१. भारसुत्तवण्णना
२२. उपादानानं आरम्मणभूता खन्धा उपादानक्खन्धा. परिहारभारियट्ठेनाति परिहारस्स भारियभावेन गरुतरभावेन. वुत्तमेव अत्थं पाकटं कातुं ‘‘एतेसञ्ही’’तिआदिमाह. तत्थ यस्मा एतानि ठानगमनादीनि रूपारूपधम्मानं पङ्गुलजच्चन्धानं विय अञ्ञमञ्ञूपस्सयवसेन इज्झन्ति, न पच्चेकं, तस्मा ‘‘एतेस’’न्ति अविसेसवचनं कतं. पुग्गलन्ति खन्धसन्तानं वदति. खन्धसन्तानो हि अविच्छेदेन पवत्तमानो याव परिनिब्बाना खन्धभारं वहन्तो विय लोके खायति तब्बिनिमुत्तस्स सत्तस्स अभावतो. तेनाह ‘‘पुग्गलो’’तिआदि. भारहारोति जातोति भारहारो नाम जातो.
पुनब्भवकरणं पुनब्भवो, तं फलं अरहति, तत्थ नियुत्ताति वा पोनोभविका. तब्भावसहगतं यथा ‘‘सनिदस्सना धम्मा’’ति, न संसट्ठसहगतं, नापि आरम्मणसहगतं. ‘‘तत्र तत्रा’’ति यं यं उप्पत्तिट्ठानं, रूपादिआरम्मणं वा पत्वा तत्रतत्राभिनन्दिनी. तेनाह ‘‘उपपत्तिट्ठाने वा’’तिआदि. पञ्चकामगुणिकोति पञ्चकामगुणारम्मणो. रूपारूपूपपत्तिभवे रागो रूपारूपभवरागो. झाननिकन्ति झानसङ्खाते कम्मभवे रागो. सस्सतादिट्ठीति भवदिट्ठि, तंसहगतो रागो. अयन्ति रागो भवतण्हा नाम. उच्छेददिट्ठि विभवदिट्ठि नाम, तंसहगतो छन्दरागो विभवतण्हा नाम. एस पुग्गलो खन्धभारं आदियति तण्हावसेन पटिसन्धिग्गहणतो. ‘‘असेसमेत्थ तण्हा विरज्जति पलुज्जति निरुज्झति पहीयती’’तिआदिना सब्बपदानि निब्बानवसेनेव वेदितब्बानीति आह ‘‘सब्बं निब्बानस्सेव वेवचन’’न्ति.
भारसुत्तवण्णना निट्ठिता.