१०. मणिचूळकसुत्तवण्णना

३६२. तं परिसन्ति तं राजन्तेपुरे निसिन्नं राजपरिसं. नयग्गाहेति कुतोचिपि असुत्वा केवलं अत्तनो एव मतिया नयग्गहणे ठत्वा.

कारेतुं वट्टति सति सम्भवे पटिसङ्खारस्स, सेनासनविनासो न अज्झुपेक्खितब्बोति अधिप्पायो. अत्तनो एत्थ किच्चावसाने यं गिहीनंयेव सन्तकं तावकालिकं, तं गिहिविकतन्ति आह ‘‘गिहिविकतं कत्वा’’ति. न वदामि पब्बज्जितासारुप्पतो.

मणिचूळकसुत्तवण्णना निट्ठिता.