१. वेळुद्वारवग्गो
१. चक्कवत्तिराजसुत्तवण्णना
९९७. अनुग्गहगरहणेसु निपातोति अनुग्गण्हनगरहत्थजोतको निपातो. किमेत्थ अनुग्गण्हाति, किं वा गरहतीति आह ‘‘चतुन्न’’न्तिआदि. तत्थ अनुग्गण्हन्तो अनुच्छविकं कत्वा गण्हन्तो. गरहन्तो निन्दन्तो. इस्सरसीलो इस्सरो, तस्स भावो इस्सरियं, पभुता. अधीनं पति अधिपति, तस्स भावो आधिपच्चं, सामिभावोति आह – ‘‘इस्सरियाधिपच्च’’न्तिआदि. अनन्तकानीति अन्तरहितानि.
अवेच्चप्पसादेनाति वत्थुत्तयस्स गुणे याथावतो अवेच्च पविसित्वा पसादो. सो पन केनचि चलनरहितोति आह ‘‘अचलप्पसादेना’’ति. मग्गेनाति अरियमग्गेन. आगतप्पसादो तस्स अधिगमेन लद्धप्पसादो. अपुब्बं अचरिमन्ति एकज्झं. अरियसावकानञ्हि अरियमग्गो उप्पज्जन्तोव तीसु वत्थूसु अवेच्चप्पसादं आवहन्तो एव उप्पज्जति. तेसन्ति विसयभूतानं तिण्णं वत्थूनं वसेन तिधा वुत्तो. यस्मा च अत्थतो एको, तस्माव निन्नानाकरणो होति पवत्तट्ठानभेदे सतिपि. अरियसावकस्स हीतिआदिना नयेन तमत्थं विवरति. पसादो ओकप्पना. पेमं भत्ति. गारवं गरुकरणं. महन्तं उळारं. एतं विभागेन नत्थि सब्बत्थ समानत्ता.
एवन्ति भवन्तरेपि अकोपनीयताय. सदिसवसेनाति अञ्ञेहि अखण्डादीहि सदिसवसेन. तेनाह ‘‘मुखवट्टि यञ्हि छिन्ने’’तिआदि. खण्डा एतिस्सा अत्थीति खण्डा. एस नयो सेसेसुपि. पातिमोक्खे आगतानुक्कमेन सीलस्स आदिमज्झविभागो वेदितब्बो. द्विन्नं वा तिण्णं वाति सीलकोट्ठासानं. एकन्तरं भिन्नन्ति अभिन्नेन एकन्तरं हुत्वा भिन्नं. तेसं खण्डादीनं. ‘‘भुजिस्सेही’’ति उत्तरपदलोपेन निद्देसोति आह ‘‘भुजिस्सभावकरेही’’ति. इदं वीतिक्कन्तन्ति इदम्पि सीलं वीतिक्कन्तं. ‘‘अयं सीलस्स वीतिक्कमो’’ति एवं परामसितुं असक्कुणेय्येहि.
२. ब्रह्मचरियोगधसुत्तवण्णना
९९८. येसन्ति अनियमतो सद्धादीनमाधारभूतपुग्गलदस्सनं. बुद्धे पसादो गहितो. सो हि इतरेहि पठमं गहेतब्बोति. अरियकन्तानि सीलानि गहितानि सोतापन्नस्स सीलानं अधिप्पेतत्ता. सङ्घे पसादो गहितो धम्मप्पसादस्स अनन्तरं वुच्चमानत्ता. धम्मे पसादो गहितो अवेच्चप्पसादभावतो. सोतं अरियमग्गं आदितो पत्ति सोतापत्ति, तस्सा अङ्गानि सोतापत्तियङ्गानि. पच्चेन्तीति पजायन्ति अधिगच्छन्ति. तेनाह ‘‘पापुणन्ती’’ति. ब्रह्मचरियन्ति मग्गब्रह्मचरियं. कतरपसादो वत्तमानोति अधिप्पायो. मग्गप्पसादोति मग्गसम्पयुत्तो पसादो. आगतमग्गस्साति अधिगतमग्गस्स. मिस्सकप्पसादो एसोति तस्मा उभोपि थेरा पण्डिता बहुस्सुता.
