुखेन वाच’’न्तिआदिमाह.
चक्कवत्तिवग्गवण्णना निट्ठिता.