२. फस्सनानत्तसुत्तवण्णना

८६. जातिपसुतिआरम्मणादिभेदेन नानाभावो फस्सो. जातिपच्चयभेदेन हि पच्चयुप्पन्नस्स भेदो होतियेव. धम्मपरिच्छेदवसेन धातुदेसनायं तिस्सो मननमत्ता धातुयोव मनोधातुयो. किरियामयस्स चित्तुप्पत्तिविभागेन पच्चयुप्पन्नस्स वसेन धातुदेसनायं मननट्ठेन धातुताय सामञ्ञतो मनोद्वारावज्जनं ‘‘मनोधातू’’ति अधिप्पेतन्ति वुत्तं ‘‘मनोसम्फस्सो मनोद्वारे पठमजवनसम्पयुत्तो’’तिआदि. तस्माति यस्मा कामं सम्पटिच्छनमनोधातुअनन्तरं उप्पज्जमानो सन्तीरणविञ्ञाणधातुया सम्पयुत्तो फस्सोपि मनोसम्फस्सो एव नाम, दुब्बलत्ता पन सो सब्बभवेसु असम्भवतो च गहितो अनवसेसतो गहणं न होतीति मनोद्वारे जवनसम्फस्सो होति, तस्मा. अयमेत्थ अत्थोति अयं इध अधिप्पायानुगतो अत्थो.

फस्सनानत्तसुत्तवण्णना निट्ठिता.