४. पटिपत्तिवग्गवण्णना

३१-४०. अयाथावपटिपत्ति, न यथापटिपत्ति, हेतुम्हिपि फलेपि अयाथाववत्थुसाधनतो. एकं सुत्तं धम्मवसेन कथितं पटिपत्तिवसेन. एकं सुत्तं पुग्गलवसेन कथितं पटिपन्नकवसेन. संसारमहोघस्स परतीरभावतो यो नं अधिगच्छति, तं पारेति गमेतीति पारं, निब्बानं, तब्बिधुरताय नत्थि एत्थ पारन्ति अपारं, संसारोति वुत्तं – ‘‘अपारापारन्ति वट्टतो निब्बान’’न्ति. पारङ्गताति असेक्खे सन्धाय. येपि गच्छन्तीति सेक्खे. येपि गमिस्सन्तीति कल्याणपुथुज्जने. पारगामिनोति एत्थ कित-सद्दो तिकालवाचीति एवं वुत्तं.

तीरन्ति ओरिमतीरमाह. तेन वुत्तं ‘‘वट्टमेव अनुधावती’’ति. एकन्तकाळकत्ता चित्तस्स अपभस्सरभावकरणतो कण्हाभिजातिहेतुतो च वुत्तं ‘‘कण्हन्ति अकुसलधम्म’’न्ति. वोदानभावतो चित्तस्स पभस्सरभावकरणतो सुक्काभिजातिहेतुतो च वुत्तं – ‘‘सुक्कन्ति कुसलधम्म’’न्ति. किलेसमार-अभिसङ्खारमार-मच्चुमारानं पवत्तिट्ठानताय ओकं वुच्चति वट्टं, तब्बिधुरताय अनोकन्ति निब्बानन्ति आह – ‘‘ओका अनोकन्ति वट्टतो निब्बान’’न्ति.

परमत्थतो समणा वुच्चन्ति अरिया, समणानं भावो सामञ्ञं, अरियमग्गो, तेन अरणीयतो उपगन्तब्बतो सामञ्ञत्थो निब्बानन्ति आह – ‘‘सामञ्ञत्थन्ति निब्बानं, तं ही’’तिआदि. ब्रह्मञ्ञत्थन्ति एत्थापि इमिना नयेन अत्थो वेदितब्बो. ब्रह्मञ्ञेन अरियमग्गेन. रागक्खयोति एत्थ इति-सद्दो आदिसद्दत्थो. तेन ‘‘दोसक्खयो मोहक्खयो’’ति पदद्वयं सङ्गण्हाति. वट्टतियेवाति वदन्ति ‘‘रागक्खयो’’ति. परियायेन हि अरहत्तस्स वत्तब्बत्ताति.

पटिपत्तिवग्गवण्णना निट्ठिता.