९. ततियआमकधञ्ञपेय्यालवग्गो

१. नच्चगीतसुत्तवण्णना

११५१. सङ्खेपतो ‘‘सब्बपापस्स अकरण’’न्तिआदिनयप्पवत्तं (दी.नि. २.९०; ध.प. १८३) भगवतो सासनं अच्चन्तछन्दरागपवत्तितो नच्चादीनं दस्सनं न अनुलोमेतीति आह ‘‘सासनस्स अननुलोमत्ता’’ति. अत्तना परेहि च पयोजियमानं पयोजापियमानञ्च एतेनेव नच्च-सद्देन गहितं, तथा गीतवादितसद्देहि चाति आह – ‘‘नच्चननच्चापनादिवसेना’’ति. आदि-सद्देन गायन-गायापन-वादन-वादापनादीनि सङ्गण्हाति. दस्सनेन चेत्थ सवनम्पि सङ्गहितं विरूपेकसेसनयेन. यथासकं विसयस्स आलोचनसभावताय वा पञ्चन्नं विञ्ञाणानं सवनकिरियायपि दस्सनसङ्खेपसब्भावतो ‘‘दस्सना’’इच्चेव वुत्तं. अविसूकभूतस्स गीतस्स सवनं कदाचि वट्टतीति आह – ‘‘विसूकभूता दस्सना चा’’ति. तथा हि वुत्तं परमत्थजोतिकाय खुद्दकअट्ठकथाय (खु. पा. अट्ठ. २.पच्छिमपञ्चसिक्खापदवण्णना) – ‘‘धम्मूपसंहितं गीतं वट्टति, गीतूपसंहितो धम्मो न वट्टती’’ति.

२. उच्चासयनसुत्तवण्णना

११५२. उच्चाति उच्च-सद्देन समानत्थं एकं सद्दन्तरं. सेति एत्थाति सयनं, उच्चासयनं महासयनञ्च समणसारुप्परहितं पटिक्खित्तन्ति आह – ‘‘पमाणातिक्कन्तं अकप्पियत्थरण’’न्ति. आसन्दादिआसनञ्चेत्थ सयनेनेव सङ्गहितं. यस्मा पन आधारे पटिक्खित्ते तदाधारकिरिया पटिक्खित्ताव होति, तस्मा ‘‘उच्चासयनमहासयना’’इच्चेव वुत्तं. अत्थतो पन तदुपभोगभूतनिसज्जानिपज्जनेहि विरति दस्सिताति दट्ठब्बं. अथ वा उच्चासयनमहासयनञ्च उच्चासयनमहासयनञ्चाति उच्चासयनमहासयनन्ति एतस्मिं अत्थे एकसेसनयेन अयं निद्देसो कतो यथा – ‘‘नामरूपपच्चया सळायतन’’न्ति (उदा. १). आसनकिरियापुब्बकत्ता वा सयनकिरियाय सयनग्गहणेनेव आसनम्पि गहितन्ति दट्ठब्बं.

३. जातरूपसुत्तवण्णना

११५३. अञ्ञेपि उग्गहापने उपनिक्खित्तसादियने च पटिग्गहणत्थो लब्भतीति आह – ‘‘न उग्गण्हापेन्ति, न उपनिक्खित्तं सादियन्ती’’ति. अथ वा तिविधं पटिग्गहणं कायेन वाचाय मनसाति. तत्थ कायेन पटिग्गहणं उग्गहणं, वाचाय पटिग्गहणं उग्गहापणं, मनसा पटिग्गहणं सादियनं. तिविधम्पि पटिग्गहणं सामञ्ञनिद्देसेन, एकसेसनयेन वा गहेत्वा ‘‘पटिग्गहणा’’ति वुत्तन्ति आह – ‘‘नेव नं उग्गण्हन्ती’’तिआदि. एस नयो ‘‘आमकधञ्ञपटिग्गहणा’’तिआदीसुपि.

४. आमकधञ्ञसुत्तवण्णना

११५४. नीवारादिउपधञ्ञस्स सालिआदिमूलधञ्ञन्तोगधत्ता वुत्तं ‘‘सत्तविधस्सा’’ति.

५. आमकमंससुत्तवण्णना

११५५. ‘‘अनुजानामि, भिक्खवे, पञ्च वसानि भेसज्जानि – अच्छवसं, मच्छवसं, सुसुकावसं, सूकरवसं, गद्रभवस’’न्ति (महाव. २६२; पारा. अट्ठ. ६२३) वुत्तत्ता इदं उद्दिस्स अनुञ्ञातं नाम. तस्स पन ‘‘काले पटिग्गहित’’न्ति (महाव. २६२) वुत्तत्ता पटिग्गहणं वट्टतीति आह – ‘‘अञ्ञत्र उद्दिस्स अनुञ्ञाता’’ति. विनयवसेन उपपरिक्खितब्बो, तस्मा समन्तपासादिकाय विनयट्ठकथाय वुत्तनयेनेत्थ विनिच्छयो वेदितब्बो.