२. विभङ्गसुत्तवण्णना

२. दुतियेपीति दुतियसुत्तेपि. पि-सद्देन तदञ्ञेसु सुत्तेसुपीति अत्थो. ‘‘विसुद्धिमग्गे वुत्ता एवा’’ति वत्वापि तदेकदेसं इध विनियोगक्खमं दस्सेतुं ‘‘यथा ही’’तिआदि वुत्तं. तन्ति मूलं. वित्थारदेसनन्ति ‘‘विभजिस्सामी’’ति पदस्स अत्थस्स दस्सनवसेन पवत्तं विभङ्गदेसनं. उद्देसदेसना पठमसुत्ते अनुलोमदेसनासदिसाव. पुन वट्टविवट्टं दस्सेन्तोति ‘‘इति खो, भिक्खवे’’तिआदिना पवत्तिं निवत्तिञ्च दस्सेन्तो. पठमं उद्देसवसेन विभजनवसेन विवट्टं दस्सितं, ततो एव ब्यतिरेकनयेन विवट्टम्पि दस्सितमेव होतीति पुनग्गहणं.

तेसं तेसं सत्तानन्ति इदं किञ्चि पकारतो अनामसित्वा सब्बेपि सत्ते सामञ्ञतो ब्यापेत्वा गहणन्ति आह ‘‘सङ्खेपतो…पे… निद्देसो’’ति. गतिजातिवसेनाति पञ्चगतिवसेन, तत्थापि एकेकाय गतिया खत्तियादिभुम्मदेवादिहत्थिआदिजातिवसेन च. ‘‘चित्तं मनो’’तिआदीसु विय किच्चविसेसं, ‘‘मानस’’न्तिआदीसु विय समाने अत्थे सद्दविसेसं, ‘‘पण्डर’’न्तिआदीसु विय गुणविसेसं, ‘‘चेतसिकं हदय’’न्तिआदीसु विय निस्सयविसेसं, ‘‘चित्तस्स ठिती’’तिआदीसु विय अञ्ञस्स अवत्थाभावविसेसं, ‘‘अलुब्भना’’तिआदीसु विय अञ्ञस्स किरियाभावविसेसं, ‘‘अलुब्भितत्त’’न्तिआदीसु विय अञ्ञस्स अभावताविसेसन्ति एवमादिकं अनपेक्खित्वा धम्ममत्तं वा दीपना सभावनिद्देसो. जिण्णस्स जीरणवसेन पवत्तनाकारो जीरणताति आह ‘‘आकारनिद्देसो’’ति.

कालातिक्कमे किच्चनिद्देसाति कललकालतो पभुति पुरिमरूपानं जरापत्तक्खणे उप्पज्जमानानि पच्छिमरूपानि परिपक्करूपानुरूपानि परिणतपरिणतानि उप्पज्जन्तीति अनुक्कमेन सुपरिणतरूपानं परिपाककाले उप्पज्जमानानि खण्डिच्चादिसभावानि उप्पज्जन्तीति ‘‘खण्डिच्च’’न्तिआदयो कालातिक्कमे जराय किच्चनिद्देसा. पकतिनिद्देसाति फलविपच्चनपकतिया निद्देसा, जराय वा पापुणितब्बफलमेव पकति, तस्सा निद्देसा, न च खण्डिच्चादीनेव जराति उदकादिगतमग्गेसु तिणरुक्खसंभग्गतादयो विय परिपाकगतमग्गसङ्खातेसु परिपुण्णरूपेसु लब्भमाना खण्डिच्चादयो जराय गतमग्गाइच्चेव वेदितब्बा, न जराति.

यस्मा जरं पत्तस्स आयु हायति, इन्द्रियानि जज्जरानि होन्तीति आयुहानादयो पकतिनिद्देसा, तस्मा वुत्तं ‘‘पच्छिमा द्वे पकतिनिद्देसा’’ति. तेनाह ‘‘इमेहि पना’’तिआदि.

अविञ्ञायमानन्तरत्ता अवीचिजरा मणिआदीसु मन्ददसकादीसु एकेकदसकेसु च खणे खणे जिण्णविकारादीनं दुविञ्ञेय्यत्ता. ततो अञ्ञेसूति मणिआदितो अञ्ञेसु अहिच्छत्तकादीसु, पाणीनं एकभवपरियापन्ने सकलआयुस्मिं गहिततरुणयुवाजराकालेसु, एकद्वित्तिदिवसातिक्कमेसु पुप्फादीसु वाति अत्थो. तत्थ हि जराविसेसस्स सुविञ्ञेय्यत्ता सवीचिजरा नाम.