३. दीघावुउपासकसुत्तवण्णना
९९९. यदग्गेन तस्मिं उपासके यथावुत्तानि सोतापत्तियङ्गानि संविज्जन्ति, तदग्गेन सो तेसु वत्तिस्सतीति आह ‘‘चतूसु सोतापत्तियङ्गेसु सन्दिस्ससी’’ति. विज्जं भजन्तीति विज्जाभागिया, तेसु कोट्ठासेसु परियापन्नाति वुत्तं ‘‘विज्जाभागियेति विज्जाकोट्ठासिके’’ति.
४-५. पठमसारिपुत्तसुत्तादिवण्णना
१०००-१००१. ‘‘सोतापत्ती’’ति पठममग्गो अधिप्पेतो, तस्स अधिगमूपायो सोतापत्तियङ्गं. तेनाह ‘‘सोतापत्तिया पुब्बभागपटिलाभङ्ग’’न्ति. सोतापत्तिअत्थायाति सोतापत्तिमग्गत्थाय. अङ्गन्ति कारणं. इतरे रतनत्तयप्पसादादयो. पुब्बभागियाय सोतापत्तिया अङ्गं कारणन्ति.
६. थपतिसुत्तवण्णना
१००२. (वितानं कायानं कालनकाय, कारणस्स उपगतानं सातपरिया सिज्झति. तत्थ कायपरिपज्झायमुखेन तन्तिं ठपेसि भगवा. न हि पस्सथ नमत्थेहि करणे निरत्थको पिति वत्तति. ‘‘नियतत्ता’’ति वुत्तं. तमेव नियमं ‘‘मज्झिमपदेसेयेवा’’ति अवधारणेन विभावेति. महामण्डलचारिकं चरन्तोपि मज्झिमपदेसस्स अन्तन्तेनेव चरति. तत्थ च विनेय्यजनस्स समोसरणता मत्तपनवाचमहत्थसुपनन्ति.) [एत्थन्तरे पाठो असुद्धो दुस्सोधनीयो च, सुद्धपाठो गवेसितब्बो.] अरुणुट्ठापनम्पि तत्थेव होति. पच्चन्तपदेसे पन दूरे विनेय्यजना होन्ति, तत्थ गन्त्वा मग्गफलेसु पतिट्ठापेत्वा ततो पच्चागन्त्वा मज्झिमपदेसे एव वासं उपगच्छति, तत्थ मनुस्सेहि कतानं कारानं महप्फलभावनियमनत्थन्ति दट्ठब्बं. ‘‘आसन्ने नो भगवा’’ति इदं निदस्सनमत्तन्ति दस्सेन्तो ‘‘न केवल’’न्ति आदिमाह.
सकिञ्चनसपलिबोधनट्ठेनाति एत्थ किञ्चनं पलिबोधो असमापितकिच्चता, तदुभयस्स अत्थिभावेनाति अत्थो. महावासेति महागेहे.
द्वेपि जनाति इसिदत्तपुराणा. सितं नाम मन्दहसितं. हसितं नाम विस्सट्ठहसितं. मुत्तचागोतिआदीसु यं वत्तब्बं, तं विसुद्धिमग्गटीकायं (विसुद्धि. महाटी. १.१६०) वुत्तनयेन वेदितब्बं. संविभागेति परस्स दानवसेन संविभजने. अकतविभागन्ति देय्यधम्मवसेन न कतविभागं. पुग्गलवसेन पन ‘‘सीलवन्तेही’’ति वुत्तत्ता कतविभागमेव महप्फलताकरणेन. तेनाह ‘‘सब्बं दातब्बमेव हुत्वा ठित’’न्ति.
(एत्थन्तरे पाठो असुद्धो दुस्सोधनीयो च, सुद्धपाठो गवेसितब्बो.)
