९. वेसालीसुत्तवण्णना

९८५. पाकारपरिक्खेपवड्ढनेनाति पाकारपरिक्खेपेन भूमिया वड्ढनेन. राजगहसावत्थियो विय इदम्पि च नगरं…पे… सब्बाकारवेपुल्लतं पत्तं. अनेकपरियायेनाति एत्थ परियायसद्दो कारणवचनोति आह ‘‘अनेकेहि कारणेही’’ति, अयं कायो अविञ्ञाणकोपि सविञ्ञाणकोपि एवम्पि असुभो एवम्पि असुभोति नानाविधेहि कारणेहीति अत्थो. असुभाकारसन्दस्सनप्पवत्तन्ति केसादिवसेन तत्थापि वण्णादितो असुभाकारस्स सब्बसो दस्सनवसेन पवत्तं. कायविच्छन्दनीयकथन्ति अत्तनो परस्स च करजकाये विच्छन्दनुप्पादनकथं. मुत्तं वातिआदिना ब्यतिरेकमुखेन कायस्स अमनुञ्ञतं दस्सेति. तत्थ आदितो तीहि पदेहि अदस्सनीयताय असारकताय च, मज्झे चतूहि दुग्गन्धताय, अन्ते एकेन लेसमत्तेनपि मनुञ्ञताभावमस्स दस्सेति. अथ खोतिआदिना अन्वयतो सरूपेनेव अमनुञ्ञताय दस्सनं. ‘‘केसलोमादी’’ति सङ्खेपतो वुत्तमत्थं विभागेन दस्सेतुं ‘‘येपी’’तिआदि वुत्तं.

वण्णेन्तोति वित्थारेन्तो. असुभायाति असुभमातिकाय. फातिकम्मन्ति बहुलीकारो. किलेसचोरेहि अनभिभवनीयत्ता झानं ‘‘चित्तमञ्जूस’’न्ति वुत्तं. निस्सायाति पादकं कत्वा.

अपरे पन ‘‘तस्मिं किर अद्धमासे न कोचि बुद्धवेनेय्यो अहोसि, तस्मा भगवा एवमाह – ‘इच्छामहं, भिक्खवे’तिआदी’’ति वदन्ति. परे किराति किर-सद्दो अरुचिसंसूचनत्थो. तेनाह ‘‘इदं पन इच्छामत्त’’न्ति.

अनेककारणसम्मिस्सोति एत्थ कारणं नाम कायस्स असुचिदुग्गन्धजेगुच्छपटिकूलताव. सब्बमकंसूति पुथुज्जना नाम सावज्जेपि तत्थ अनवज्जसञ्ञिनो हुत्वा करणकारापनसमनुञ्ञताभेदं सब्बं पापं अकंसु. कामं दसानुस्सतिग्गहणेनेव आनापानस्सति गहिता, सा पन तत्थ सन्निपतितभिक्खूसु बहूनं सप्पाया सात्थिका च, तस्मा पुन गहिता. तथा हि भगवा तमेव कम्मट्ठानं इमस्मिं सुत्ते कथेसि. आहारे पटिकूलसञ्ञा असुभकम्मट्ठानसदिसा, चत्तारो पन आरुप्पा आदिकम्मिकानं अयोग्याति तेसं इध अग्गहणं दट्ठब्बं.

वेसालिं उपनिस्सायाति वेसालीनगरं गोचरगामं कत्वा. मुहुत्तेनेवाति सत्थरि सद्धम्मे च गारवेन उपगतभिक्खूनं वचनसमनन्तरमेव उट्ठहिंसूति कत्वा वुत्तं. बुद्धकाले किर भिक्खू भगवतो सन्देसं सिरसा सम्पटिच्छितुं ओहितसोता विहरन्ति.

आनापानपरिग्गाहिकायाति अस्सासपस्सासे परिग्गण्हनवसेन पवत्ताय सतिया. सम्पयुत्तो समाधीति ताय सम्पयुत्तअञ्ञमञ्ञपच्चयभूताय उप्पन्नो समाधि. आनापानस्सतियं वा समाधीति इमिना उपनिस्सयपच्चयसभावम्पि दस्सेति, उभयत्थापि सहजातादीनं सत्तन्नम्पि पच्चयानं वसेन पच्चयभावं दस्सेति. ‘‘यथापटिपन्ना मे सावका चत्तारो सतिपट्ठाने भावेन्ती’’तिआदीसु उप्पादनवड्ढनट्ठेन भावनाति वुच्चतीति तदुभयवसेन अत्थं दस्सेन्तो ‘‘भावितोति उप्पादितो वड्ढितो वा’’ति आह. तत्थ भावं विज्जमानतं इतो गतोति भावितो, उप्पादितो पटिलद्धमत्तोति अत्थो. उप्पन्नो पन लद्धासेवनो भावितो, पगुणभावं आपादितो वड्ढितोति अत्थो. बहुलीकतोति बहुलं पवत्तितो. तेन आवज्जनादिवसीभावप्पत्तिमाह. यो हि वसीभावमापादितो, सो इच्छितिच्छितक्खणे समापज्जितब्बतो पुनप्पुनं पवत्तिस्सति. तेन वुत्तं ‘‘पुनप्पुनं कतो’’ति. यथा ‘‘इधेव, भिक्खवे, समणो (म. नि. १.१३९; अ. नि. ४.२४१), विविच्चेव कामेही’’ति (दी. नि. १.२२६; म. नि. १.२७१; सं. नि. २.१५२; अ. नि. ४.१२३) च एवमादीसु पठमपदे वुत्तो एव-सद्दो दुतियादीसुपि वुत्तोयेव होति, एवमिधापीति आह ‘‘उभयत्थ एवसद्देन नियमो वेदितब्बो’’ति. उभयत्थ नियमेन लद्धगुणं दस्सेतुं ‘‘अयं ही’’तिआदि वुत्तं.

