९. तिस्ससुत्तवण्णना

२४३. भण्डकन्ति पत्तचीवरं. निसीदियेव वत्तस्स असिक्खितत्ता. तुज्जनत्थेन वाचा एव सत्तियोति आह ‘‘वाचासत्तीही’’ति.

वाचाय सन्नितोदकेनाति वचनसङ्खातेन समन्ततो निच्चं कत्वा उपतुदनतो सन्नितुदकेन. विभत्तिअलोपेन सो निद्देसो. तेनाह ‘‘वचनपतोदेना’’ति.

उच्चकुले जाति एतस्साति जातिमा, ब्रह्मजातिको इसि. मातङ्गोति चण्डालो. तत्थाति कुम्भकारसालायं. ओकासं याचि कुम्भकारं. महन्तं दिस्वा आह – ‘‘पठमतरं पविट्ठो पब्बजितो’’ति. तत्थेवाति तस्सायेव सालाय द्वारं निस्साय द्वारसमीपे. मेति मया. खम मय्हन्ति मय्हं अपराधं खमस्सु. तेति तया. पुन तेति तव. गण्हि उग्गन्तुं अप्पदानवसेन. तेनाह ‘‘नास्स उग्गन्तुं अदासी’’ति. पबुज्झिंसूति निद्दाय पबुज्झिंसु पकतिया पबुज्झनवेलाय उपगतत्ता.

छवोति निहीनो. अनन्तमायोति विविधमायो मायावी.

सोति मत्तिकापिण्डो. ‘‘सत्तधा भिज्जी’’ति एत्थायमधिप्पायो – यं तेन तापसेन पारमितापरिभावनसमिद्धाहि नानाविहारसमापत्तिपरिपूरिताहि सीलदिट्ठिसम्पदादीहि सुसङ्खतसन्ताने महाकरुणाधिवासे महासत्ते बोधिसत्ते अरियूपवादकम्मं अभिसपसङ्खातं फरुसवचनं पवत्तितं, तं महासत्तस्स खेत्तविसेसभावतो तस्स च अज्झासयफरुसताय दिट्ठधम्मवेदनीयं हुत्वा सचे सो महासत्तं न खमापेति, तं कक्खळं हुत्वा विपच्चनसभावं जातं, खमापिते पन महासत्ते पयोगसम्पत्तिपटिबाहितत्ता अविपाकधम्मतं आपज्जति अहोसिकम्मभावतो. अयञ्हि अरियूपवादपापस्स दिट्ठधम्मवेदनीयस्स च धम्मता. यं तं बोधिसत्तेन सूरियुग्गमननिवारणं कतं, अयं बोधिसत्तेन दिट्ठो उपायो. तेन हि उब्बाळ्हा मनुस्सा बोधिसत्तस्स सन्तिके तापसं आनेत्वा खमापेसुं. सोपि च महासत्तस्स गुणे जानित्वा तस्मिं चित्तं पसादेसि. यं पनस्स मत्थके मत्तिकापिण्डस्स ठपनं तस्स सत्तधा फालनं कतं, तं मनुस्सानं चित्तानुरक्खणत्थं. अञ्ञथा हि इमे पब्बजिता समाना चित्तस्स वसं वत्तन्ति, न पन चित्तमत्तनो वसे वत्तापेन्तीति महासत्तम्पि तेन सदिसं कत्वा गण्हेय्युं, तदस्स नेसं दीघरत्तं अहिताय दुक्खायाति. पतिरूपन्ति युत्तं.

तिस्ससुत्तवण्णना निट्ठिता.