८-१०. महादिट्ठिसुत्तादिवण्णना

२१३-२१५. अकताति समेन वा विसमेन वा केनचि हेतुना न कता एव. केनचि कतं करणं विधानं नत्थि एतेसन्ति अकतविधाना. पदद्वयेनपि लोके केनचि हेतुपच्चयेन नेसं अभिनिब्बत्तिताभावं दस्सेति. इद्धियापि न निम्मिताति कस्सचि इद्धिमतो देवस्स ब्रह्मुनो वा इद्धियापि न निम्मिता. अनिम्मिताति वा कस्सचि अनिम्मापका. अजनकाति एतेन पथवीकायादीनं रूपादिजनकभावं पटिक्खिपति. रूपसद्दादयो हि पथवीकायादीहि अप्पटिबद्धवुत्तिकाति तस्स लद्धि. यथा पब्बतकूटं केनचि अनिब्बत्तितं कस्सचि च अनिब्बत्तकं, एवमेतेपीति आह ‘‘कूटट्ठा’’ति. यमिदं ‘‘बीजादितो अङ्कुरादि जायती’’ति वुच्चति, तञ्च विज्जमानमेव ततो निक्खमति, नाविज्जमानं, अञ्ञथा यतो कुतोचि यस्स कस्सचि उप्पत्ति सियाति अधिप्पायो. ठिताति निब्बिकारभावेन ठिता. न चलन्तीति न विकारं आपज्जन्ति. विकाराभावेन हि तेसं सत्तन्नं कायानं एसिकट्ठायिट्ठितता. अनिञ्जनञ्च अत्तनो पकतिया अवट्ठानमेव. तेनाह ‘‘न विपरिणमन्ती’’ति. अविपरिणामधम्मत्ता एव च ने अञ्ञमञ्ञं न ब्याबाधेन्ति. सति हि विकारं आपादेतब्बताय ब्याबाधकतापि सिया, तथा अनुग्गहेतब्बताय अनुग्गाहकताति तदभावं दस्सेतुं पाळियं ‘‘नाल’’न्तिआदि वुत्तं. पथवी एव कायेकदेसत्ता पथविकायो. जीवसत्तमानं कायानं निच्चताय निब्बिकाराभावतो न हन्तब्बता, न घाटेतब्बता चाति नेव कोचि हन्ता घातेता वा. तेनाह ‘‘सत्तन्नन्त्वेवा’’तिआदि. यदि कोचि हन्ता नत्थि, कथं सत्थप्पहारोति आह ‘‘यथा मुग्गरासिआदीसू’’तिआदि. केवलं सञ्ञामत्तमेव होति, न घातनादि, परमत्थतो सत्तन्नन्त्वेव कायानं अविकोपनीयभावतोति अधिप्पायो.

पमुखयोनीनन्ति मनुस्सतिरच्छानादीसु खत्तियब्राह्मणादिसीहब्यग्घादिवसेन पधानयोनीनं. सट्ठिसतानि छसहस्सानि. ‘‘पञ्च च कम्मुनो सतानी’’ति पदस्स अत्थदस्सनं ‘‘पञ्च कम्मसतानि चा’’ति. एसेव नयोति इमिना ‘‘केवलं तक्कमत्तेन निरत्थकदिट्ठिं दीपेती’’ति इममेव अत्थं अतिदिसति. एत्थ च तक्कमत्तकेनाति इमिना यस्मा तक्किका निरङ्कुसताय परिकप्पनस्स यं किञ्चि अत्तनो परिकप्पितं सारतो मञ्ञमाना तथेव अभिनिविस्स तक्कदिट्ठिगाहं गण्हन्ति, तस्मा न तेसं दिट्ठिवत्थूसु विञ्ञूहि विचारणा कातब्बाति दस्सेति. केचीति उत्तरविहारवासिनो. ते हि ‘‘पञ्च कम्मानीति चक्खुसोतघानजिव्हाकाया, इमानि पञ्चिन्द्रियानि ‘पञ्च कम्मानीति पञ्ञापेन्ती’’ति वदन्ति. कम्मन्ति लद्धीति ओळारिकभावतो परिपुण्णकम्मन्ति लद्धि. मनोकम्मं अनोळारिकत्ता उपड्ढकम्मन्ति लद्धीति योजना. ‘‘द्वासट्ठिपटिपदा’’ति वत्तब्बे सभावनिरुत्तिं अजानन्ता ‘‘द्वट्ठिपटिपदा’’ति वदन्ति. एकस्मिं कप्पेति एकस्मिं महाकप्पे. तत्थापि च विवट्टट्ठायिसञ्ञिते एकस्मिं असङ्ख्येय्यकप्पे.