चवनकवसेनाति चवनकानं खन्धानं वसेन. एकचतुपञ्चक्खन्धाय चुतिया चवनमेव चवनताति आह ‘‘भाववचनेन लक्खणनिदस्सन’’न्ति, पाळियं ‘‘चुती’’ति वुत्तस्स मरणस्स सभावदस्सनन्ति अत्थो. भङ्गुप्पत्ति भिज्जमानता. तेन ‘‘भेदो’’ति इमिना खन्धानं भिज्जमानता भेदसमङ्गिता वुत्ताति दस्सेति. ठानाभावपरिदीपनन्ति केनचिपि आकारेन अवट्ठानाभावदीपनं. घटस्सेवाति हि विसदिसूदाहरणं. यथा घटे भिन्ने कपालादिअवयवसेसो लब्भति, न एवं चुतिक्खन्धेसु भङ्गेसु, न कोचि विसेसो तिट्ठतीति दस्सेतुं ‘‘अन्तरधान’’न्ति वुत्तं. मच्चुसङ्खातं मरणन्ति मच्चुसञ्ञितं मरणं. ‘‘कालमरण’’न्ति वदन्ति. सन्तानस्स अच्चन्तसमुच्छेदभूतं खीणासवानं मरणं समुच्छेदमरणं. आदि-सद्देन खणिकमरणं सङ्गण्हाति. तस्स किरियाति अन्तकस्स किरिया, या लोके वुच्चति ‘‘मच्चू’’ति, मरणन्ति अत्थो. चवनकालो एव वा अनतिक्कमनीयत्ता विसेसेन कालोति वुत्तोति तस्स किरिया अत्थतो चुतिक्खन्धानं भेदपवत्तियेव. ‘‘मच्चु मरण’’न्ति वा एत्थ समासं अकत्वा यो ‘‘मच्चू’’ति वुच्चति भेदो, तमेव मरणं ‘‘पाणचागो’’ति एवमेत्थ अत्थो दट्ठब्बो.

चतुवोकारवसेनाति चतुवोकारभववसेन. तत्थ हि रूपकायसञ्ञितो कळेवरो नत्थि, यं निक्खिपेय्य. किञ्चापि एकवोकारभवेपि कळेवरनिक्खेपो नत्थि, रूपकायस्स पन तत्थ अत्थितामत्तं गहेत्वा ‘‘एकवोकारवसेन कळेवरस्स निक्खेपो’’ति वुत्तो. चतुवोकारवसेन चाति च-सद्देन ‘‘सेसद्वयवसेन खन्धानं भेदो’’ति इममत्थं दस्सेति सब्बत्थेव खन्धभेदसब्भावतो. सेसद्वयवसेनाति सेसभवद्वयवसेनेव कळेवरस्स निक्खेपो. यदिपि एकवोकारभवे रूपकायो विज्जति, कळेवरनिक्खेपो पन नत्थीति ‘‘कळेवरस्स सब्भावतो’’इच्चेव वुत्तं. यस्मा मनुस्सादीसु कळेवरनिक्खेपो अत्थि, तस्मा मनुस्सादीसु कळेवरस्स निक्खेपोति योजना. कळेवरं निक्खिपीयति एतेनाति मरणं कळेवरस्स निक्खेपो. एकतो कत्वाति एकज्झं कत्वा, एकज्झं गहणमत्तेन.

जायनट्ठेनातिआदि आयतनवसेन योनिवसेन च द्वीहि पदेहि सब्बसत्ते परियादियित्वा परियादियित्वा जातिं दस्सेतुं वुत्तं. केचि पन ‘‘कत्तुभाववसेन पदद्वयं वुत्त’’न्ति वदन्ति. ‘‘तेसं तेसं सत्तानं जाति सञ्जाती’’ति पन कत्तरि सामिनिद्देसस्स कतत्ता उभयत्थापि भावनिद्देसो. सम्पुण्णा जाति सञ्जाति. पाकटा निब्बत्ति अभिनिब्बत्ति. तेसं तेसं सत्तानं…पे… अभिनिब्बत्तीति सत्तवसेन पवत्तत्ता वोहारदेसना.

