१. सत्तधातुसुत्तवण्णना

९५. आभातीति आभा, आलोकभावेन निप्फज्जति, उपट्ठातीति वा अत्थो. सो एव निज्जीवट्ठेन धातूति आभाधातु. आलोकस्साति आलोककसिणस्स. सुट्ठु, सोभनं वा भातीति सुभं. कसिणसहचरणतो झानं सुभं. सेसं वुत्तनयमेव. सुपरिसुद्धवण्णं कसिणं. आकासानञ्चादयोपि सुभारम्मणं एवाति केचि. देसनं निट्ठापेसीति देसनं उद्देसमत्ते एव ठपेसि. पाळियं ‘‘अन्धकारं पटिच्च पञ्ञायती’’ति एत्थापि आरम्मणमेव गहितं, तथा ‘‘अयं धातु असुभं पटिच्च पञ्ञायती’’ति एत्थापि. यथा हि इध सुवण्णं कसिणं सुभन्ति अधिप्पेतं, एवं दुब्बण्णं असुभन्ति.

अन्धकारं पटिच्चाति अन्धकारं पटिच्छादकपच्चयं पटिच्च. पञ्ञायतीति पाकटो होति. तेनाह ‘‘अन्धकारो ही’’तिआदि. आलोकोपि, अन्धकारेन परिच्छिन्नो होतीति योजना. अन्धकारो ताव आलोकेन परिच्छिन्नो होतु ‘‘यत्थ आलोको नत्थि, तत्थ अन्धकारो’’ति आलोको कथं अन्धकारेन परिच्छिन्नो होतीति आह ‘‘अन्धकारेन हि सो पाकटो होती’’ति. परिच्छेदलेखाय विय चित्तरूपं अन्धकारेन हि परितो परिच्छिन्नो हुत्वा पञ्ञायति, यथा तं छायाय आतपो. एसेव नयोति असुभसुभानं अञ्ञमञ्ञपरिच्छिन्नतं अतिदिसित्वा तत्थ अधिप्पेतमेव दस्सेन्तो ‘‘असुभे सति सुभं पञ्ञायती’’ति आह. एवमाहाति ‘‘असुभं पटिच्च सुभं पञ्ञायती’’ति अवोच. ‘‘रूपी रूपानि पस्सती’’तिआदीसु विय उत्तरपदलोपेनायं निद्देसोति आह ‘‘रूपं पटिच्चाति रूपावचरसमापत्तिं पटिच्चा’’ति. ताय हि सति अधिगताय. रूपसमतिक्कमा वा होतीति सभावारम्मणानं रूपज्झानानं समतिक्कमा आकासानञ्चायतनसमापत्ति नाम होतीति अत्थो. एसेव नयोति इमिना ‘‘आकासानञ्चायतनसमतिक्कमा विञ्ञाणञ्चायतनसमापत्ति नाम होती’’तिआदिना द्वेपि पकारे अतिदिसति. पटिसङ्खाति पटिसङ्खाञाणेन. अप्पवत्तिन्ति यथापरिच्छिन्नकालं अप्पवत्तनं. एतेन खणनिरोधादिं पटिक्खिपति.

कथं समापत्ति पत्तब्बाति इमासु सत्तसु धातूसु का पकारा सञ्ञासमापत्ति नाना हुत्वा समापज्जितब्बा. तेनाह ‘‘कीदिसा समापत्तियो’’तिआदि. सञ्ञाय अत्थिभावेनाति पटुकिच्चाय सञ्ञाय अत्थिभावेन. सुखुमसङ्खारानं तत्थ समापत्तियं अवसिस्सताय. निरोधोवाति सङ्खारानं निरोधो एव.

सत्तधातुसुत्तवण्णना निट्ठिता.