९. बलकरणीयवग्गो
१. बलसुत्तवण्णना
१४९. कम्मानियेव कम्मन्ता यथा सुत्तन्ता. अरियं अट्ठङ्गिकं मग्गन्ति एत्थ नानन्तरियकताय विपस्सनापि गहिता एव होतीति वुत्तं ‘‘सहविपस्सन’’न्ति.
२. बीजसुत्तवण्णना
१५०. पञ्चविधम्पि समूहट्ठेन बीजगामो नाम. तदेवाति मूलबीजादि एव. सम्पन्नन्ति सहजातमूलवन्तं. नीलभावतो पट्ठायाति नीलभावापत्तितो पट्ठाय.
३. नागसुत्तवण्णना
१५१. बलं गाहेन्तीति अत्तनो सरीरबलं गाहेन्ति. तं पन नागानं बलप्पत्ति एवाति आह – ‘‘बलं गण्हन्ती’’ति. सम्भेज्जमुखद्वारन्ति महासमुद्देन सम्भेदगतमहानदीनं मुखद्वारं. नागा कायं वड्ढेन्तीतिआदि यस्मा च भगवता उपमावसेन आभतं, तस्मा एवमेव खोति एत्थातिआदिना उपमं संसन्दति. आगतेसूतिआदीसु तीसु पदेसु भावेनभावलक्खणे.
५. कुम्भसुत्तवण्णना
१५३. न पतिआवमतीति च निकुज्जितभावेन उदकवमनो घटो, न तं पुन मुखेन गण्हाति. तेनाह ‘‘न अन्तो पवेसेती’’ति.
७. आकाससुत्तवण्णना
१५५. तेनेतं वुत्तन्ति तेन अरियमग्गस्स इज्झनेन एतेसं सब्बेसं बोधिपक्खियधम्मानं इज्झनं वुत्तं.
८-९-१०. पठममेघसुत्तादिवण्णना
१५६-१५८. पंसुरजोजल्लन्ति भूमिरेणुसहजातमलं. वाणिजकोपमेति वाणिजकोपमपठमसुत्ते चापि.
११-१२. आगन्तुकसुत्तादिवण्णना
१५९-१६०. सहविपस्सनस्स अरियमग्गस्स भावनाय इज्झनेन एतं अभिञ्ञापरिञ्ञेय्यादिधम्मानं अभिञ्ञापरिजाननादीनं इज्झनं वुत्तं खत्तियादीनं विसयआदिकं करोन्तस्स कथाय सज्जितत्ता.
बलकरणीयवग्गवण्णना निट्ठिता.