उरब्भे हनन्तीति ओरब्भिका. एवं सूकरिकादयो वेदितब्बा. लुद्दाति अञ्ञेपि ये केचि मागविकनेसादादयो, ते पापकम्मपसुतताय कण्हाभिजातीति वदन्ति. भिक्खूति बुद्धसासने भिक्खू. ते किर ‘‘सच्छन्दरागा परिभुञ्जन्ती’’ति अधिप्पायेन चतूसु पच्चयेसु कण्टके पक्खिपित्वा खादन्तीति वदन्ति. कस्माति चे? यस्मा ते पणीतपणीते पच्चये पटिसेवन्तीति तस्स मिच्छागाहो. ञायलद्धेपि पच्चये परिभुञ्जमाना आजीवकसमयस्स विलोमगाहिताय पच्चयेसु कण्टके पक्खिपित्वा खादन्ति नामाति वदन्तीति अपरे. एके पब्बजिता, ये विसेसतो अत्तकिलमथानुयोगमनुयुत्ता. तथा हि ते कण्टके वत्तन्ता विय होन्तीति कण्टकवुत्तिकाति वुत्ता. ठत्वा भुञ्जननहानपटिक्खेपादिवतसमायोगेन पण्डरतरा. अचेलकसावकाति आजीवकसावके वदति. ते किर आजीवकसमये आजीवकलद्धिया दळ्हगाहिताय निगण्ठेहिपि पण्डरतरा. नन्दादयो किर तथारूपं आजीवकपटिपत्तिं उक्कंसं पापेत्वा ठिता, तस्मा निगण्ठेहि आजीवकसावकेहि च पण्डरतरा वुत्ता. परमसुक्काभिजातीति अयं तेसं लद्धि.

पुरिसभूमियोति पधानपुग्गलेन निद्देसो. इत्थीनम्पेता भूमियो इच्छन्तेव. भिक्खु च पन्नकोतिआदि तेसं पाळि एव. तत्थ पन्नकोति भिक्खाय विचरणको, तेसं वा पटिपत्तिया पटिपन्नको. जिनोति जिण्णो जरावसेन हीनधातुको, अत्तनो वा पटिपत्तिया पटिपक्खे जिनित्वा ठितो. सो किर तथाभूतो धम्मम्पि कस्सचि न कथेति. तेनाह ‘‘न किञ्चि आहा’’ति. निट्ठुहनादिविप्पकारे केनचि कतेपि खमनवसेन न किञ्चि वदतीति वदन्ति. अलाभिन्ति ‘‘सो न कुम्भिमुखा पटिग्गण्हाती’’तिआदिना (दी. नि. १.३९४) नयेन वुत्तअलाभहेतुसमायोगेन अलाभिं. ततो एव जिघच्छादुब्बल्यपरेतताय सयनपरायणं समणं पन्नभूमीति वदन्ति.

आजीववुत्तिसतानीति सत्तानं आजीवभूतानि जीविकावुत्तिसतानि. पसुग्गहणेन एळकजाति गहिता, मिगग्गहणेन रुरुगवयादिसब्बमिगजाति. बहू देवाति चातुमहाराजिकादिब्रह्मकायिकादिवसेन तेसं अन्तरभेदवसेन बहू देवा. तत्थ चातुमहाराजिकानं एकच्चे अन्तरभेदा महासमयसुत्तवसेन (दी. नि. २.३३१ आदयो) दीपेतब्बा. मनुस्सापि अनन्ताति दीपदेसकुलवंसाजीवादिविभागेन मनुस्सापि अनन्तभेदा. पिसाचा एव पेसाचा, ते महन्तमहन्ता अजगरपेतादयो. छद्दन्तदहमन्दाकिनियो कुळीरमुचलिन्दनामेन वदन्ति.

पवुटाति सब्बगण्ठिका. पण्डितोपि…पे… उद्धं न गच्छति. कस्मा? सत्तानं संसरणकालस्स नियतभावतो.

अपरिपक्कं संसरणनिमित्तं सीलादिना परिपाचेति नाम सीघंयेव विसुद्धिप्पत्तिया. परिपक्कं कम्मं फुस्स फुस्स पत्वा पत्वा काले परिपक्कभावापादनेन ब्यन्ती करोति नाम. सुत्तगुळेति सुत्तवट्टियं. निब्बेठियमानमेव पलेतीति उपमाय सत्तानं संसारो अनुक्कमेन खीयतेव, न तस्स वड्ढीति दस्सेति परिच्छिन्नरूपत्ता. निब्बेठियमानमेव सुत्तगुळं गच्छतीति वुच्चति. तञ्च खो सुत्तपमाणेन, सुत्ते पन असति कुतो गच्छति सुत्तगुळं. तेनाह – ‘‘सुत्ते खीणे न गच्छती’’ति. तत्थेव तिट्ठति सुत्तपरियन्तन्ति अधिप्पायो. कालवसेनाति अत्तनि वेठेत्वा ठितं सुखदुक्खं यथावुत्तस्स कालस्स वसेन निब्बेठियमानो बालो च पण्डितो च पलेति गच्छति, नातिक्कमति संसारं.

महादिट्ठिसुत्तादिवण्णना निट्ठिता.