५. पठमकामभूसुत्तवण्णना
३४७. एलं वुच्चति दोसो, तं एतस्स नत्थीति नेलं, तं अङ्गं एतस्साति नेलङ्गो, सुविसुद्धसीलगुणो. तेनाह ‘‘नेलङ्गन्ति खो, भन्ते, सीलानमेतं अधिवचन’’न्ति. अट्ठकथायं पन दोसाभावमेव दस्सेतुं ‘‘नेलङ्गोति निद्दोसो’’ति वुत्तं. एतं भिक्खुं आगच्छन्तन्ति महाकप्पिनत्थेरं सन्धाय वुत्तं. अत्तनो दिट्ठेन कथेसीति अत्तनो सब्बञ्ञुतञ्ञाणेन पच्चक्खतो उपलक्खितेन अत्थेन कथेसि. अयं पन नयग्गाहेनाति अयं पन गहपति असुत्वा केवलं नयग्गाहेन आह.
पठमकामभूसुत्तवण्णना निट्ठिता.