२-४. एतंममसुत्तादिवण्णना
२०७-२०९. दिट्ठं रूपायतनं चक्खुना दट्ठब्बतो. सुतं सद्दायतनं सोतेन सोतब्बतो. मुतं गन्धायतनादि तिविधं सम्पत्तगाहीहि घानादीहि पत्वा गहेतब्बतो. अवसेसानि चक्खादीनि सत्तायतनानि विञ्ञातं नाम केवलं मनोविञ्ञाणेन विजानितब्बतो. पत्तन्ति अनुप्पत्तं, यं किञ्चि पापुणितब्बं परियेसित्वा गवेसित्वा सम्पत्तन्ति अनुप्पत्तं. परियेसितन्ति परियिट्ठं. चित्तेन अनुसञ्चरितन्ति मनसा चिन्तितं. ‘‘पत्तं परियेसित’’न्ति एतस्मिं पदद्वये चतुक्कं सम्भवतीति तं दस्सेत्वा तस्स वसेन पत्तपरियेसितपदानि, ततो मनसा अनुविचरितञ्च नीहरित्वा दस्सेतुं ‘‘लोकस्मिं ही’’तिआदि वुत्तं. तत्थ परियेसित्वा पत्तं नाम परियेसनाय परिग्गाहभावतो. परियेसितं नाम केवलं परियेसितमेवाति कत्वा परियेसित्वा पत्तस्स मनुस्सानुविचरितस्स वुत्तत्ता. पठमविकप्पे सङ्करो अत्थीति असङ्करतो च दस्सेतुं ‘‘अथ वा’’तिआदि वुत्तं. सब्बन्ति विञ्ञातादि. तञ्हि मनोविञ्ञाणेन गहितत्ता मनसा अनुविचरितं नाम न दिट्ठं सुतं मुतं.
एतंममसुत्तादिवण्णना निट्ठिता.