५. अञ्ञतित्थियपेय्यालवग्गवण्णना

४१-४८. अपरापरं परिवत्तमानेन वत्तसम्पन्नेन संसारद्धानपरिञ्ञावसेनेव निब्बानस्स पत्तब्बत्ता वुत्तं – ‘‘निब्बानं पत्वा परिञ्ञातं नाम होती’’ति. निब्बानं पत्वाति निब्बानप्पत्तिहेतु. हेतुअत्थो हि अयं त्वा-सद्दो यथा – ‘‘घतं पिवित्वा बलं होति, सीहं दिस्वा भयं होती’’ति. तस्माति यस्मा अपरिञ्ञेय्यपरिजाननकिच्चेन निब्बानस्स पत्तिया अद्धानपरिञ्ञासिद्धि ञायति, तस्मा उपचारवसेन निब्बानं ‘‘अद्धानपरिञ्ञा’’ति वुच्चति यथा ‘‘हिमसन्ति सूरियं उग्गमेती’’ति. विज्जाविमुत्तिफलसच्छिकिरियत्थन्ति एत्थ विज्जाति अग्गमग्गविज्जा. विमुत्तीति अग्गमग्गसमाधि अधिप्पेतो. तेसं फलं अञ्ञाति आह – ‘‘विज्जाविमुत्तिफलेन अरहत्तं कथित’’न्ति. याथावतो जाननतो पच्चक्खतो दस्सनतो च ञाणदस्सनन्ति इध फलनिब्बानपच्चवेक्खणा अधिप्पेताति आह – ‘‘ञाणदस्सनेन पच्चवेक्खणा कथिता’’ति. सेसेहीति राग-विराग-संयोजनप्पहान-अनुसयसमुग्घात-अद्धानपरिञ्ञा- आसवक्खय-विज्जा-विमुत्ति-फलसच्छिकिरिया-ञाणदस्सन-अनुपादापरिनिब्बानपदेहि.

अञ्ञतित्थियपेय्यालवग्गवण्णना निट्ठिता.