११. अनुसयसुत्तवण्णना
२००. दुतियवग्गे अत्तनोति आयस्मा राहुलो अत्तनो सविञ्ञाणकं कायं दस्सेति. परस्साति परस्स अविञ्ञाणककायं दस्सेति. परसन्ताने वा अरूपे धम्मे अग्गहेत्वा रूपकायमेव गण्हन्तो वदति. अपरे ‘‘असञ्ञसत्तानं अत्तभावं सन्धाय तथा वुत्त’’न्ति वदन्ति. पुरिमेनाति ‘‘इमस्मिं सविञ्ञाणके काये’’ति इमिना पदेन. पच्छिमेनाति ‘‘बहिद्धा’’ति इमिना पदेन. एते किलेसाति एते दिट्ठितण्हामानसञ्ञिता किलेसा. एतेसु वत्थूसूति अज्झत्तबहिद्धावत्थूसु. सम्म…पे… पस्सतीति पुब्बभागे विपस्सनाञाणेन सम्मसनवसेन, मग्गक्खणे अभिसमयवसेन सुट्ठु अत्तपच्चक्खेन ञाणेन पस्सति.
अनुसयसुत्तवण्णना निट्ठिता.