१. चक्कवत्तिराजसुत्तवण्णना

९९७. अनुग्गहगरहणेसु निपातोति अनुग्गण्हनगरहत्थजोतको निपातो. किमेत्थ अनुग्गण्हाति, किं वा गरहतीति आह ‘‘चतुन्न’’न्तिआदि. तत्थ अनुग्गण्हन्तो अनुच्छविकं कत्वा गण्हन्तो. गरहन्तो निन्दन्तो. इस्सरसीलो इस्सरो, तस्स भावो इस्सरियं, पभुता. अधीनं पति अधिपति, तस्स भावो आधिपच्चं, सामिभावोति आह – ‘‘इस्सरियाधिपच्च’’न्तिआदि. अनन्तकानीति अन्तरहितानि.

अवेच्चप्पसादेनाति वत्थुत्तयस्स गुणे याथावतो अवेच्च पविसित्वा पसादो. सो पन केनचि चलनरहितोति आह ‘‘अचलप्पसादेना’’ति. मग्गेनाति अरियमग्गेन. आगतप्पसादो तस्स अधिगमेन लद्धप्पसादो. अपुब्बं अचरिमन्ति एकज्झं. अरियसावकानञ्हि अरियमग्गो उप्पज्जन्तोव तीसु वत्थूसु अवेच्चप्पसादं आवहन्तो एव उप्पज्जति. तेसन्ति विसयभूतानं तिण्णं वत्थूनं वसेन तिधा वुत्तो. यस्मा च अत्थतो एको, तस्माव निन्नानाकरणो होति पवत्तट्ठानभेदे सतिपि. अरियसावकस्स हीतिआदिना नयेन तमत्थं विवरति. पसादो ओकप्पना. पेमं भत्ति. गारवं गरुकरणं. महन्तं उळारं. एतं विभागेन नत्थि सब्बत्थ समानत्ता.

एवन्ति भवन्तरेपि अकोपनीयताय. सदिसवसेनाति अञ्ञेहि अखण्डादीहि सदिसवसेन. तेनाह ‘‘मुखवट्टि यञ्हि छिन्ने’’तिआदि. खण्डा एतिस्सा अत्थीति खण्डा. एस नयो सेसेसुपि. पातिमोक्खे आगतानुक्कमेन सीलस्स आदिमज्झविभागो वेदितब्बो. द्विन्नं वा तिण्णं वाति सीलकोट्ठासानं. एकन्तरं भिन्नन्ति अभिन्नेन एकन्तरं हुत्वा भिन्नं. तेसं खण्डादीनं. ‘‘भुजिस्सेही’’ति उत्तरपदलोपेन निद्देसोति आह ‘‘भुजिस्सभावकरेही’’ति. इदं वीतिक्कन्तन्ति इदम्पि सीलं वीतिक्कन्तं. ‘‘अयं सीलस्स वीतिक्कमो’’ति एवं परामसितुं असक्कुणेय्येहि.