तत्र तत्राति एकचतुवोकारभवेसु द्विन्नं सेसरूपधातुयं पटिसन्धिक्खणे उप्पज्जमानानं पञ्चन्नं, कामधातुयं विकलाविकलिन्द्रियानं वसेन सत्तन्नं नवन्नं दसन्नं पुन दसन्नं एकादसन्नञ्च आयतनानं वसेन सङ्गहो वेदितब्बो. सन्ततियन्ति येन कम्मुना खन्धानं पातुभावो, तेन अभिसङ्खतसन्ततियं. तञ्च खो पटिसन्धिक्खणवसेन वेदितब्बं.

कम्मंयेव कम्मभवो ‘‘भवति एतस्मा उपपत्तिभवो’’ति कत्वा. कम्मेन निय्यादितअत्तभावुपपत्तिवसेन भवतीति भवो, तथा तथा निब्बत्तविपाको कटत्तारूपञ्च. अट्ठकथायं पन ‘‘भवतीति कत्वा भवो’’ति उपपत्तिभवस्स वक्खमानत्ता ‘‘कम्मं फलवोहारेन भवोति वुत्त’’न्ति कथितं.

उपादियन्ति सत्ता दळ्हग्गाहं गण्हन्ति एतेन किलेसकामेन. न केवलं इध करणसाधनमेव, अथ खो कत्तुसाधनम्पि लब्भतीति वुत्तं ‘‘सयं वा’’ति. तन्ति वत्थुकामं. कामो च सो कामनट्ठेन, उपादानञ्च भुसमादानट्ठेनाति कामुपादानं. एतन्ति कामुपादानपदं. पुन एतन्ति कामुपादानसङ्खातं.

सस्सतो अत्ताति इदं पुरिमदिट्ठिं उपादियमानं उत्तरदिट्ठिं दस्सेतुं वुत्तं. यथा एसा दिट्ठि दळ्हीकरणवसेन पुरिमं उत्तरा उपादियति, एवं ‘‘नत्थि दिन्न’’न्तिआदिकापीति. अत्तग्गहणं पन ‘‘अत्तवादुपादान’’न्ति इदं न दिट्ठुपादानदस्सनन्ति दट्ठब्बं. लोको चाति अत्तग्गहणविनिमुत्तग्गहणं दिट्ठुपादानभूतं इध पुरिमदिट्ठिउत्तरदिट्ठिवचनेहि वुत्तन्ति दट्ठब्बं.

येन मिच्छाभिनिवेसेन गोसीलगोवतादिं समादियति चेव अनुतिट्ठति च, सो गोसीलगोवतादीनीति अधिप्पेतानि. तेनाह ‘‘गोसील…पे… सयमेव उपादानानी’’ति. अभिनिवेसतोति अभिनिवेसनतो.

अत्तवादुपादानन्ति ‘‘अत्ता’’ति वादस्स पञ्ञापनस्स गहणस्स कारणभूता दिट्ठीति अत्थो. अत्तवादमत्तमेवाति अत्तस्स अभावा ‘‘अत्ता’’ति इदं वचनमत्तमेव. उपादियन्ति दळ्हं गण्हन्ति.

