२. गिलानवग्गो
१-३. पाणसुत्तादिवण्णना
१९२-१९४. येसन्ति येसं सत्तानं. चत्तारो इरियापथा अत्थि लब्भन्ति तदुपगसरीरावयवलाभेन. एतन्ति ‘‘चत्तारो इरियापथे कप्पेन्ती’’ति एतं वचनं. ‘‘विवेकनिस्सित’’न्तिआदिवचनतो ‘‘सहविपस्सनके मग्गबोज्झङ्गे’’इच्चेव वुत्तं. दुतियततियानि उत्तानत्थानेव हेट्ठा वुत्तनयत्ता.
४-१०. पठमगिलानसुत्तादिवण्णना
१९५-२०१. विसुद्धं अहोसि विसभागधातुक्खोभं वूपसमेन्तं. तेनाह – ‘‘पोक्खरपत्ते …पे… विनिवत्तित्वा गतो’’ति. एसेव नयो पाळितो अत्थतो च चतुत्थेन पञ्चमछट्ठानं समानत्ता. विसरुक्खवातसम्फस्सेनाति विसरुक्खसन्निस्सितवातसम्फस्सेन. मन्दसीतजरोति मुदुको सीतजरो. सेसन्ति वुत्तावसेसं. सब्बत्थाति सत्तमादीसु चतूसु.
गिलानवग्गवण्णना निट्ठिता.