४. वत्थसुत्तवण्णना
१८५. ‘‘सतिसम्बोज्झङ्गो’’ति एवं चे मय्हं होतीति सतिसम्बोज्झङ्गो नाम सेट्ठो उत्तमो पवरो, तस्माहं सतिसम्बोज्झङ्गसीसेन फलसमापत्तिं अप्पेत्वा विहरिस्सामीति एवं चे मय्हं पुब्बभागे होतीति अत्थो. ‘‘अप्पमाणो’’ति एवं मय्हं होतीति स्वायं सतिसम्बोज्झङ्गो, सब्बसो पमाणकरकिलेसाभावतो अप्पमाणधम्मारम्मणतो च अप्पमाणोति एवं मय्हं अन्तोसमापत्तियं असम्मोहवसेन होति. सुपरिपुण्णोति भावनापारिपूरिया सुट्ठु परिपुण्णोति एवं मय्हं अन्तोसमापत्तियं असम्मोहवसेन होतीति. तिट्ठतीति यथाकालपरिच्छेदसमापत्तिया अवट्ठानेन तप्परियापन्नताय सतिसम्बोज्झङ्गो तिट्ठति पटिबन्धवसेन. उप्पादं अनावज्जितत्ताति उप्पादस्स अनावज्जनेन असमन्नाहारेन. उप्पादसीसेन चेत्थ उप्पादवन्तोव सङ्खारा गहिता. अनुप्पादन्ति निब्बानं उप्पादाभावतो उप्पादवन्तेहि च विनिस्सटत्ता. पवत्तन्ति विपाकप्पवत्तं. अप्पवत्तन्ति निब्बानं तप्पटिक्खेपतो. निमित्तन्ति सब्बसङ्खारनिमित्तं. अनिमित्तन्ति निब्बानं. सङ्खारेति उप्पादादिअनामसनेन केवलमेव सङ्खारगहणं. विसङ्खारन्ति निब्बानं. आवज्जितत्ता आवज्जितकालतो पट्ठाय आरब्भ पवत्तिया सतिसम्बोज्झङ्गो तिट्ठति. अट्ठहाकारेहीति अट्ठहि कारणेहि. जानातीति समापत्तितो वुट्ठितकाले पजानाति. अट्ठहाकारेहीति उप्पादावज्जनादीहि चेव अनुप्पादावज्जनादीहि च वुत्ताकारविपरीतेहि अट्ठहि आकारेहि चवन्तं समापत्तिवसेन अनवट्ठानतोपि गच्छन्तं चवतीति थेरो पजानातीति.
फलबोज्झङ्गाति फलसमापत्तिपरियापन्ना बोज्झङ्गा. किं पन ते विसुं विसुं पवत्तन्तीति आह ‘‘यदा ही’’तिआदि. सीसं कत्वाति पधानं सेट्ठं कत्वा. तदन्वयाति तदनुगता सतिसम्बोज्झङ्गं अनुगच्छनका. तञ्च खो तथा कत्वा धम्मं पच्चवेक्खणवसेन. केचि पन ‘‘तं पच्चवेक्खणादिकं कत्वा’’ति वदन्ति.
वत्थसुत्तवण्णना निट्ठिता.