२. देवदहसुत्तवण्णना
२. देवा वुच्चन्ति राजानो ‘‘दिब्बन्ति कामगुणेहि कीळन्ति लळन्ति, अत्तनो वा पुञ्ञानुभावेन जोतन्ती’’ति कत्वा. तेसं दहोति देवदहो. सयंजातो वा सो होति, तस्मापि ‘‘देवदहो’’ति वुत्तो. तस्स अविदूरे निगमो ‘‘देवदह’’न्त्वेव सङ्खं गतो यथा ‘‘वरणानगरं, गोधागामो’’ति. पच्छाभूमियं अपरदिसायं निविट्ठजनपदो पच्छाभूमं, तं गन्तुकामा पच्छाभूमगमिका. ते सभारेति ते भिक्खू थेरस्स वसेन सभारे कातुकामताय. यदि थेरो तेसं भारो, थेरस्सपि ते भारा एवाति ‘‘ते सभारे कातुकामताया’’ति वुत्तं. एवञ्हि थेरो ते ओवदितब्बे अनुसासितब्बे मञ्ञतीति. इदानि तमत्थं विवरन्तो ‘‘यो ही’’तिआदिमाह. अयं निब्भारो नाम कञ्चि पुग्गलं अत्तनो भारं कत्वा अवत्तनतो.
चतुब्बिधेनाति धातुकोसल्लं आयतनकोसल्लं पटिच्चसमुप्पादकोसल्लं ठानाट्ठानकोसल्लन्ति एवं चतुब्बिधेन.
ते महल्लकाबाधिकातिदहरपुग्गले गण्हित्वाव गच्छति. ते हि दिवसद्वयेन वूपसन्तपरिस्समा एव. हत्थिवानरतित्तिरपटिबद्धं वत्थुं कथेत्वा. ‘‘एळकाळगुम्बेति काळतिणगच्छमण्डपे’’तिपि वदन्ति.
विविधं नानाभूतं रज्जं विरज्जं, विरज्जमेव वेरज्जं, तत्थ गतं, परदेसगतन्ति अत्थो. तेनाह ‘‘एकस्सा’’तिआदि. चित्तसुदत्तादयोति चित्तगहपतिअनाथपिण्डिकादयो. वीमंसकाति धम्मविचारका. किन्ति कीदिसं. दस्सनन्ति सिद्धन्तं. आचिक्खति कीदिसन्ति अधिप्पायो. धम्मस्साति भगवता वुत्तधम्मस्स. अनुधम्मन्ति अनुकूलं अविरुज्झनधम्मं. सो पन वेनेय्यज्झासयानुरूपदेसनावित्थारोति आह – ‘‘वुत्तब्याकरणस्स अनुब्याकरण’’न्ति. धारेति अत्तनो फलन्ति धम्मो, कारणन्ति आह – ‘‘सहधम्मिकोति सकारणो’’ति. इमिनापि पाठन्तरेन वादो एव दीपितो, न तेन पकासिता किरिया.
तण्हावसेनेव छन्नम्पि पदानं अत्थो वेदितब्बो. यस्मा रागादयो तण्हाय एव अवत्थाविसेसाति. तेनाह ‘‘तण्हा ही’’तिआदि. विहनन्ति कायं चित्तञ्चाति विघातो, दुक्खन्ति आह – ‘‘अविघातोति निदुक्खो’’ति. उपायासेति उपतापेतीति उपायासो, उपतापो. तप्पटिपक्खो पन अनुपायासो निरूपतापो दट्ठब्बो. सब्बत्थाति सब्बवारेसु.
देवदहसुत्तवण्णना निट्ठिता.