७. वेळुद्वारेय्यसुत्तवण्णना
१००३. पवेणिआगतस्साति अनेकपुरिसयुगवसेन परम्परागतस्स. अत्तनि उपनेतब्बन्ति अत्तनि नेत्वा परस्मिं उपनेतब्बं. तेनाह ‘‘यो खो म्यायं धम्मो अप्पियो अमनापो, परस्सपेसो धम्मो अप्पियो अमनापो’’तिआदि. अमन्तभासेनाति सम्फस्स सम्फप्पलापस्स अमन्ताय मन्तारहितभासनेन.
८-९. पठमगिञ्जकावसथसुत्तादिवण्णना
१००४-५. द्वे गामा द्विन्नं ञातीनं गामाति कत्वा. ञातिकेति एवंलद्धनामे एकस्मिं गामके. गिञ्जकावसथेति गिञ्जका वुच्चन्ति इट्ठका, गिञ्जकाहि एव कतो आवसथो, तस्मिं. सो किर आवासो यथा सुधाहि परिकम्मेन पयोजनं नत्थि, एवं इट्ठकाहि एव चिनित्वा कतो. तेन वुत्तं ‘‘इट्ठकामये आवसथे’’ति. तुलाथम्भद्वारबन्धकवाटफलकानि पन दारुमया एव. ओरं वुच्चति कामधातु, पच्चयभावेन तं ओरं भजन्तीति ओरम्भागियानि, ओरम्भागस्स वा हितानि ओरम्भागियानि. तेनाह ‘‘हेट्ठाभागियान’’न्तिआदि. तीहि मग्गेहीति हेट्ठिमेहि तीहि मग्गेहि. तेहि पहातब्बताय हि तेसं सञ्ञोजनानं ओरम्भागियता, ओरं भञ्जियानि वा ओरम्भागियानि वुत्तानि निरुत्तिनयेन. इदानि ब्यतिरेकमुखेन नेसं ओरम्भागियभावं विभावेतुं ‘‘तत्था’’तिआदि वुत्तं. विक्खम्भितानि समत्थताविघातेन पुथुज्जनानं, समुच्छिन्नानि सब्बसो अभावेन अरियानं रूपारूपभवूपपत्तिया विबन्धनाय न होन्तीति वुत्तं ‘‘अविक्खम्भितानि मग्गेन वा असमुच्छिन्नानी’’ति. निब्बत्तिवसेनाति पटिसन्धिग्गहणवसेन गन्तुं न देन्ति. महग्गतभवगामिकम्मायूहनस्स विबन्धनतो सक्कायदिट्ठिआदीनि तीणि सञ्ञोजनानि कामच्छन्दब्यापादा विय महग्गतभवूपपत्तिया विसेसपच्चयत्ता तत्थ महग्गतभवे निब्बत्तम्पि तन्निब्बत्तिहेतुकम्मपरिक्खये कामभवूपपत्तिपच्चयताय महग्गतभवतो आनेत्वा इधेव कामभवे एव निब्बत्तापेन्ति. तस्मा सब्बानिपि पञ्चपि संयोजनानि ओरम्भागियानेव. पटिसन्धिवसेन अनागमनसभावोति पटिसन्धिग्गहणवसेन तस्मा लोका इध न आगमनसभावो. बुद्धदस्सन-थेरदस्सन-धम्मस्सवनानं पन अत्थाय अस्स आगमनं अनिवारितं.
