३. नागसुत्तवण्णना
१५१. बलं गाहेन्तीति अत्तनो सरीरबलं गाहेन्ति. तं पन नागानं बलप्पत्ति एवाति आह – ‘‘बलं गण्हन्ती’’ति. सम्भेज्जमुखद्वारन्ति महासमुद्देन सम्भेदगतमहानदीनं मुखद्वारं. नागा कायं वड्ढेन्तीतिआदि यस्मा च भगवता उपमावसेन आभतं, तस्मा एवमेव खोति एत्थातिआदिना उपमं संसन्दति. आगतेसूतिआदीसु तीसु पदेसु भावेनभावलक्खणे.