४. महकपाटिहारियसुत्तवण्णना

३४६. तेसं अनुजानन्तोति तेसं दासकम्मकरानं सेसके यथारुचि विचारणं अनुजानन्तो. कुधितन्ति बलवता सूरियसन्तापेन सङ्कुथितं. तेनाह ‘‘हेट्ठा’’तिआदि. अतितिखिणन्ति अतिविय तिक्खधातुकं. असम्भिन्नपदन्ति अञ्ञत्थ अनागतत्ता तिपिटके अवोमिस्सकपदं, इधेव आगतपदन्ति अत्थो. पटिलीयमानेनाति पटिकंसेन विसेसनेन विलीयमानेन कायेन.

एत्थ चाति एतस्मिं अधिट्ठानिद्धिकरणे. अब्भमण्डपं कत्वाति समन्ततो छादनवसेन मण्डपं विय मेघपटलं उप्पादेत्वा. देवोति मेघो. एकमेकं फुसितकं फुसायतु जालविनद्धं विय वस्सतु. एवं वुत्तप्पकारेन नानापरिकम्मं नानाधिट्ठानं एकतो परिकम्मं एकतो अधिट्ठानन्ति चतुक्कमेत्थ सम्भवतीति दस्सेति ‘‘एत्थ चा’’तिआदिना. यथा तथाति यथावुत्तेसु चतूसु पकारेसु येन वा तेन वा पकारेन करोन्तस्स. कतपरिकम्मस्साति ‘‘एवं वा एवं वा होतू’’ति पवत्तितपरिकम्मचित्तस्स. ‘‘परिकम्मानन्तरेनाति अधिट्ठानचित्तुप्पादनत्थं समापन्नपादकज्झानतो वुट्ठाय अधिट्ठानचित्तस्स एकावज्जनवीथियं पवत्तपरिकम्मं सन्धाय वुत्त’’न्ति वदन्ति.

महकपाटिहारियसुत्तवण्णना निट्ठिता.