६. दुतियकामभूसुत्तवण्णना
३४८. निरोधं वलञ्जेति अनागामिभावतो. इमे सङ्खाराति इमे ‘‘कायसङ्खारो, वचीसङ्खारो, चित्तसङ्खारो’’ति वुच्चमाना तयो सङ्खारा. सद्दतोपि, अत्थतोपि अञ्ञमञ्ञं मिस्सा, ततो एव आलुळिता आकुला, अविभूता दुब्बिभावना, दुद्दीपना असङ्करतो दीपेतुं दुक्करा. तथा हि कुसलचेतना एव ‘‘कायसङ्खारो’’तिपि वुच्चति, ‘‘वचीसङ्खारो’’तिपि, ‘‘चित्तसङ्खारो’’तिपि. अस्सासपस्सासापि कत्थचि ‘‘कायसङ्खारो’’ति, वितक्कविचारापि ‘‘वचीसङ्खारो’’ति वुच्चन्ति, सञ्ञावेदनापि ‘‘चित्तसङ्खारो’’ति वुच्चन्ति. तेन वुत्तं ‘‘तथा ही’’तिआदि. तत्थ आकड्ढित्वा गहणं आदानं, सम्पत्तस्स हत्थे करणं गहणं, गहितस्स विस्सज्जनं मुञ्चनं, फन्दनं चोपनं पापेत्वा निप्फादेत्वा. हनुसञ्चोपनन्ति कायविञ्ञत्तिवसेन पुब्बभागे हनुसञ्चोपनं कत्वा. एवञ्हि वचीभेदकरणं. एवं इमेतिआदि यथावुत्तस्स अत्थस्स निगमनं.
पदत्थं पुच्छति इतरसङ्खारेहि पदत्थतो विसेसं कथापेस्सामीति. कायनिस्सिताति एत्थ कायनिस्सितता च नेसं तब्भावभाविताय वेदितब्बा, न कायस्स निस्सयपच्चयतावसेनाति दस्सेन्तो ‘‘काये सति होन्ति, असति न होन्ती’’ति आह. कायोति चेत्थ करजकायो दट्ठब्बो. चित्तनिस्सिताति चित्तं निस्साय तं निस्सयपच्चयभूतं लभित्वा उप्पन्ना.
‘‘समापज्जामी’’ति पदस्स समीपे वुच्चमानं ‘‘समापज्जिस्स’’न्ति पदं आसन्नानागतकालवाची एव भवितुं युत्तं, न इतरन्ति आह – ‘‘पदद्वयेन नेवसञ्ञानासञ्ञायतनसमापत्तिकालो कथितो’’ति. तयिदं तस्स तथा वत्तब्बताय वुत्तं, न पन तस्स तथा चित्तपवत्तिसम्भवतो. समापन्नेपि एसेव नयो. पुरिमेहीति ‘‘समापज्जिस्सं समापज्जामी’’ति द्वीहि पदेहि. पच्छिमेनाति ‘‘समापन्नो’’ति पदेन.
भावितं होति उप्पादितं होति निरोधसमापन्नत्थाय. अनुपुब्बसमापत्तिसमापज्जनसङ्खाताय निरोधभावनाय तं चित्तं भावितं होति. तेनाह ‘‘यं त’’न्तिआदि. दुतियज्झानेयेवाति दुतियज्झानक्खणे निरुज्झति. तत्थ अनुप्पज्जनतो अनुप्पादनतो हेट्ठा निरोधोति अधिप्पेतो. चतुन्नं अरूपक्खन्धानं तज्जा परिकम्मसिद्धा या अप्पवत्ति, तत्थ ‘‘निरोधसमापत्तिसञ्ञा’’ति, या नेसं तथा अप्पवत्ति. सा ‘‘अन्तोनिरोधे निरुज्झती’’ति वुत्ता.
