९. वज्जिपुत्तसुत्तवण्णना
२२९. वज्जिरट्ठे राजपुत्तोति वज्जिरट्ठे जातसंवद्धो वज्जिराजपुत्तो. सब्बरत्तिचारोति छणसम्पत्तिया इतो चितो चरन्तेहि अनुभवितब्बनक्खत्तमहो. तेनाह ‘‘कत्तिकनक्खत्तं घोसेत्वा’’ तिआदि. एकाबद्धं होतीति यस्मा चातुमहाराजिकदेवा तस्मिं दिवसे नक्खत्तं घोसेत्वा अत्तनो पुञ्ञानुभावसिद्धाय दिब्बसम्पत्तिया महन्तं नक्खत्तकीळासुखं अनुभवन्ति, तस्मा तं तेहि एकाबद्धं विय होति. भेरिआदितूरियानन्ति भेरिमुदिङ्गसङ्खपणववीणादितूरियानं. ताळितानन्ति आरद्धलयानुरूपं पहटानं. वीणादीनन्ति वीणावेणुगोमुखीआदीनं. वादितानन्ति यथारद्धमुच्छनानुरूपं सङ्घट्टितानं. अभासीति तेन सद्देन आकड्ढियमानहदयो अयोनिसो उम्मुज्जित्वा ‘‘महती वत मे जानी’’ति अनुत्थुनन्तो अभासि. छड्डितदारुकं वियाति वने छड्डितनिरत्थककळिङ्गरं विय. लामकतरोति निहीनतरो. देवता पठमप्पितं आणिं पटाणिया नीहरन्ती विय तेन भिक्खुना वुत्तमत्थं अपनेन्ती ‘‘तस्स ते बहुका पिहयन्ती’’ति अवोचाति वुत्तन्ति दस्सेन्तो ‘‘थेरो’’तिआदिमाह. सग्गं गच्छन्तानं यथा नेरयिका पिहयन्ति, एवं सम्मापटिपन्नस्स तुय्हं बहू पिहयन्ति, तस्मा त्वं ‘‘पापियो’’ति अत्तानं मा मञ्ञित्थाति अधिप्पायो.
वज्जिपुत्तसुत्तवण्णना निट्ठिता.