२. विहारवग्गो

१. पठमविहारसुत्तवण्णना

११. अड्ढमासन्ति अच्चन्तसंयोगे उपयोगवचनं. पटिसल्लीयितुन्ति यथावुत्तं कालं पटि दिवसे दिवसे समापत्तियं धम्मचिन्तायं चित्तं निलीयितुं. विनेतब्बोति समुच्छेदविनयेन विनेतब्बो अरियमग्गाधिगन्तब्बो. तन्ति दिट्ठानुगतिआपज्जनं. अस्साति जनताय. अपगच्छतीति सत्थु सन्तिकतो अपेति. सूति निपातमत्तं.

पदेसेनाति एकदेसेन. सह पदेसेनाति सपदेसो. स्वायं सपदेसो यस्मा वेदनावसेनेव पाळियं आगतो, तस्मा परमत्थधम्मकोट्ठासे वेदना अनवसेसतो लब्भति, ते गण्हन्तो ‘‘खन्धपदेसो’’तिआदिमाह. तं सब्बन्ति खन्धपदेसादिकं सब्बम्पि. ‘‘सम्मसन्तो’’ति पदस्स अत्थदस्सनवसेन ‘‘पच्चवेक्खन्तो’’ति आह. पच्चवेक्खणा इध सम्मसनं नाम, न विपस्सना. विपस्सनासम्मसनं पन भगवतो विसाखपुण्णमायं एव निप्फन्नं, तस्मा भगवतो अञ्ञभूमिकापि वेदना अञ्ञभूमिकानं सत्तानं विरुद्धा उप्पज्जतेवाति वुत्तं ‘‘याव भवग्गा पवत्ता सुखा वेदना’’ति. सब्बाकारेनाति सरूपतो समुदयतो अत्थङ्गमतो अस्सादादितोति सब्बाकारेन. परिग्गण्हन्तो उपपरिक्खन्तो.

निप्पदेसानेव अनवसेसानेव. इन्द्रियसतिपट्ठानपदेसो सुविञ्ञेय्योति अनुद्धतो. अस्साति भगवतो. ठानेति तस्मिं तस्मिं पच्चवेक्खितब्बसङ्खाते ओकासे. सा सा च विहारसमापत्तीति खन्धवसेन आयतनादिवसेन च पवत्तित्वा तेसं एकदेसभूतं वेदनंयेव परिग्गहेत्वा तं सम्मसित्वा अनुक्कमेन समापन्ना झानसमापत्ति फलसमापत्ति च. फलसमापत्ति हि तथा सम्मसित्वा पुनप्पुनं समापज्जनवसेन अत्थतो अभिन्नापि अधिट्ठानभूतधम्मभेदेन भिन्ना विय वुच्चति, यतो चतुवीसतिकोटिसतसहस्सभेदा देवसिकं वळञ्जनसमापत्तियो अट्ठकथायं वुत्ता. कामं अञ्ञधम्मवसेनपि जाता एव, वेदनावसेन पनेत्थ अभिनिवेसो कतो वेदनानुभावेन जाता. कस्मा एवं जाताति? बुद्धानं ञाणपदस्स अन्तरविभागत्ता. तथा हि भगवा सकलम्पि अड्ढमासं वेदनावसेनेव सम्मसनं पवत्तेति, तदनुसारेन च ता विहारसमापत्तियो समापज्जि. तयिदं अच्छरियं अनञ्ञसाधारणं भिक्खू पवेदेन्तो सत्था – ‘‘येन स्वाह’’न्तिआदिमवोच.

अकुसलावाति पाणातिपात-अदिन्नादान-कामेसुमिच्छाचार-मुसावाद-पिसुणवाचासम्फप्पलाप-अभिज्झा-ब्यापादवसेन तंतंमिच्छादस्सनवसेन च अकुसला वेदना एव होति. ब्रह्मलोकादीसु उप्पज्जित्वा तत्थ निच्चा धुवा भविस्सामाति एवं दिट्ठिं उपनिस्सायाति योजेतब्बं. देवकुलादीसु देवपूजत्थं, सब्बजनपरिभोगत्थं वा मालावच्छं रोपेन्ति. वधबन्धनादीनीति आदि-सद्देन अदिन्नादान-मिच्छाचार-मुसावाद-पिसुणवाचा-सम्फप्पलापादीनं सङ्गहो दट्ठब्बो. दिट्ठधम्मविपाकस्स अपचुरत्ता अपाकटत्ता च ‘‘भवन्तरगतान’’न्ति वुत्तं.

इति नेसन्ति एत्थ इति-सद्दो आदिअत्थो, पकारत्थो वा. तेन यथा फरुसवाचावसेन, एवं तदञ्ञेसम्पि अकुसलकम्मानं वसेन सम्मादिट्ठिपच्चया अकुसलवेदनाप्पवत्ति यथारहं नीहरित्वा वत्तब्बा. एसेव नयोति इमिना यथा मिच्छादिट्ठिपच्चया सम्मादिट्ठिपच्चया च कुसलाकुसलविपाकवेदना सहजातकोटिया उपनिस्सयकोटिया च वसेन यथारहं योजेत्वा दस्सिता, एवं मिच्छासङ्कप्पपच्चयादीसुपि यथारहं योजेत्वा दस्सेतब्बाति इममत्थं अतिदिसति. छन्दपच्चयाति एत्थ तण्हाछन्दसहितो कत्तुकामताछन्दो अधिप्पेतोति आह ‘‘छन्दपच्चयातिआदीसु पन छन्दपच्चया अट्ठलोभसहगतचित्तसम्पयुत्ता वेदना वेदितब्बा’’ति. वितक्कपच्चयाति एत्थ अप्पनाप्पत्तोव वितक्को अधिप्पेतोति वुत्तं ‘‘वितक्कपच्चया पठमज्झानवेदनावा’’ति. वितक्कपच्चया पठमज्झानवेदनाय गहितत्ता ‘‘ठपेत्वा पठमज्झान’’न्ति. उपरि तिस्सो रूपावचरा, हेट्ठा तिस्सो अरूपावचरा एवं सेसा छ सञ्ञासमापत्तिवेदना.