‘‘चित्तसङ्खारो निरुद्धो’’ति वचनतो तदञ्ञेसं अनिरोधं इच्छन्तानं वादं दस्सेन्तो ‘‘चित्तसङ्खारो निरुद्धोति वचनतो’’तिआदिं वत्वा तत्थ अतिप्पसङ्गदस्सनमुखेन तं वादं निसेधेतुं ‘‘ते वत्तब्बा’’तिआदिमाह. अभिनिवेसं अकत्वाति यथागते ब्यञ्जनमत्ते अभिनिवेसं अकत्वा. आचरियानं नयेति आचरियानं परम्परागते धम्मनये धम्मनेत्तियं ठत्वा.
किरियमयपवत्तस्मिन्ति परित्तभूमककुसलाकुसलधम्मपबन्धे वत्तमाने. तस्मिञ्हि वत्तमाने कायिक-वाचसिक-किरियसम्पवत्ति होति, दस्सन-सवनादिवसेन आरम्मणग्गहणे पवत्तमानेति अत्थो. तेनाह – ‘‘बहिद्धारम्मणेसु पसादे घट्टेन्तेसू’’ति. मक्खितानि वियाति पुञ्छितानि विय होन्ति घट्टनाय विबाधितत्ता. एतेनायं घट्टना पञ्चद्वारिकविञ्ञाणानं वेगसा उप्पज्जनाय न आरम्मणन्ति दस्सेति. तेनेवाह – ‘‘अन्तोनिरोधे पञ्च पसादा अतिविय विरोचन्ती’’ति.
ततो परं सचित्तको भविस्सामीति इदं अत्थतो आपन्नं गहेत्वा वुत्तं – ‘‘एत्तकं कालं अचित्तको भविस्सामी’’ति एतेनेव तस्स अत्थस्स सिद्धत्ता. यं एवं भावितन्ति एत्थ विसुं चित्तस्स भावना नाम नत्थि, अद्धानपरिच्छेदं पन कत्वा निरोधसमापत्तत्थाय कातब्बपरिकम्मभावनाय एव तस्स सिज्झनतो.
सा पनेसा निरोधकथा. द्वीहि बलेहीति समथविपस्सनाबलेहि. तयो च सङ्खारानन्ति तिण्णं कायवचीचित्तसङ्खारानं पटिप्पस्सद्धिया. सोळसहि ञाणचरियाहीति अनिच्चानुपस्सनादीनं अट्ठन्नं अनुपस्सनाञाणानं, अट्ठन्नञ्च मग्गफलञाणानं वसेन इमाहि सोळसहि ञाणप्पवत्तीहि. नवहि समाधिचरियाहीति अट्ठ समापत्तियो अट्ठ समाधिचरिया, तासं उपचारसमाधि समाधिभावसामञ्ञेन एका समाधिचरियाति एवं नवहि समाधिचरियाहि. वसीभावतापञ्ञाति वसीभावतासङ्खाता पञ्ञा. सब्बाकारेन विसुद्धिमग्गे कथिता, ते ताव आकारा तिट्ठन्तु, सरूपमत्तस्स पनस्स वत्तब्बन्ति आह – ‘‘को पनायं निरोधो नामा’’ति. यदि खन्धानं अप्पवत्ति, अथ किमत्थमेतं झानसुखादिं विय समापज्जन्तीति आह ‘‘सङ्खारान’’न्तिआदि.
फलसमापत्तिचित्तन्ति अरहत्तं अनागामिफलचित्तं. ‘‘ततो परं भवङ्गसमये’’ति वुत्तत्ता आह ‘‘किं पन…पे… न समुट्ठापेती’’ति. समुट्ठापेति रूपसमुप्पादकत्ता. इमस्साति निरोधं समापन्नभिक्खुनो. सा न समुट्ठापेतीति सा चतुत्थज्झानिका फलसमापत्ति न समुट्ठापेति अस्सासपस्सासे. फलसमापत्तिया चतुत्थज्झानिकभावो कथं निच्छितोति आह – ‘‘किं वा एतेना’’तिआदि. वक्खमानाकारेनपि परिहारो होतीति. सन्तसमापत्तितोति निरोधसमापत्तिमेव सन्धाय वदति. अब्बोहारिका होन्ति अतिसुखुमसभावत्ता, सञ्जीवत्थेरस्स पुब्बे समापत्तिक्खणे अस्सासपस्सासा अब्बोहारिकभावं गच्छन्ति. तेन वुत्तं ‘‘भवङ्गसमयेनेवेतं कथित’’न्ति.