कदाचि उप्पत्तिया विरळाकारता, परियुट्ठानमन्दताय अबहलताति द्वेधापि तनुभावो. अभिण्हन्ति बहुसो. बहलबहलाति तिब्बतिब्बा. यत्थ उप्पज्जन्ति, तं सन्तानं मद्दन्ता फरन्ता साधेन्ता अन्धकारं करोन्ता उप्पज्जन्ति, द्वीहि पन मग्गेहि पहीनत्ता तनुकतनुका मन्दमन्दा उप्पज्जन्ति. पुत्तधीतरो होन्तीति इदं अकारणं. तथा हि अङ्गपच्चङ्गपरामसनमत्तेनपि ते होन्ति. इदन्ति ‘‘रागदोसमोहानं तनुत्ता’’ति इदं वचनं. भवतनुकवसेनाति अप्पकभववसेन. तन्ति महासीवत्थेरस्स वचनं पटिक्खित्तन्ति सम्बन्धो. ये भवा अरियानं लब्भन्ति, ते परिपुण्णलक्खणभवा एव. ये न लब्भन्ति, तत्थ कीदिसं तं भवतनुकं. तस्मा उभयथापि भवतनुकस्स असम्भवो एवाति दस्सेतुं ‘‘सोतापन्नस्सा’’तिआदि वुत्तं. अट्ठमे भवे भवतनुकं नत्थि अट्ठमस्सेव भवस्स सब्बस्सेव अभावतो. सेसेसुपि एसेव नयो.
कामावचरलोकं सन्धाय वुत्तं इतरस्स लोकस्स वसेन तथा वत्तुं असक्कुणेय्यत्ता. यो हि सकदागामी देवमनुस्सलोकेसु वोमिस्सकवसेन निब्बत्तति, सोपि कामभववसेनेव परिच्छिन्दितब्बो. भगवता च कामलोके ठत्वा – ‘‘सकिदेव इमं लोकं आगन्त्वा’’ति वुत्तं. इमं लोकं आगन्त्वाति च इमिना पञ्चसु सकदागामीसु चत्तारो वज्जेत्वा एकोव गहितो. एकच्चो हि इध सकदागामिफलं पत्वा इधेव परिनिब्बायति, एकच्चो इध पत्वा देवलोके परिनिब्बायति, एकच्चो देवलोके पत्वा तत्थेव परिनिब्बायति, एकच्चो देवलोके पत्वा इधूपपज्जित्वा परिनिब्बायति, इमे चत्तारो इध न लब्भन्ति. यो पन इध पत्वा देवलोके यावतायुकं वसित्वा पुन इधूपपज्जित्वा परिनिब्बायति, अयमिध अधिप्पेतो. अट्ठकथायं पन ‘‘इमं लोकन्ति कामभवो अधिप्पेतो’’ति इममत्थं विभावेतुं ‘‘सचे ही’’तिआदिना अञ्ञंयेव चतुक्कं दस्सितं.
चतूसु…पे… सभावोति अत्थो अपायगमनीयानं पापधम्मानं सब्बसो पहीनत्ता. धम्मनियामेनाति मग्गधम्मनियामेन नियतो उपरिमग्गाधिगमस्स अवस्संभाविभावतो. तेनाह ‘‘सम्बोधिपरायणो’’ति. तेसं तेसं ञाणगतिन्ति तेसं तेसं सत्तानं ‘‘असुको सोतापन्नो, असुको सकदागामी’’तिआदिना तंतंञाणाधिगमनं ञाणूपपत्तिं. ञाणाभिसम्परायन्ति ततो परम्पि – ‘‘नियतो सम्बोधिपरायणो सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करिस्सती’’तिआदिना ञाणसहितं उपपत्तिपच्चयभवं. ओलोकेन्तस्स ञाणचक्खुना अपेक्खन्तस्स. केवलं कायकिलमथोव, न तेन काचि परेसं अत्थसिद्धीति अधिप्पायो. चित्तविहेसा चित्तखेदो, सा किलेसूपसंहितत्ता बुद्धानं नत्थि.
आदिस्सति आलोकीयति अत्ता एतेनाति आदासं, धम्मभूतं आदासं धम्मादासं, अरियमग्गञाणस्सेतं अधिवचनं. तेन हि अरियसावको चतूसु अरियसच्चेसु विद्धस्तसम्मोहत्ता अत्तानं याथावतो ञत्वा याथावतो ब्याकरेय्य, तप्पकासनतो पन धम्मपरियायस्स सुत्तस्स धम्मादासता वेदितब्बाति. येन धम्मादासेनाति इध पन मग्गधम्ममेव वदति. सेसं उत्तानत्थत्ता सुविञ्ञेय्यमेवाति.
वेळुद्वारवग्गवण्णना निट्ठिता.