चक्खुद्वारादीसु पवत्तायाति इदं तण्हाय रूपतण्हादिभावस्स कारणवचनं छद्वारारम्मणिकधम्मानं पटिनियतारम्मणत्ता. जवनवीथिया पवत्तायाति इदं तस्सा पवत्तिट्ठानदस्सनं. सभावेनेव उट्ठातुं असक्कोन्तस्स वेळु विय निस्सयो अहुत्वा ओलुम्भकभावेन भावो उपादानस्स पच्चयभावतो आरम्मणम्पि तंसदिसं वुत्तं. रूपेति विसये भुम्मं. सा तिविधा होतीति सम्बन्धो. कामतण्हा कामस्सादभावेन पवत्तिया. एवं अस्सादेन्तीति सस्सतदिट्ठिया सहजातनिस्सयसम्पयुत्तअत्थिअविगतादिपच्चयभूताय संसट्ठत्ता निच्चधुवसस्सताभिनिवेसमुखेन अस्सादेन्ती. भवसहगता तण्हा भवतण्हा. भवति तिट्ठति सब्बकालन्ति हि भवदिट्ठि भवो उत्तरपदलोपेन, भवस्सादवसेन पवत्तिया च. इमिना नयेन विभवतण्हाति एत्थ अत्थो वेदितब्बो. विभवति उच्छिज्जति विनस्सतीति एवं पवत्ता दिट्ठि विभवो उत्तरपदलोपेन. एवं तानि अट्ठारसाति या छ कामतण्हा, छ भवतण्हा, छ विभवतण्हा वुत्ता, एतानि अट्ठारस तण्हाविचरितानि तण्हापच्चयो. अज्झत्तन्ति सकसन्ततियं. बहिद्धाति ततो बहिद्धा. अतीतारम्मणानि वा होन्तु इतरारम्मणानि वा, सयं पन अतीतानि छत्तिंस तण्हाविचरितानि. सेसपदद्वयेपि एसेव नयो. ‘‘अट्ठसतं तण्हाविचरितानी’’तिआदिना सम्बन्धो. इदानि अपरेनपि पकारेन अट्ठसतं तण्हाविचरितानि दस्सेतुं ‘‘अज्झत्तिकस्सा’’तिआदिमाह. तत्थ अज्झत्तिकस्साति अज्झत्तिकखन्धपञ्चकं. उपयोगत्थे हि इदं सामिवचनं. उपादायाति गहेत्वा. अस्मीति होतीति यदेतं अज्झत्तिकं खन्धपञ्चकं उपादाय तण्हामानदिट्ठिवसेन समुदायग्गाहतो अस्मीति गाहो होति, तस्मिं सतीति अत्थो. इध पन रूपादिआरम्मणवसेन अत्थो वेदितब्बो. इत्थमस्मीति होतीति खत्तियादीसु ‘‘इदंपकारो अह’’न्ति एवं तण्हामानदिट्ठिवसेन होतीति अत्थो. इदं ताव अनुपनिधाय गहणं.

एवमादीनीति आदि-सद्देन ‘‘एवमस्मि, अञ्ञथास्मि, अहं भविस्सं, इत्थं भविस्सं, एवं भविस्सं, अञ्ञथा भविस्सं, असस्मि, सतस्मि, अहं सियं, इत्थं सियं, एवं सियं, अञ्ञथा सियं, अपाहं सियं, अपाहं इत्थं सियं, अपाहं एवं सियं, अपाहं अञ्ञथा सिय’’न्ति एतेसं सङ्गहो. उपनिधाय गहणम्पि दुविधं समतो असमतो वाति तं दस्सेतुं ‘‘एवमस्मि, अञ्ञथास्मी’’ति च वुत्तं. तत्थ एवमस्मीति इदं समतो उपनिधाय गहणं, यथा अयं खत्तियो, एवं अहमस्मीति अत्थो. अञ्ञथास्मीति इदं पन असमतो गहणं, यथायं खत्तियो ततो अञ्ञथा अहं हीनो वा अधिको वाति अत्थो. इमानि ताव पच्चुप्पन्नवसेन चत्तारि तण्हाविचरितानि. भविस्सन्तिआदीनि पन चत्तारि अनागतवसेन वुत्तानि, तेसं पुरिमचतुक्के वुत्तनयेनेव अत्थो वेदितब्बो. असस्मीति सस्सतो अस्मि, निच्चस्सेतं अधिवचनं. सतस्मीति असस्सतो अस्मि, अनिच्चस्सेतं अधिवचनं. इति इमानि द्वे सस्सतुच्छेदवसेन वुत्तानि. इतो परानि सियन्तिआदीनि चत्तारि संसयपरिवितक्कवसेन वुत्तानि, तानि पुरिमचतुक्के वुत्तनयेन अत्थतो वेदितब्बानि. अपाहं सियन्तिआदीनि पन चत्तारि ‘‘अपि नामाहं भवेय्य’’न्ति एवं पत्थनाकप्पनवसेन वुत्तानि, तानिपि पुरिमचतुक्के वुत्तनयेनेव वेदितब्बानि. एवमेतेसु –

द्वे दिट्ठिसीसा चत्तारो, सुद्धसीसा सीसमूलका;

तयो तयोति एतानि, अट्ठारस विभावये.

