२. राजकारामवग्गो

१. सहस्सभिक्खुनिसङ्घसुत्तवण्णना

१००७. धम्मिकत्ता देसवासीहि अनुकम्पितो राजाति राजको, तस्स आरामो राजकारामो, तस्मिं. भूमिसीसं सेट्ठप्पदेसो, यत्थ वसन्तो लाभग्गयसग्गप्पत्तो होतीति तेसं अधिप्पायो.

वारापेहीति पटिसेधेहि. युज्झापेतुन्ति कलहं कारापेतुं. पुन आगच्छन्ताति अपरस्मिं संवच्छरे आगच्छन्ता. उब्बट्टेत्वाति महती वीचियो उब्बट्टेत्वा. यथा तस्स सकलमेव रट्ठं एकोदकीभूतं होति, एवं कत्वा समुद्दमेव जातं. तेन वुत्तं ‘‘समुद्दमेव अकंसू’’ति.

इसीनमन्तरं कत्वाति इसीनं कारणं कत्वा, इसीनं हेतूति अत्थो, इसीनं वा अन्तरभेदं कत्वा. तथा लोके कोलाहलस्स पत्थटतं विभावेन्तो भगवा ‘‘मे सुत’’न्ति आह पच्चक्खतो जानम्पि. उच्छिन्नोति कुलच्छेदेन उच्छिन्नो. न केवलं सयमेव, अथ खो सह रट्ठेहि. विभवन्ति विनासं उपगतो.

तं सन्धायेतं वुत्तन्ति तं यथावुत्तं पसेनदिना कोसलराजेन कारितं विहारं सन्धाय एतं ‘‘राजकारामे’’ति वुत्तं.

२-३. ब्राह्मणसुत्तादिवण्णना

१००८-९. उदयगामिनिन्ति आरम्भतो पट्ठाय सम्पत्तिआवहं.

४. दुग्गतिभयसुत्तवण्णना

१०१०. दुट्ठा गति निप्फत्ति दुग्गति, दुग्गतभावो दालिद्दियं, तदेव भयं, तं सब्बं अनवसेसं वा दुग्गतिभयं दलिद्दभयं. सम्मदेव अतिक्कन्तोति समतिक्कन्तो.

६. पठममित्तामच्चसुत्तवण्णना

१०१२. वोहारमित्ताति तंतंदानग्गहणवसेन वोहारका मित्ता. आमन्तनपटिमन्तनइरियापथादीसुपीति आलापसल्लापगमननिसज्जादिअत्थसंविधानादीसु. एकतो पवत्तकिच्चाति सह पवत्तकत्तब्बा. अमा सह भवन्तीति अमच्चा. ‘‘अम्हाकं इमे’’ति ञायन्तीति ञाती, आवाहविवाहसम्बद्धा. तेनाह ‘‘सस्सुससुरपक्खिका’’ति. योनिसम्बन्धा वा सालोहिता. तेनाह ‘‘भातिभगिनिमातुलादयो’’ति.

७. दुतियमित्तामच्चसुत्तवण्णना

१०१३. किस्मिञ्चि कस्सचि च तथा तथा उप्पन्नस्स पसादस्स अञ्ञथाभावो पसादञ्ञथत्तं. भूतसङ्घातस्स घनआदिकस्स अञ्ञथाभावो भावञ्ञथत्तं. निरयादिगतिअन्तरउपपत्ति गतिअञ्ञथत्तं. सभावधम्मानं कक्खळफुसनादिलक्खणस्स अञ्ञथाभावो लक्खणञ्ञथत्तं. ‘‘ठितस्स अञ्ञथत्तं पञ्ञायती’’ति एवं वुत्तं अञ्ञथत्तं विपरिणामञ्ञथत्तं. लक्खणञ्ञथत्तं न लब्भति. तेनाह ‘‘लक्खणं पन न विगच्छती’’ति, सेसं लब्भतीति. पथवीधातुयाति ससम्भारपथवीधातुया. आपोधातुयाति एत्थापि एसेव नयो. पुरिमभावोति घनकठिनभावो. भावञ्ञथत्तं रसञ्ञथत्तसभावो. गतिअञ्ञथत्तं उग्गतूपपत्ति. तेनाह ‘‘तञ्हि अरियसावकस्स नत्थी’’ति. पसादञ्ञथत्तम्पि नत्थियेव अरियसावकस्स.

राजकारामवग्गवण्णना निट्ठिता.