१-२. अविज्जासुत्तादिवण्णना

११३-११४. यावताति यस्मा. इमाय…पे… समन्नागतोति ‘‘इदं दुक्खन्ति यथाभूतं नप्पजानाती’’तिआदिना नयेन वुत्ताय चतूसु अरियसच्चेसु अञ्ञाणसभावाय अविज्जाय सम्मोहेन समन्नागतो. एत्तावताति एत्तकेन कारणेन अविज्जागतो समङ्गीभूतेन उपगतो, अविज्जाय वा उपेतो नाम होति.

दुतियेपीति विज्जासुत्ते. ‘‘विज्जावसेन देसना’’ति अयमेव विसेसोति आह ‘‘एसेव नयो’’ति.

अविज्जासुत्तादिवण्णना निट्ठिता.