१. नच्चगीतसुत्तवण्णना

११५१. सङ्खेपतो ‘‘सब्बपापस्स अकरण’’न्तिआदिनयप्पवत्तं (दी.नि. २.९०; ध.प. १८३) भगवतो सासनं अच्चन्तछन्दरागपवत्तितो नच्चादीनं दस्सनं न अनुलोमेतीति आह ‘‘सासनस्स अननुलोमत्ता’’ति. अत्तना परेहि च पयोजियमानं पयोजापियमानञ्च एतेनेव नच्च-सद्देन गहितं, तथा गीतवादितसद्देहि चाति आह – ‘‘नच्चननच्चापनादिवसेना’’ति. आदि-सद्देन गायन-गायापन-वादन-वादापनादीनि सङ्गण्हाति. दस्सनेन चेत्थ सवनम्पि सङ्गहितं विरूपेकसेसनयेन. यथासकं विसयस्स आलोचनसभावताय वा पञ्चन्नं विञ्ञाणानं सवनकिरियायपि दस्सनसङ्खेपसब्भावतो ‘‘दस्सना’’इच्चेव वुत्तं. अविसूकभूतस्स गीतस्स सवनं कदाचि वट्टतीति आह – ‘‘विसूकभूता दस्सना चा’’ति. तथा हि वुत्तं परमत्थजोतिकाय खुद्दकअट्ठकथाय (खु. पा. अट्ठ. २.पच्छिमपञ्चसिक्खापदवण्णना) – ‘‘धम्मूपसंहितं गीतं वट्टति, गीतूपसंहितो धम्मो न वट्टती’’ति.