५. सगाथकपुञ्ञाभिसन्दवग्गो

१. पठमअभिसन्दसुत्तवण्णना

१०३७. सङ्ख्या अत्थि हेट्ठा महापथविया, उपरि आकासेन, परितो चक्कवाळपब्बतेन, मज्झे तत्थ तत्थ ठितेहि दीपपब्बतपरियन्तेहि परिच्छिन्नत्ता. जानन्तेन योजनतो सङ्खातुं सक्काति अधिप्पायो. महासरीरमच्छ-कुम्भील-यक्ख-रक्खस-महानागदानवादीनं सविञ्ञाणकानं, बळवामुखपातालादीनं अविञ्ञाणकानं भेरवारम्मणानं वसेन बहुभेरवं.

२. दुतियअभिसन्दसुत्तवण्णना

१०३८. सम्भेदेति सम्भेदं समोधानं गतट्ठाने. यत्थिमा महानदियो संसन्दन्ति समेन्तीति परिकप्पवचनमेतं. तादिसासु हि महानदीसु काचि पुरत्थिमसमुद्दं पविट्ठा, काचि पच्छिमं.

३. ततियअभिसन्दसुत्तवण्णना

१०३९. ‘‘कुसले पतिट्ठितो’’ति एत्थ यं अच्चन्तिकं कुसले पतिट्ठानं. तं दस्सेन्तो ‘‘मग्गकुसले पतिट्ठितो’’ति आह, हेट्ठिममग्गकुसलेति अधिप्पायो. तेनाह ‘‘भावेति मग्ग’’न्ति. अरियफलंयेव धम्मसारो. किलेसा खीयन्ति एत्थाति किलेसक्खयो, निब्बानं, तस्मिं किलेसक्खये रतो.

४. पठममहद्धनसुत्तवण्णना

१०४०. अरियानं बुद्धानं धनन्तिपि अरियधनं, निब्बानन्ति केचि. अनयतोपि विसुद्धट्ठेन अरियञ्च तं धनञ्च धनायितट्ठेनाति अरियधनं, तेन अरियधनेन. तेनेव भोगेनाति अरियधनभोगेन.

सगाथकपुञ्ञाभिसन्दवग्गवण्णना निट्ठिता.