६. अनुरुद्धसुत्तवण्णना

२२६. अनन्तरे अत्तभावेति अतीतानन्तरे देवत्तभावे. थेरो हि तावतिंसदेवलोका चवित्वा इधूपपन्नो. अग्गमहेसीति काचि परिचारिका देवधीता चित्तपणिधानमत्तेन इदानिपि देवकाये भविस्सति उपचितकुसलधम्मत्ताति मञ्ञमाना तस्मिं वत्तमानं विय कथेन्ती ‘‘सोभसी’’ति आह. एवं अतीतम्पिस्स दिब्बसोतं पच्चुप्पन्नं विय मञ्ञेय्य नातिचिरकालत्ताति दस्सेन्तो ‘‘पुब्बेपि सोभसी’’ति आह. सुगतिनिरयादिदुग्गतिया वसेन दुग्गता एतरहीति अधिप्पायो. पटिपत्तिदुग्गतिया कामेसु सम्मुच्छितभावतो.

पतिट्ठहन्तोति निविसन्तो. अट्ठहि कारणेहीति चिरकालपरिभावनाय विरुळ्हमूलेहि अयोनिसोमनसिकारादिपच्चयमूलकेहि वुच्चमानेहि अट्ठहि कारणेहि. रत्तो रागवसेनाति सभावतो सङ्कप्पतो च यथासमीहिते इट्ठाकारे सक्काये सञ्जातरागवसा रत्तो गिद्धो गधितो. पतिट्ठातीति ओरुय्ह तिट्ठति. दुट्ठो दोसवसेनाति सभावतो सङ्कप्पतो च यथासमीहिते अनिट्ठाकारे सक्काये सञ्जातदोसवसेन दुट्ठो रुपितचित्तो. मूळ्हो मोहवसेनाति असमपेक्खनेन मूळ्हो मुय्हनवसेन. विनिबद्धोति अहंकारेन विसेसतो निबन्धनतो मानवत्थुस्मिं बन्धितो. मानवसेनाति तेन तेन मञ्ञनाकारेन. परामट्ठोति धम्मसभावं निच्चादिवसेन परतो आमट्ठो. दिट्ठिवसेनाति मिच्छादस्सनवसेन. थामगतोति रागादिकिलेसवसेन थामं थिरभावं उपगतो. अनुसयवसेनाति मग्गेन अप्पहीनताय अनु अनु सन्ताने सयनवसेन. अप्पहीनट्ठो हि तेसं अनुसयट्ठो. अनिट्ठङ्गतोति संसयितो. विक्खेपगतोति विक्खित्तभावं उपगतो. उद्धच्चवसेनाति चित्तस्स उद्धतभाववसेन. तापीति तापि देवकञ्ञायो. एवं पतिट्ठितावाति यथावुत्तनयेन रत्तभावादिना सक्कायस्मिं पतिट्ठिता एव. नरदेवानन्ति पुरिसभूतदेवानं.

पटिगन्तुन्ति अपेक्खावसेन ततो अपगन्तुं अपेक्खं विस्सज्जेतुं. दुस्सन्तन्ति दसन्तं, ‘‘वत्थ’’न्ति केचि. सूचिं योजेत्वाति सिब्बनसुत्तेन सूचिं योजेत्वा पासे च पवेसेत्वा. मनापकाये देवनिकाये जाता मनापकायिका. तेसं पभावं दस्सेतुं ‘‘मनसा’’तिआदि वुत्तं. समज्जन्ति संहितं. गमनभावन्ति गमनज्झासयं. विक्खीणोति विच्छिन्दनवसेन खीणो. देवतानं उत्तरिमनुस्सधम्मारोचने दोसो नत्थीति तासं पुन अनागमनत्थं अरहत्तं ब्याकासि.

अनुरुद्धसुत्तवण्णना निट्ठिता.