८. पदीपोपमसुत्तवण्णना

९८४. ‘‘नेव कायोपि किलमति न चक्खूनी’’ति अट्ठकथायं पदुद्धारो कतो. ‘‘कायोपि किलमति, चक्खूनिपि विहञ्ञन्ती’’ति वत्वा यत्थ यथा होति, तानि दस्सेतुं ‘‘धातुकम्मट्ठानस्मिं ही’’तिआदि वुत्तं. चक्खूनि फन्दन्ति किलमन्तीतिआदि अतिवेलं उपनिज्झायने होतीति कत्वा वुत्तं. इमस्मिं पन कम्मट्ठानेति आनापानकम्मट्ठाने. एवमाहाति ‘‘भिक्खु चेपि आकङ्खेय्य, नेव कायो किलमेय्या’’ति एवमाह.

लब्भतीति अट्ठकथाधिप्पाये ठत्वा वुत्तं, परतो आगतेन थेरवादेन सो अनिच्छितो. न हि तारकरूपमुत्तावळिकादिसदिसं निमित्तूपट्ठानाकारमत्तं खणमत्तट्ठायिनं कसिणनिमित्तेसु विय उग्घाटनं कातुं सक्कोति. तेनाह ‘‘न लब्भतेवा’’ति. आनिसंसदस्सनत्थं गहितो, आनापानस्सतिसमाधिस्मिं सिद्धे अयं गुणो सुखेनेव इज्झतीति. यस्मा भिक्खूति इमस्मिं वारे नागतन्ति यथा पुरिमवारे ‘‘भिक्खु चेपि आकङ्खेय्या’’ति आगतं, एवं इध ‘‘भाविते खो, भिक्खवे, आनापानस्सतिसमाधिम्ही’’ति आगतवारे भिक्खुग्गहणमकतं, तस्मा ‘‘सो’’ति न वुत्तं.