तिण्णन्ति छन्दवितक्कसञ्ञानं. अवूपसमेति पटिपक्खेन अवूपसमिते. तिण्णञ्हि तेसं सहभावेन पच्चयता अट्ठलोभसहगतचित्तेसु एव. तत्थ यं वत्तब्बं तं वुत्तमेव. छन्दमत्तस्साति तेसु तीसु छन्दमत्तस्स. वूपसमे पठमज्झानवेदनाव अप्पनाप्पत्तस्स अधिप्पेतत्ता. छन्दवितक्कानं वूपसमे दुतियज्झानादिवेदना अधिप्पेता सञ्ञाय अवूपसन्तत्ता. दुतियज्झानादिवेदनागहणेन हि सब्बा सञ्ञासमापत्तियो च गहिताव होन्ति. तिण्णम्पि वूपसमेति छन्दवितक्कसञ्ञानं वूपसमे नेवसञ्ञानासञ्ञायतनवेदना अधिप्पेता. भवग्गप्पत्तसञ्ञा हि वूपसमन्ति छन्दसङ्कप्पानं अच्चन्तसुखुमभावप्पत्तिया. हेट्ठा ‘‘सम्मादिट्ठिपच्चया’’ति एत्थ सम्मादिट्ठिग्गहणेन हेट्ठिममग्गसम्मादिट्ठिपि गहिताव होतीति आह – ‘‘अप्पत्तस्स पत्तियाति अरहत्तफलस्स पत्तत्थाया’’ति. अथ वा हेट्ठिममग्गाधिगमेन विना अग्गमग्गो नत्थीति हेट्ठिममग्गाधिगमं अत्थापन्नं कत्वा ‘‘अरहत्तफलस्स पत्तत्थाया’’ति वुत्तं. आयमेति फलेन मिस्सितो होति एतेनाति आयामो, सम्मावायामोति आह ‘‘अत्थि आयामन्ति अत्थि वीरिय’’न्ति. तस्स वीरियारम्भस्साति अञ्ञाधिगमकारणस्स सम्मावायामस्स वसेन. पाळियं ठान-सद्दो कारणपरियायोति आह – ‘‘अरहत्तफलस्स कारणे’’ति. तप्पच्चयाति एत्थ तं-सद्देन ‘‘ठाने’’ति वुत्तकारणमेव पच्चामट्ठन्ति आह – ‘‘अरहत्तस्स ठानपच्चया’’ति. चतुमग्गसहजाताति एतेन ‘‘अरहत्तफलस्स पत्तत्थाया’’ति एत्थ हेट्ठिममग्गानं अत्थापत्तिवसेन गहितभावमेव जोतेति. केचि पन ‘‘चतुमग्गसहजाताति वत्वा निब्बत्तितलोकुत्तरवेदनाति भूतकथनं विसेसनं. निब्बत्तितलोकुत्तरवेदनाति पठमं अपेक्खितब्बं, पच्छा चतुमग्गसहजाता’’ति वदन्ति.

पठमविहारसुत्तवण्णना निट्ठिता.

२. दुतियविहारसुत्तवण्णना

१२. मिच्छादिट्ठि वूपसमति सब्बसो पहीयति एतेनाति मिच्छादिट्ठिवूपसमो. ‘‘मिच्छादिट्ठिवूपसमो नाम सम्मादिट्ठि. भवन्तरे उप्पज्जन्तो अतिदूरेति मञ्ञमानो विपाकवेदनं न गण्हाती’’ति अट्ठकथायं वुत्तं. ‘‘इमिना नयेना’’ति अतिदिसित्वापि तमत्थं पाकटतरं कातुं ‘‘यस्स यस्सा’’तिआदिं वत्वा एव सामञ्ञवसेन वुत्तमत्थं पच्छिमेसु तीसु पदेसु सरूपतोव दस्सेतुं ‘‘छन्दवूपसमपच्चया’’तिआदिमाह, तं सुविञ्ञेय्यमेव. वुत्तत्थानेव अनन्तरसुत्ते.

दुतियविहारसुत्तवण्णना निट्ठिता.

३-७. सेक्खसुत्तादिवण्णना

१३-१७. तिस्सन्नम्पि सिक्खानं सिक्खनं सीलं एतस्साति सिक्खनसीलो. सिक्खतीतिपि वा सेक्खो. वुत्तञ्हेतं ‘‘सिक्खतीति खो, भिक्खवे, तस्मा सेक्खोति वुच्चति. किञ्च सिक्खति? अधिसीलम्पि सिक्खती’’तिआदि (अ. नि. ३.८६). तीहि फलेहि हेट्ठा. सापि चतुत्थमग्गेन सद्धिं उप्पन्नसिक्खापि. मग्गक्खणे हि सिक्खाकिच्चं न निट्ठितं विप्पकतभावतो, फलक्खणे पन निट्ठितं नाम. उत्तानत्थानेव हेट्ठा वुत्तनयत्ता.

सेक्खसुत्तादिवण्णना निट्ठिता.

विहारवग्गवण्णना निट्ठिता.