असुभकम्मट्ठानन्ति असुभारम्मणं झानमाह. तञ्हि असुभेसु योगकम्मभावतो योगिनो सुखविसेसानं कारणभावतो च ‘‘असुभकम्मट्ठान’’न्ति वुच्चति. केवलन्ति इमिना आरम्मणं निवत्तेति. पटिवेधवसेनाति झानपटिवेधवसेन. झानञ्हि भावनाविसेसेन इज्झन्तं अत्तनो विसयं पटिविज्झन्तमेव पवत्तति यथासभावतो पटिविज्झियति चाति पटिवेधोति वुच्चति. ओळारिकारम्मणत्ताति बीभच्छारम्मणत्ता. पटिकूलारम्मणत्ताति जिगुच्छितब्बारम्मणत्ता. परियायेनाति कारणेन, लेसन्तरेन वा. आरम्मणसन्ततायाति अनुक्कमेन विचितब्बतं पत्तारम्मणस्स परमसुखुमतं सन्धायाह. सन्तेहि सन्निसिन्ने आरम्मणे पवत्तमानो धम्मो सयम्पि सन्निसिन्नोव होति. तेनाह ‘‘सन्तो वूपसन्तो निब्बुतो’’ति, निब्बुतसब्बपरिळाहोति अत्थो. आरम्मणसन्तताय तदारम्मणानं धम्मानं सन्तता लोकुत्तरधम्मारम्मणाहि पच्चवेक्खणाहि वेदितब्बा.

नास्स सन्तपणीतभावावहं किञ्चि सेचनन्ति असेचनको. असेचनकत्ता अनासित्तको, अनासित्तकत्ता एव अब्बोकिण्णो, असम्मिस्सो परिकम्मादिना. ततो एव पाटियेक्को विसुंयेवेको. आवेणिको असाधारणो. सब्बमेतं सरसतो एव सन्तभावं दस्सेतुं वुत्तं, परिकम्मं वा सन्तभावनिमित्तं. परिकम्मन्ति च कसिणकरणादिनिमित्तुप्पादपरियोसानं, तादिसं एत्थ नत्थीति अधिप्पायो. तदा हि कम्मट्ठानं निरस्सादत्ता असन्तं अप्पणीतं सिया. उपचारे वा नत्थि एत्थ सन्तताति योजना. यथा उपचारक्खणे नीवरणादिविगमेन अङ्गपातुभावेन च परेसं सन्तता होति, न एवमिमस्स. अयं पन आदिसमन्ना…पे… पणीतो चाति योजना. केचीति उत्तरविहारवासिनो. अनासित्तकोति उपसेचनेन अनासित्तको. तेनाह – ‘‘ओजवन्तो’’ति ओजवन्तसदिसोति अत्थो. मधुरोति इट्ठो. चेतसिकसुखपटिलाभसंवत्तनं तिकचतुक्कज्झानवसेन, उपेक्खाय वा सन्तभावेन सुखगतिकत्ता सब्बेसम्पि झानानं वसेन वेदितब्बं. झानसमुट्ठानपणीतरूपफुट्ठसरीरतावसेन पन कायिकसुखपटिलाभसंवत्तनं दट्ठब्बं, तञ्च खो झानतो वुट्ठितकाले. इमस्मिं पक्खे ‘‘अप्पितप्पितक्खणे’’ति इदं हेतुम्हि भुम्मवचनं दट्ठब्बं.

अविक्खम्भितेति झानेन सकसन्तानतो अनीहते अप्पहीने. अकोसल्लसम्भूतेति अकोसल्लं वुच्चति अविज्जा, ततो सम्भूते. अविज्जापुब्बङ्गमा हि सब्बे पापधम्मा. खणेनेवाति अत्तनो पवत्तिक्खणेनेव. अन्तरधापेतीति एत्थ अन्तरधापनं विनासनं, तं पन झानकत्तुकं इधाधिप्पेतन्ति परियुट्ठानप्पहानं होतीति आह – ‘‘विक्खम्भेती’’ति. वूपसमेतीति विसेसेन उपसमेति. विसेसेन उपसमनं पन सम्मदेव उपसमनं होतीति आह ‘‘सुट्ठु उपसमेती’’ति. सासनिकस्स झानभावना येभुय्येन निब्बेधभागिया होतीति आह ‘‘निब्बेधभागियत्ता’’ति. अरियमग्गस्स पादकभूतो अयं समाधि अनुक्कमेन वड्ढित्वा अरियमग्गभावं उपगतो विय होतीति आह ‘‘अनुपुब्बेन अरियमग्गवुड्ढिप्पत्तो’’ति. अयं पनत्थो विरागनिरोधपटिनिस्सग्गानुपस्सनानं वसेन सम्मदेव युज्जति. सेसं सुविञ्ञेय्यमेव.