४. विपस्सीसुत्तवण्णना
४. विप्फन्दन्तीति निमिसनवसेन. अनिमिसेहीति विगतनिमिसेहि उम्मीलन्तेहेव. तेन वुत्तं महापदाने. एत्थाति एतस्मिं ‘‘विपस्सी’’ति पदे, एतस्मिं वा ‘‘अनिमिसेही’’तिआदिके यथागते सुत्तन्ते.
महापुरिसस्स अनिमिसलोचनतो ‘‘विपस्सी’’ति समञ्ञापटिलाभस्स कारणं वुत्तं, तं अकारणं अञ्ञेसम्पि महासत्तानं चरिमभवे अनिमिसलोचनत्ताति चोदनं सन्धाय ‘‘एत्थ चा’’तिआदिं वत्वा ततो पन अञ्ञमेव कारणं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. पलाळयमानस्साति तोसेन्तस्स. अनादरे चेतं सामिवचनं. अट्टस्साति अत्थस्स.
पुञ्ञुस्सयसङ्खातो भगो अस्स अतिसयेन अत्थीति भगवाति ‘‘भाग्यसम्पन्नस्सा’’ति वुत्तं. सम्माति सम्मदेव याथावतो, ञायेन कारणेनाति वुत्तं होतीति आह ‘‘नयेन हेतुना’’ति. सं-सद्दो ‘‘साम’’न्ति इमिना समानत्थोति आह ‘‘सामं पच्चत्तपुरिसकारेना’’ति, सयम्भुञाणेनाति अत्थो. सम्मा, सामं बुज्झि एतेनाति सम्बोधो वुच्चति मग्गञाणं, ‘‘बुज्झति एतेना’’ति कत्वा इध सब्बञ्ञुतञ्ञाणस्सपि सङ्गहो. बोधिमा सत्तो बोधिसत्तो, पुरिमपदे उत्तरपदलोपो यथा ‘‘साकपत्थवो’’ति. बुज्झनकसत्तोति एत्थ महाबोधियानपटिपदाय बुज्झतीति बोधि च सो सत्तविसेसयोगतो सत्तो चाति बोधिसत्तो. पत्थयमानो पवत्ततीति ‘‘कुदास्सु नाम महन्तं बोधिं पापुणिस्सामी’’ति सञ्जातच्छन्दो पटिपज्जति. दुक्खन्ति जातिआदिमूलकं दुक्खं. कामं चुतुपपातापि मरणजातियो, ‘‘जायति मीयती’’ति पन वत्वा ‘‘चवति उपपज्जती’’ति वचनं न एकभवपरियापन्नानं तेसं गहणं, अथ खो नानाभवपरियापन्नानं एकज्झं गहणन्ति दस्सेन्तो आह ‘‘इदं…पे… वुत्त’’न्ति. तस्स निस्सरणन्ति तस्स जरामरणस्स निस्सरणन्ति वुच्चति. यस्मा महासत्तो जिण्णब्याधिमते दिस्वा पब्बजितो, तस्मास्स जरामरणमेव आदितो उपट्ठासि.
उपायमनसिकारेनाति उपायेन विधिना ञायेन मनसिकारेन पथेन मनसिकारस्स पवत्तनतो. समायोगो अहोसीति याथावतो पटिविज्झनवसेन समागमो अहोसि. योनिसो मनसिकाराति हेतुम्हि निस्सक्कवचनन्ति तस्स ‘‘योनिसो मनसिकारेना’’ति हेतुम्हि करणवचनेन आह. जातिया खो सति जरामरणन्ति ‘‘किम्हि नु खो सति जरामरणं होति, किं पच्चया जरामरण’’न्ति जरामरणे कारणं परिग्गण्हन्तस्स बोधिसत्तस्स ‘‘यस्मिं सति यं होति, असति च न होति, तं तस्स कारण’’न्ति एवं अब्यभिचारजातिकारणपरिग्गण्हनेन ‘‘जातिया खो सति जरामरणं होति, जातिपच्चया जरामरण’’न्ति या जरामरणस्स कारणपरिग्गाहिका पञ्ञा उप्पज्जि, ताय उप्पज्जन्तिया चस्स अभिसमयो पटिवेधो अहोसीति अत्थो.
इतीति वुत्तप्पकारपरामसनं. हीति निपातमत्तं. इदन्ति यथावुत्तस्स वट्टस्स पच्चक्खतो गहणं. तेनाह ‘‘एवमिद’’न्ति. इध अविज्जाय समुदयस्स आगतत्ता ‘‘एकादससु ठानेसू’’ति वुत्तं. समुदयं सम्पिण्डेत्वाति सङ्खारादीनं समुदयं एकज्झं गहेत्वा. अनेकवारञ्हि समुदयदस्सनवसेन ञाणस्स पवत्तत्ता ‘‘समुदयो समुदयो’’ति आमेडितवचनं. अथ वा ‘‘एवं समुदयो होती’’ति इदं न केवलं निब्बत्तिदस्सनपरं, अथ खो पटिच्चसमुप्पादसद्दो विय पटिच्चसमुप्पादमुखेन इध समुदयसद्दो निब्बत्तिमुखेन पच्चयत्तं वदति. विञ्ञाणादयो च यावन्तो इध पच्चयधम्मा निद्दिट्ठा, ते सामञ्ञरूपेन ब्यापनिच्छावसेन गण्हन्तो ‘‘समुदयो समुदयो’’ति अवोच. तेनाह ‘‘अविज्जापच्चया सङ्खारानं समुदयो होती’’ति. दस्सनट्ठेन चक्खूति समुदयस्स पच्चक्खतो दस्सनभावो चक्खु. ञातट्ठेनाति ञातभावेन. पजाननट्ठेनाति ‘‘अविज्जासङ्खारादितंतंपच्चयधम्मपवत्तिया एतस्स दुक्खक्खन्धस्स समुदयो’’ति पकारतो वा जाननट्ठेन. पटिवेधनट्ठेनाति ‘‘अयं अविज्जादि पच्चयधम्मो इमस्स सङ्खारादिकस्स पच्चयभावतो समुदयो’’ति पटिविज्झनट्ठेन. ओभासनट्ठेनाति समुदयभावपटिच्छादकस्स मोहन्धकारस्स किलेसन्धकारस्स विधमनवसेन अवभासनवसेन. तं पनेतं ‘‘चक्खु’’न्तिआदिना वुत्तं ञाणं. निरोधवारेति पटिलोमवारे. सो हि ‘‘किस्स निरोधा जरामरणनिरोधो’’ति निरोधकित्तनवसेन आगतो.
विपस्सीसुत्तवण्णना निट्ठिता.