किरियमय …पे… उप्पज्जतीति कस्मा वुत्तं? ननु भवङ्गुप्पत्तिकालम्पि वितक्कविचारा उप्पज्जन्तेवाति? किञ्चापि उप्पज्जन्ति, वचीसङ्खारलक्खणप्पत्ता पन न होन्तीति इममत्थं दस्सेतुं ‘‘किं भवङ्ग’’न्तिआदि वुत्तं.
सुञ्ञतो फस्सोतिआदयो सगुणेनपि आरम्मणेनाति आरम्मणभूतमेतं. सुञ्ञता नाम फलसमापत्ति निच्चसुखअत्तसभावतो सुञ्ञत्ता. ‘‘सुञ्ञतो फस्सो’’ति वुत्तं वुत्तनयेन सुञ्ञसभावत्ता. अनिमित्ता नाम फलसमापत्ति रागनिमित्तादीनं अभावतो. अप्पणिहिता नाम फलसमापत्ति रागपणिधिआदीनमभावतो. सेसं वुत्तनयमेव. तेनाह ‘‘अनिमित्तप्पणिहितेसुपि एसेव नयो’’ति. रागनिमित्तादीनन्ति एत्थ आदि-सद्देन सङ्खारनिमित्तस्सपि सङ्गहो दट्ठब्बो. यदग्गेन फलसमापत्तिसम्फस्सो सुञ्ञतो नाम, तदग्गेन फलसमापत्तिपि सुञ्ञता नाम, फस्ससीसेन पन देसना आगताति तथा वुत्तं. अनिमित्तप्पणिहितेसुपि एसेव नयो.
आगमनं एत्थ, एतायाति वा आगमनिका, सा एव आगमनिया क-कारस्स य-कारं कत्वा. वुट्ठाति निमित्ततो मग्गस्स उप्पादनेन. अनिमित्ता नाम निच्चनिमित्तस्स उग्घाटनतो. एत्थ च वुट्ठानमेव पमाणं, न परिग्गहदस्सनानि. अप्पणिहिता नाम सुखपणिधिया पटिपक्खतो. सुञ्ञता नाम अत्तदिट्ठिया उजुपटिपक्खत्ता सत्तसुञ्ञताय सुदिट्ठत्ता. मग्गो अनिमित्तो नाम विपस्सनागमनतो. फलं अनिमित्तं नाम मग्गागमनतो. विकप्पो आपज्जेय्य आगमनस्स ववत्थानस्स अभावेन, विपस्सनाय अनिमित्तादिनामलाभो अववत्थितोति अधिप्पायो. तेन वुत्तं ‘‘तस्मा’’तिआदि. यस्मा पन सा मग्गवुट्ठानकाले एवरूपापि होतीति तस्स वसेन मग्गफलानं विय फस्सस्सपि पवत्तिरूपत्ता यथावुत्तो विकप्पो अनवसरोति दट्ठब्बं. तयो फस्सा फुसन्तीति पुग्गलभेदवसेन वुत्तं. न हि एकंयेव पुग्गलं एतस्मिं खणे तयो फस्सा फुसन्ति. ‘‘तिविधो फस्सो फुसती’’ति वा भवितब्बं. यस्मा पन ‘‘निरोधफलसमापत्तिया वुट्ठितस्सा’’तिआदि यस्स यथावुत्ता तयो एव फस्सा सम्भवन्ति, तस्स अनवसेसग्गहणवसेनेव वुत्तं ‘‘तयो फस्सा फुसन्ती’’ति.
निब्बानं विवेको नाम सब्बसङ्खारविवित्तभावतो. तस्मिं विवेके एकन्तेनेव निन्नपोणत्ता एव हि ते पटिप्पस्सद्धसब्बुस्सुक्का उत्तमपुरिसा चतुन्नं खन्धानं अप्पवत्तिं अनवसेसग्गहणलक्खणं निरोधसमापत्तिं समापज्जन्तीति.
दुतियकामभूसुत्तवण्णना निट्ठिता.