६. अरिट्ठसुत्तवण्णना
९८२. नो-सद्दो पुच्छायं, तस्मा नूति इमिना समानत्थोति आह ‘‘भावेथ नू’’ति. कामच्छन्दोति वत्थुकामेसु इच्छाति आह ‘‘पञ्चकामगुणिकरागो’’ति. द्वादससु आयतनधम्मेसु सपरसन्ततिपरियापन्नेसु. इमिना कामच्छन्दप्पहानकित्तनेन पटिघसञ्ञापटिविनयकित्तनेन च अनागामिमग्गं कथेति पञ्चोरम्भागियसञ्ञोजनसमुच्छेदस्स ब्याकतत्ता. विपस्सनं दस्सेन्तोति ‘‘विपस्सनं अनुयुञ्जथा’’ति दस्सेन्तो.