एते हि सस्सतुच्छेदवसेन वुत्ता द्वे दिट्ठिसीसा नाम, ‘‘अस्मि, भविस्सं सियं, अपाहं सिय’’न्ति एते चत्तारो सुद्धसीसा नाम, ‘‘इत्थमस्मी’’तिआदयो तयो तयोति द्वादस सीसमूलका नामाति वेदितब्बं. इध पाळियं रूपारम्मणादिवसेन तण्हा आगताति आह ‘‘अज्झत्तिकरूपादिनिस्सितानी’’ति. अट्ठारस तण्हाविचरितानीति आनेत्वा सम्बन्धो. इमिना अस्मीति इमिना अभिसेकसेनापच्चादिना ‘‘खत्तियो अह’’न्ति मूलभावतो ‘‘अस्मी’’ति होति. सेसं पुब्बे वुत्तनयेनेव वेदितब्बं. सङ्गहेति तण्हाय यथावुत्तविभागस्स संखिपनवसेन सङ्गण्हने करियमाने. ‘‘छयिमे, भिक्खवे, तण्हाकाया’’तिआदि निद्देसो. ‘‘रूपे तण्हा रूपतण्हा’’तिआदि निद्देसत्थो. ‘‘कामरागभावेना’’तिआदिको, ‘‘अज्झत्तिकस्सुपादाया’’तिआदिको च निद्देसवित्थारो. ‘‘रूपादीसु आरम्मणेसु छळेवा’’तिआदिको सङ्गहो.

यस्मा चक्खुद्वारादीसु एकेकस्मिं द्वारे उप्पज्जनकविञ्ञाणानि विय अनेका एव वेदना, तस्मा ता रासिवसेन एकज्झं गहेत्वा ‘‘छ वेदनाकाया’’ति वुत्तन्ति आह ‘‘वेदनासमूहा’’ति. निस्सयभावेन उप्पत्तिद्वारभावेन नानापच्चया होन्ति चक्खुधातुआदयो, ता कुच्छिना धारेन्तियो विय पोसेन्तियो विय च होन्तीति तासं मातुसदिसता वुत्ता. चक्खुसम्फस्सहेतूति निस्सयादिचक्खुसम्फस्सपच्चया. अयन्ति अयं वेदना ‘‘चक्खुसम्फस्सजा वेदना’’तिआदिना साधारणतो वुत्ता. एत्थाति एतस्मिं वेदनापदे. सब्बसङ्गाहिकाति कुसलाकुसलविपाककिरियानं वसेन सब्बसङ्गाहिका. एवं विभङ्गे आगतनयेन साधारणतो वत्वापि इधाधिप्पेतवेदनमेव दस्सेतुं ‘‘विपाकवसेन पना’’तिआदिमाह. चक्खुम्हि सम्फस्सोति चक्खुम्हि निस्सयभूते उप्पन्नफस्सो. एस नयो सेसेसु. यस्मा चक्खादीनि विसुद्धिमग्गे खन्धनिद्देसे लक्खणादिविभागतो, आयतननिद्देसे विसेसतो, सामञ्ञतो च सद्दत्थदस्सनादिवसेन विभावितानि, तस्मा ‘‘यं वत्तब्बं…पे… वुत्तमेवा’’ति आह.

नमनलक्खणन्ति आरम्मणाभिमुखं हुत्वा नमनसभावं तेन विना अप्पवत्तनतो. रुप्पनलक्खणं हेट्ठा वुत्तमेव. वेदनाक्खन्धो पन एकाव वेदना. सब्बदुब्बलचित्तानि नाम पञ्चविञ्ञाणानि. ननु तत्थ जीवितचित्तट्ठितियो च सन्तीति? सच्चं, तासं पन किच्चं न तथा पाकटं, यथा चेतनादीनन्ति ते एवेत्थ पाळियं उद्धटा. येन महन्तपातुभावादिना कारणेन. एत्थाति एतस्मिं महाभूतनिद्देसे. अञ्ञो विनिच्छयनयोति ‘‘वचनत्थतो कलापतो’’तिआदिना लक्खणादिनिच्छयतो अञ्ञो विनिच्छयनयो. ननु सो चतुधातुववत्थाने वुत्तो, न रूपक्खन्धनिद्देसेति? तत्थ वुत्तेपि ‘‘चतुधातुववत्थाने वुत्तानी’’ति अतिदेसवसेन वुत्तत्ता ‘‘रूपक्खन्धनिद्देसे वुत्तो’’ति वुत्तं. उपादायाति पटिच्च. भूतानि हि पटिच्च उप्पज्जमानं उपादारूपं ‘‘तानि गहेत्वा’’ति वुत्तं अविस्सज्जनतो. निस्सायातिपि एके तेसं निस्सयपच्चयभावतो. पुब्बकालकिरिया नाम एकंसतो अपरकालकिरियापेक्खाति पाठसेसेन अत्थं वदति. विभत्तिविपल्लासेन विना एव अत्थं दस्सेतुं ‘‘समूहत्थे वा’’तिआदि वुत्तं. समूहसम्बन्धे सामिनिद्देसेन समूहत्थो दीपितोति तं दस्सेन्तो आह ‘‘समूहं उपादाया’’ति. धम्मसङ्गणियं (ध. स. ५८४) आगतनयेन ‘‘तेवीसतिविध’’न्ति वुत्तं. तत्थ हि हदयवत्थु न निद्दिट्ठं, ‘‘यं रूपं निस्साया’’ति वा पट्ठाने (पट्ठान. १.१.८) आगतत्ता हदयवत्थुम्पि गहेत्वा जातिरूपभावेन उपचयसन्ततियो एकतो कत्वा ‘‘तेवीसतिविध’’न्ति वुत्तं.

चक्खुस्स विञ्ञाणन्ति वा चक्खुविञ्ञाणं. असाधारणकारणेन चायं निद्देसो. ‘‘सङ्खारपच्चया विञ्ञाण’’न्ति एत्थ सब्बलोकियविपाकविञ्ञाणस्स गहेतब्बत्ता ‘‘तेभूमकविपाकचित्तस्सेतं अधिवचन’’न्ति वुत्तं.

अभिसङ्खरणलक्खणोति आयूहनसभावो. चोपनवसेनाति विञ्ञत्तिसंचोपनवसेन, कायविञ्ञत्तिया समुट्ठापनवसेनाति अत्थो. वचनभेदवसेनाति वचीभेदुप्पादवसेन, वचीविञ्ञत्तिया समुट्ठापनवसेनाति अत्थो. एवं चोपनं न भवेय्याति दस्सेतुं ‘‘रहो निसीदित्वा चिन्तेन्तस्सा’’ति वुत्तं. एकूनतिंसाति एत्थ अभिञ्ञाचेतनाविनिमुत्ता एव एकूनतिंस चेतना वेदितब्बा तस्सा विपाकविञ्ञाणस्स पच्चयत्ताभावतो.

दुक्खेति एकम्पि इदं भुम्मवचनं संसिलेसननिस्सयविसयब्यापनवसेन अत्तानं भिन्दित्वा विनियोगं गच्छतीति ‘‘चतूहि कारणेही’’तिआदि वुत्तं. एकोपि हि विभत्तिनिद्देसो अनेकधा विनियोगं गच्छति यथा तद्धितत्थे उत्तरपदसमाहारेति. तन्ति अञ्ञाणं. दुक्खसच्चन्ति हदयवत्थुलक्खणं दुक्खसच्चं. अस्साति अञ्ञाणस्स. निस्सयपच्चयभावेनाति पुरेजातनिस्सयभावेन. सहजातनिस्सयपच्चयभावेन पन तंसहजाता फस्सादयो वत्तब्बा. आरम्मणपच्चयभावेन दुक्खसच्चं अस्स आरम्मणन्ति योजना. दुक्खसच्चन्ति उपयोगएकवचनं. एतन्ति अञ्ञाणं. तस्साति दुक्खसच्चस्स. ‘‘पटिच्छादेती’’ति एत्थ वुत्तं पटिच्छादनाकारं दस्सेतुं ‘‘याथावा’’तिआदि वुत्तं. ञाणविप्पयुत्तचित्तेनपि एकदेसेन याथावतो लक्खणपटिवेधो होतियेवाति ‘‘याथावलक्खणपटिवेधनिवारणेना’’ति वत्वा ‘‘ञाणपवत्तिया चेत्थ अप्पदानेना’’ति वुत्तन्ति वदन्ति. पुरिमं पन पटिवेधञाणुप्पत्तिया निसेधकथादस्सनं, पच्छिमं अनुबोधञाणुप्पत्तिया. एवमेत्थ अत्थो वेदितब्बो. एत्थाति दुक्खसच्चे.

सहजातस्स अञ्ञाणस्स समुदयसच्चं वत्थु होति निस्सयपच्चयभावतोति वुत्तं ‘‘वत्थुतो’’ति. आरम्मणतोति आरम्मणपच्चयभावेन. यस्मा समुदयसच्चं अञ्ञाणस्स आरम्मणं होति, तस्मा ‘‘दुक्खसमुदये अञ्ञाण’’न्ति वुत्तन्ति अत्थो. पटिच्छादनं दुक्खसच्चे वुत्तनयमेव एकेनेव कारणेन इतरेसं तिण्णं असम्भवतो, किं पन एतं एकं कारणन्ति आह ‘‘पटिच्छादनतो’’ति. इदं वित्थारतो विभावेतुं ‘‘निरोधपटिपदानं ही’’तिआदि वुत्तं. तदारब्भाति तं आरब्भ तं आरम्मणं कत्वा. पच्छिमञ्हि सच्चद्वयन्ति निरोधो मग्गो. तञ्हि नयगम्भीरत्ता. दुद्दसन्ति सण्हसुखुमधम्मत्ता सभावेनेव गम्भीरताय दुद्दसं दुविञ्ञेय्यं दुरवग्गाहं. तत्थाति पुरिमे सच्चद्वये. अन्धभूतन्ति अन्धकारभूतं. न पवत्तति आरम्मणं कातुं न विसहति. वचनीयत्तेनाति वाचकभावेन तथा उपट्ठानतो. सभावलक्खणस्स दुद्दसत्ताति पीळनादिआयूहनादिवसेन ‘‘इदं दुक्खं, अयं समुदयो’’ति (म. नि. ४८४; ३.१०४) याथावतो सभावलक्खणस्स दुद्दसत्ता दुविञ्ञेय्यत्ता पुरिमद्वयं गम्भीरं. तत्थाति पुरिमस्मिं सच्चद्वये. विपल्लासग्गाहवसेन पवत्ततीति सुभादिविपरीतग्गाहानं पच्चयभाववसेन अञ्ञाणं पवत्तति.

इदानि ‘‘दुक्खे अञ्ञाण’’न्तिआदीसु पकारन्तरेनपि अत्थं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. तत्थ दुक्खेति एत्तावताति ‘‘अञ्ञाणन्ति वुच्चमानाय अविज्जाय दुक्खे’’ति एत्तकेन. सङ्गहतोति समोधानतो. किच्चतोति असम्पटिवेधकिच्चतो. अञ्ञाणमिवाति विसयसभावं याथावतो पटिविज्झितुं अप्पदानकिच्चमिव. ‘‘दुक्खे’’तिआदिना तत्थ अविज्जा पवत्तति, विसेसतो निद्दिट्ठं होतीति कत्वा सब्बत्थेव तथा अविसिट्ठसभावदस्सनं इदन्ति दस्सेतुं ‘‘अविसेसतो पना’’तिआदि वुत्तं.

खणिकनिरोधस्स इध अनधिप्पेतत्ता अयुज्जमानत्ता विरागग्गहणतो च अविज्जादीनं पटिपक्खवसेन पटिबाहनं इध ‘‘निरोधो’’ति अधिप्पेतो, सो च नेसं सब्बसो अनुप्पज्जनमेवाति आह ‘‘निरोधो होतीति अनुप्पादो होती’’ति. ‘‘अविज्जा निरुज्झति एत्थाति अविज्जानिरोधो, सङ्खारा निरुज्झन्ति एत्थाति सङ्खारनिरोधो’’ति एवं सब्बेहि एतेहि निरोधपदेहि निब्बानस्स देसितत्ता दट्ठब्बा. तेनाह ‘‘निब्बानं ही’’तिआदि. वट्टविवट्टन्ति वट्टञ्च विवट्टञ्च. ‘‘द्वादसही’’ति इदं पच्चेकं योजेतब्बं ‘‘अनुलोमतो द्वादसहि पदेहि वट्टं, पटिलोमतो द्वादसहि विवट्टं इध दस्सित’’न्ति.

विभङ्गसुत्तवण्णना निट्ठिता.